Wednesday 30 August 2017

Subhashitham 31.08.2017

विद्या वितर्को विज्ञानं स्मृतिः तत्परता क्रिया ।

यस्यैते षड्गुणास्तस्य नासाध्यमतिवर्तते ॥

पदविभाग: प्रतिपदार्थ:

विद्या - विद्या
वितर्क: - न्यायिक:
विज्ञानं -  ज्ञानं
स्मृतिः - स्मरण शक्ति: 
तत् - तत् 
परता - श्रेष्टा 
क्रिया - कार्यं 
यस्य - यस्य
एते - एते
षड्गुणा: - षड् गुणा:
तस्य - तस्य
न - अव्ययं
असाध्यम् - कष्टम्
अति - अति
वर्तते - भवति

अन्वय:

यस्य विद्या वितर्क: विज्ञानं स्मृतिः तत् परता क्रिया एते षड्गुणा: (सन्ति) तस्य असाध्यम् अति न वर्तते |


तात्पर्यम्:
य: समिपे  विद्या वितर्क: विज्ञानं स्मृतिः तत् परता क्रिया एते षड्गुणा: अस्रि तम्  असाध्यम् कार्यं इति  न वर्तते |

Knowledge, logic/reasoning, wisdom, memory, assiduity and application – for the one who has these six qualities, there is nothing impossible for him.

सन्धि:
वितर्कः+विज्ञानम्-विसर्गः उकारः,
                         गुणसन्धिः
यस्य + एते - वृद्धिसन्धिः
षड्गुणाः+तस्य- विसर्गस्य सकारः
न + असाध्यम् - सवर्णदीर्गसन्धिः

Thursday 24 August 2017

Subhashitham 24.08.2017

विद्या विवादाय धनं मदाय शक्तिः परेषां परपीडनाय ।
खलस्यः साधोः विपरीतमेतद् ज्ञानाय दानाय च रक्षणाय॥

पदविभाग:

विद्या विवादाय धनं मदाय शक्तिः परेषां परपीडनाय खलस्यः साधोः विपरीतम् एतद् ज्ञानाय दानाय च रक्षणाय

प्रतिपदार्थ:

विद्या = ज्ञानम्
विवादाय = वादाय
धनं = अर्थः 
मदाय = अहंकारम्
शक्तिः = विक्रम:
परेषाम् = अन्येषाम्
परपीडनाय = कष्टम्
 खलस्य= दुर्जनस्य
साधो: = सज्जनस्य
विपरीतम् = विपर्यय:
एतत् = एतत्
ज्ञानाय = ज्ञानाय
दानाय = दानाय
रक्षणाय = अारक्षायेै


अन्वय:
खलस्य विद्या विवादाय धनं मदाय शक्तिः परेषां परपीडनाय। एतद्  विपरीतं  साधोः ( विद्या) ज्ञानाय (धनं) दानाया, (शक्तिः) रक्षणाय च

तात्पर्यम्
दुर्जनः तस्य विद्यां विवादाय उपयोगं करोति। तस्य धनेन तस्य अहंकारः वर्धते। तस्य शक्तिं परपीडनाय उपयोगं करोति। परन्तु सज्जनः तस्य विद्यां ज्ञानाय,धनं दानाय,शक्तिं पररक्षणाय उपयोगं करोति।

सन्धि:

एतत् सुभाषिते सन्धि: नास्ति |

Subhashitham 23.08.2017

अष्टौ गुणाः पुरुषं दीपयन्ति
प्रज्ञा च कौल्यं च दमः श्रुतं च।
पराक्रमश्चाबहुभाषिता च
दानं यथाशक्ति कृतज्ञता च।।

पदविभाग:

अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा कौल्यं दमः श्रुतं पराक्रमः बहुभाषिता यथा शक्ति दानं कृतज्ञता च

अन्वय:

 प्रज्ञा कौल्यं दमः श्रुतं पराक्रमः बहुभाषिता यथाशक्ति दानं कृतज्ञता च (एते) अष्टौ गुणाः पुरुषं दीपयन्ति

तात्पर्यम्

प्रतिभा कुलश्रेष्टता दमः ज्ञानं वीरः उचिता स्थाने भाषकः यथाशक्ति उपकारं उपकारज्ञाता एते अष्टौ गुणाः सज्जनाः एव सन्ति।एतेन गुणेन ते प्रज्ज्वल्यन्ते।

These eight virtues/merits increase the glory of a person – intelligence, noble descent, control over sense organs, knowledge of the Scriptures, courage, not being too talkative, charity as per one’s capacity and gratitude.

