Saturday 25 July 2020

Viveka Chudamani Shlokas No 11 to 20

 ॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥
Shloka No: 11

मूलश्लोक:

चित्तस्य शुद्धये कर्म नतु वस्तूपलब्धये ।
वस्तुसिद्धिर्विचारेण न किंचित्कर्मकोटिभि: ॥११॥

पदविभाग:

चित्तस्य शुद्धये कर्म न तु वस्तूपलब्धये वस्तुसिद्धि: विचारेण न किंचित् कर्मकोटिभि: 

पदार्थ:

चित्तस्य - अन्त:करणस्य
शुद्धये - शुद्ध्यर्थम्
कर्म - कर्म
वस्तूपलब्धये - ब्रह्मप्राप्त्यर्थम्
वस्तुसिद्धि: - ज्ञानप्राप्ति:
विचारेण - शास्त्रविचारेण
 किंचित् - किंचित्
कर्मकोटिभि: - अनेककर्मभि:

अन्वय:

कर्म चित्तस्य शुद्धये (एव)  । (कर्म) वस्तूपलब्धये  न । वस्तुसिद्धि: विचारेण (एव भवति) । कर्मकोटिभि: किंचित् न (सिध्यति) ।

तात्पर्यम्

कर्म अन्त:करणस्य  शुद्धये एव  । कर्मणा वस्तूपलब्धि:   न भवति । वस्तुसिद्धि: (ज्ञानप्राप्ति:) शास्त्रविचारेण एव भवति । कर्मकोटिभि: ज्ञानप्राप्ति: किंचित् अपि न सिध्यति ।

व्याकरणम्
▶ सन्धि:
वस्तुसिद्धि: + विचारेण - विसर्गरेफ:

Shloka No 12

मूलश्लोक:

सम्यग्विचारत: सिद्धा रज्जुतत्वावधारणा ।
भ्रान्त्योदितमहासर्पभवदु:खविनाशिनी ॥१२॥

पदविभाग:

सम्यग्विचारत: सिद्धा रज्जुतत्व अवधारणा भ्रान्त्योदितमहासर्पभवदु:खविनाशिनी 

पदार्थ:

सम्यग्विचारत: - शास्त्रविचारत:
सिद्धा - सिध्यति
रज्जुतत्व - रज्जुसर्प
अवधारणा -  अवधारणा
भ्रान्त्योदितमहासर्पभवदु:खविनाशिनी - भ्रान्त्याजातं-जन्ममरणप्रयोज्यदु:ख- विनाशिनी

अन्वय:

 
सम्यग्विचारत:  रज्जुतत्व अवधारणा सिद्धा । (सा) भ्रान्त्योदितमहासर्पभवदु:खविनाशिनी (भवति)

तात्पर्यम्

सम्यग् शास्त्रविचारत:   रज्जुतत्व अवधारणा भविष्यति । सा
भ्रान्त्या-उदित-महासर्प-भवदु:ख-विनाशिनी भवति


Shloka No 13

मूलश्लोक:

अर्थस्य निश्चयो दृष्टो विचारेण हितोक्तित: ।
न स्नानेन न दानेन प्राणायामशतेन वा ॥ १३॥

पदविभाग:

अर्थस्य निश्चय: दृष्ट: विचारेण हितोक्तित: न स्नानेन न दानेन प्राणायामशतेन वा

पदार्थ:

अर्थस्य -सत्यवस्तुन:
निश्चय: - दृढ:
दृष्ट: - लभते
विचारेण - शास्त्रोपदेशेन
हितोक्तित: - गुरुवाक्येण
स्नानेन - तीर्थस्नानेन 
दानेन - अनेकदानेन
प्राणायामशतेन - शतप्राणायामै:


अन्वय:

अर्थस्य निश्चय: हितोक्तित: विचारेण (एव) दृष्ट: ।  स्नानेन (वा) दानेन (वा) प्राणायामशतेन वा ( न लभते) ।

तात्पर्यम्

सत्यवस्तुन: दृढज्ञानं गुरूपदेशेन शास्त्रवाक्यविचारेण एव लभते । अनेक तीर्थस्थलेषु स्नानेन वा  अनेकै: दानै: वा  प्राणायामै: वा न भवति । भगावान् श्री आदिशङ्कराचार्य: पौनपुन्येन ज्ञानादेव तु कैवल्यम् इति वदति । 

▶व्याकरणम्
सन्धि:
निश्चय: +दृष्ट: - विसर्गउकार;

दृष्ट: +विचारेण - - विसर्गउकार;

Shloka No 14

मूलश्लोक:

