Thursday 17 August 2017

Subhashitham 18.08.2017

 आरभ्यते न खलु विघ्नभयेन नीचैः
          आरभ्य विघ्नविहिता विरमन्ति मध्याः |
विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः
          प्रारभ्य चोत्तमजना न परित्यजन्ति   ||

पदविभाग:

आरभ्यते न खलु विघ्न भयेन नीचैः आरभ्य विघ्नविहिता विरमन्ति मध्याः विघ्नैः पुनः पुन: अपि प्रतिहन्यमानाः प्रारभ्य च उत्तमजना: न परित्यजन्ति   

अन्वय:

नीचै: विघ्नभयेन न आरभ्यते |
मध्या: आरभ्य विध्नविहता विरमन्ति|
उत्तमजना: प्रारब्धं विघ्नै: पुन: पुन: प्रतिहन्यमाना: अपि न परित्यजन्ति |

तात्पर्यम्
नीचमनुष्यः विघ्नभयकारणेन यत्किमपि कार्यम् आरम्भं न करोति। सामान्य मानवः कार्यं आरम्भं कृत्वा यदि विघ्नः भवति तर्ही तत् कार्यं त्यजति। परन्तु उत्तमजनः कार्यं आरम्भं कृत्वा यदि  पुनः पुनः विग्नः भवति तदापि तस्य(कार्यं) न त्यजति।
एवमेव उदाहरणम् अन्य श्लोकेषु अपि विद्यते। इति मम अभिप्रायम्।
आरभन्तेSअल्पमेवाज्ञाः कामं 
                व्यग्रा भवन्ति च।
महारम्भाः कृतधियः तिष्ठन्ति
                 च निराकुलाः।।


Persons of  mean and lowest category do not begin a task because of the fear of facing obstacles in doing so, and the persons of middle category , after beginning a task abandon it unfinished on facing obstacles,  whereas  persons of highest merit after beginning a task never leave it unfinished and remain undeterred even if  they face obstacles again and again.



No comments:

Post a Comment

Vivekachudamani (Shlokas 91 to 110)

॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥   मूलश्लोक:   बाह्येन्द्रियै: स्थूलपदार्थसेवां स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् । करो...