 सन्धिः
पराक्रमः + च = विसर्गः सकारः
च + अबहुभाषिता = सवर्णदीर्घसन्धिः
यथा + शक्ति = सवर्णदीर्घसन्धिः
[

Tuesday 22 August 2017

Subhashitham 22.08.2017

छायामन्यस्य कुर्वन्ति स्वयं तिष्टन्ति चातपे |
फलान्यपि परार्थाय वृक्षा: सत्पुरुषा: इव ||

पदविभाग:

छाया मन्यस्य कुर्वन्ति स्वयं तिष्टन्ति च आतपे 
फलान् अपि परार्थाय वृक्षा: सत्पुरुषा: इव 

अन्वय:
वृक्षा: छायामन्यस्य कुर्वन्ति स्वयम् आतपे तिष्टन्ति | (ते) फलान परार्थाय (ददाति) ते अपि सत्पुरुषा: इव |


तात्पर्यम् 

 तरुः स्वयम् आतपे तिष्ठति परन्तु छाया परं ददाति।तत फलानि अपि  परमेव ददाति। अत: वृक्ष:  सत्परुषाः इव जीवति।

The trees make shade for orhers, themselves stand in sun (heat). They give the fruits also for others only. Hence the Trees are like Sathpurushas.

सन्धिः
फलाणि + अपि = यणसन्धिः

Sunday 20 August 2017

Subhashitham 21.08.2017

वनानि दहतो वन्हेः सखा भवति मारुतः।

स एव दीपनाशाय कृशे कस्यास्ति सौहृदम् ॥


पदविभाग:
वनानि दहत: वन्हेः सखा भवति मारुतः स एव दीपनाशाय कृशे कस्य अस्ति सौहृदम् 


अन्वय:
वन्हे वनानि दहतो मारुतः सखा भवति स एव दीपनाशाय कृशे कस्य सौहृदं  अस्ति


तात्पर्यम्
अग्निः वनं दहति तत् समये पवनः तस्य सहाय्यं करोति। परन्तु एकस्मिन् समये पवन: लहु दीपस्य ज्वालं नश्यति | अत:  यस्य समीपे बलं ऐश्वर्यं च नास्ति  तस्य लोके मित्राणि अपि नास्ति । अतः वयं सर्वे बलं ऐश्वर्यं च सम्पादनीयम्।


When it cathes fire in forest, wind is there to assist it.(sakha bhavati marutah). Same wind destroys a small lamp(sa eva deep nashayay). If one dosen't have power/wealth, he dosent have friends (krshe kasyaasti sahrdam ).  The above Subhaashita is very much applicable from the  national point  of view.  One will support  you if  you are powerful or else the same will destroy you.  So the only alternative with us is to become a mighty and powerful nation in the world.


Saturday 19 August 2017

Subhashitham 20.08.2017

आकाशात् पतितं तोयं यथा गच्छति सागरम् |
सर्वदेव नमस्कार: केशवं प्रतिगच्छति ||

पदविभाग:

आकाशात् पतितम् तोयम् यथा गच्छति सागरम् सर्व देव नमस्कार: केशवं प्रति गच्छति 

अन्वय:

यथा आकाशात् पतितं तोयं  सागरं गच्छति  (तथा) सर्व देव नमस्कार: केशवं प्रतिगच्छति |

तात्पर्यम्

नभस्थल‍ात् पतन्ती वृष्टिः सदा सागरं गच्छति । तथैव सर्वेभ्यः देवेभ्यः कृत नमस्कारः श्रीकृष्णं प्रतिगच्छति ।

When rain falls that water reaches the sea at a stage. Similarly  The Namaskarams (Respect) to all gods will reach  Lord Krishna.*

Friday 18 August 2017

Subhashitham 19.08.2017

राजा घृणी ब्रह्मणा सर्वभक्षी
स्त्री चात्रपा दुष्टमति: सहाय: |
प्रेष्य: प्रतिपोsधिकृत: प्रमादी
त्याज्या अमी यश्च कृतं न वेत्ति ||

पदविभाग:

राजा घृणी ब्रह्मणा सर्वभक्षी स्त्री च अत्रपा दुष्टमति: सहाय: 
प्रेष्य: प्रतिप: अधिकृत: प्रमादी
त्याज्या अमी य  च कृतं न वेत्ति 

अन्वय:

घृणी राजा सर्वभक्षी ब्रह्मणा: अत्रपा स्त्री दुष्टमति: सहाय: प्रतीप: प्रेष्य: प्रमादी अधिकृतं य: च कृतं न वेत्ति - अमी त्याज्या:


तात्पर्यम्

दयालु: नृपति: सर्वभक्षी द्विज: लज्जारहिता स्त्री, दुष्टविचार: सेवक: विपरितकारी दूत: दोषकारी, अधिकारी कृतघ्न: च अपि त्याज्या:

A Wrathful king. Brahmin who eats everything, Women without Shame, a bad servant, a disobeying messenger, irresponsible person in authority and an ungrateful person are to be abandoned.
सन्धि:
 च + अत्रपा = चात्रपा , सवर्ण दीर्घ सन्धि:
प्रतीप: + अधिकृत: = विसर्ग उकारः ,गुण सन्धि:, पूर्वरूपम्
य: + च = विसर्गः सकार:

Thursday 17 August 2017

Subhashitham 18.08.2017

 आरभ्यते न खलु विघ्नभयेन नीचैः
          आरभ्य विघ्नविहिता विरमन्ति मध्याः |
विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः
          प्रारभ्य चोत्तमजना न परित्यजन्ति   ||

पदविभाग:

आरभ्यते न खलु विघ्न भयेन नीचैः आरभ्य विघ्नविहिता विरमन्ति मध्याः विघ्नैः पुनः पुन: अपि प्रतिहन्यमानाः प्रारभ्य च उत्तमजना: न परित्यजन्ति   

अन्वय:

नीचै: विघ्नभयेन न आरभ्यते |
मध्या: आरभ्य विध्नविहता विरमन्ति|
उत्तमजना: प्रारब्धं विघ्नै: पुन: पुन: प्रतिहन्यमाना: अपि न परित्यजन्ति |

तात्पर्यम्
नीचमनुष्यः विघ्नभयकारणेन यत्किमपि कार्यम् आरम्भं न करोति। सामान्य मानवः कार्यं आरम्भं कृत्वा यदि विघ्नः भवति तर्ही तत् कार्यं त्यजति। परन्तु उत्तमजनः कार्यं आरम्भं कृत्वा यदि  पुनः पुनः विग्नः भवति तदापि तस्य(कार्यं) न त्यजति।
एवमेव उदाहरणम् अन्य श्लोकेषु अपि विद्यते। इति मम अभिप्रायम्।
आरभन्तेSअल्पमेवाज्ञाः कामं 
                व्यग्रा भवन्ति च।
महारम्भाः कृतधियः तिष्ठन्ति
                 च निराकुलाः।।


Persons of  mean and lowest category do not begin a task because of the fear of facing obstacles in doing so, and the persons of middle category , after beginning a task abandon it unfinished on facing obstacles,  whereas  persons of highest merit after beginning a task never leave it unfinished and remain undeterred even if  they face obstacles again and again.



Wednesday 16 August 2017

Subhashitham 17.08.2017

त्यज दुर्जनसंसर्गं भज साधुसमागमम् |
कुरु पुण्यमहोरात्रं स्मर सर्वेश्वरं सदा ||

पदविभाग:

त्यज दुर्जन: संसर्गं भज साधु: समागमम् कुरु पुण्यम् अहः रात्रं स्मर सर्व इश्वरं सदा 

अन्वय:

त्यज दुर्जन: संसर्गं 
भज साधु: समागमम् 
अहः रात्रं  कुरु पुण्यम् 
सर्वेश्वरं सदा स्मर |

संस्कृत तात्पर्यं

दुष्टजनानां सङ्गति त्यक्तव्यम्।सत्जनानां स्नेहम् अवश्यं करणीयम्।दिनं रात्रं सत्कार्यं कर्तुं पुण्यं  सम्पादणीयम्।सर्वदा देवम् अवश्यं स्मरणियम् ।एते सत्जनाः गुणीनि सन्ति।

Leave the proximity of evil doers, resort to the company of the noble. Perform virtuous deeds day and night, remember the Lord all the time.

सन्धि:
दुर्जन: + संसर्गं = विसर्गः लोप:
अह: + रात्रं = विसर्गः उकारः



Subhashitham 16.08.2017

प्रथमवयसि पीतं तोयमल्पं स्मरन्तः
शिरसि निहितभाराः नारिकेलाः नराणाम् ।
ददति जलमतल्पास्वादमाजीवितान्तं
न हि कृतमुपकारं साधवो विस्मरन्ति ॥


पदविभाग:
प्रथम वयसि पीतं तोयम् अल्पं स्मरन्तःशिरसि निहितभाराः नारिकेलाः नराणाम् ददति जलम् अल्पास्वादम् आजीवितान्तं न हि कृतम् उपकारं साधव: विस्मरन्ति 

अन्वय:

नारिकेला: प्रथमवयसि पीतम् अल्पं तोयं स्मरन्त: शिरसि निहितभारा: अनल्पास्वादम् जलम् आजिवितान्तं ददति | साधव: कृतमुपकारं न हि विस्मरन्ति |

तात्पर्यम्

नारिकेलवृक्ष: स्वस्य आरम्भकाले  स्वल्पमेव तोयं पिबति, परन्तु जीवनपर्यन्तं स्वादुतोयं ददाति। एवमेव सज्जनाः परंकृते उपकारं न विस्मरन्ति परन्तु स्वस्य जीवनपर्यन्तं परोपकारं कुर्वन्ति।

The Coconut trees remember the water given in less quantity in the initial years. They therefore, provide with water which is tasty, not less in quantity for life. So like this a good man do not forget the help received by them.

Monday 14 August 2017

Subhashitham 15.08.2017

मूर्खा यत्र न पूज्यन्ते  धान्यं यत्र सुसञ्चितम् |


दाम्पत्ये कलहो नास्ति तत्र श्री: स्वयमागता ||


पदविभाग:
मुर्खा:  यत्र न पुज्यन्ते  धान्यं यत्र सुसञ्चितम् दाम्पत्ये कलह: नास्ति तत्र श्री: स्वयम् आगता 

अन्वय:
यत्र मुर्खा:   न पुज्यन्ते
यत्र धान्यं सुसञ्चितम्
(यत्र) दाम्पत्ये कलह: नास्ति
 तत्र श्री: स्वयम् आगता |


तात्पर्यम्


मूर्खा:  यत्र न आराध्यन्त:    धान्यं यत्र अधिकम् अस्ति  यत्र कुडुंबे कलह: नास्ति  तत्र लक्षमि स्वयमेव आगच्छ्ति।

Where imbecile are not revered, Where grain is abundantly collected, where there is no strife in matrimony, There Wealth (Sri Lakshmi) comes automatically.

Sunday 13 August 2017

Subhashitham 14.08.2017

एको धर्म: परम श्रेय: क्षमैका शान्तिरुत्तमा।
विद्यैका परमा तृप्तिरहिंसैका सुखावहा।।

पदविभाग:

एक: धर्म: परम श्रेय: क्षमा एका शान्ति: उत्तमा
विद्या एका परमा तृप्ति अहिंसा एका सुखावहा

अन्वय:
क्षमा एका (एव) शान्तिः उत्तमा
विद्या एका  (एव) परमा तृप्तिः
अहिंसा एका  (एव) सुखावहा
धर्मः एक:  (एव)  परम श्रेय: |

तात्पर्यम्
मनुष्यस्य क्षमागुणेन शान्तिः भवति। ज्ञानात् तृप्तिः प्राप्तिः । अहिंसया सन्तोष: भवति। धर्मः एव परम श्रेष्ठ: |


*Dharma alone leads to ultimate bliss. Forgiveness alone is the said to beget peace. Knowledge alone leads to ultimate contentment and non violence alone is the cause of happiness.


Vivekachudamani (Shlokas 91 to 110)

॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥   मूलश्लोक:   बाह्येन्द्रियै: स्थूलपदार्थसेवां स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् । करो...