अधिकारिणमाशास्ते फलसिद्धिर्विशेषत: ।
उपाया देशकालाद्या: सन्त्यस्यां सहकारिण: ॥१૪॥

पदविभाग:

अधिकारिणम् आशास्ते फलसिद्धि: विशेषत: उपाया: देशकालाद्या: सन्ति अस्यां सहकारिण: 


पदार्थ:

अधिकारिणम् - विवेक-वैराग्य-शमादिषट्कमुमुक्षुत्वानाम्
आशास्ते -आशास्ते
फलसिद्धि: - ज्ञानप्राप्ति:
विशेषत: - मुख्यत:
उपाया: - मार्गा:
देशकालाद्या: - देशकालाद्या:
सन्ति - भवन्ति
अस्यां - अस्याम्
सहकारिण: - सहकारित्वमात्रम्


अन्वय:

फलसिद्धि: विशेषत: अधिकारिणम् आशास्ते । अस्यां देशकालाद्या: 
उपाया:  सहकारिण: सन्ति ।

तात्पर्यम्

अस्मिन् श्लोके भगवान् श्रीअादिशंकराचार्य अधिकारित्वस्य महत्वम् वदति । फलसिद्धि: मुख्यत: अधिकारिणम् अपेक्षते । अस्यां देशकालाद्या: उपाया:  सहकारिण: एव भवन्ति   । 

व्याकरणम्
सन्धि:
फलसिद्धि: + विशेषत: - विसर्गरेफ:

सन्ति + अस्याम् - यण्सन्धि:

Shloka No 15

मूलश्लोक:

अतो विचार: कर्तव्य: जिज्ञासोरात्मवस्तुन: ।
समासाद्य दयासिन्धुं गुरुं ब्रह्मविदुत्तमम् ॥ १५॥

पदविभाग:

अत: विचार: कर्तव्य: जिज्ञासो: आत्मवस्तुन: समासाद्य दयासिन्धुं गुरुं ब्रह्मविदुत्तमम् 


पदार्थ:

अत: - सर्वान्-अर्थनिवर्तक-निर्णयहेतुत्वात् विचार: - आत्मविचार:
कर्तव्य: - करणीय:
जिज्ञासो: - सम्यक् ज्ञातोमिच्छो:
आत्मवस्तुन: - आत्मज्ञानम्
समासाद्य - समीपे गत्वा
दयासिन्धुं - दयास्वरूपम्
गुरुं - सद्गुरुम्
ब्रह्मविदुत्तमम् - स्थितप्रज्ञम्

अन्वय:

 अत: जिज्ञासो:  ब्रह्मविदुत्तमम् दयासिन्धुं गुरुं  समासाद्य
आत्मवस्तुन: विचार: कर्तव्य: ।  

तात्पर्यम्

आत्मस्वरूपं ज्ञातुं विचारसाधनमेव अावश्यकम्  इति हेतो: जिज्ञासुना ब्रह्मविदुत्तमं दयासिन्धुं गुरुं प्राप्य आत्मविषये विचार: कर्तव्य: ।

व्याकरणम्
 सन्धि:
अत: + विचार: - विसर्गउकार:

जिज्ञासो: + आत्मवस्तुन: - विसर्गरेफ:

Shloka No 16


मूलश्लोक:

मेधावी पुरुषो विद्वान् ऊहापोगविचक्षण: ।
अधिकार्यात्मविद्यायां उक्तलक्षणलक्षित: ॥१६॥

पदविभाग:

मेधावी पुरुष: विद्वान् ऊहापोगविचक्षण: अधिकारी आत्मविद्यायां उक्तलक्षणलक्षित: 


पदार्थ:

मेधावी -श्रुतार्थधारणक्षमबुद्धिमान् पुरुष: - मनुष्य:
विद्वान् - अधीत-काव्यकोशव्याकरण:
ऊहापोगविचक्षण:- पदवाक्यप्रमाणज्ञ: अधिकारी -अधिकारी
आत्मविद्यायां - आत्मविद्यायां
उक्तलक्षणलक्षित: - विवेक-वैराग्य-शमादिषट्क-मुमुक्षुत्वरूप-साधनचतुष्टय-सम्पन्न: 

अन्वय:

मेधावी  विद्वान् ऊह-अपोगविचक्षण:उक्तलक्षणलक्षित: पुरुष: आत्मविद्यायां अधिकारी (भवति)

तात्पर्यम्

भगवान् श्रीआदिशङ्कराचार्य: आत्मविद्यां प्राप्तुम् अधिकारलक्षणानि अस्मिन् श्लोके वदति । अष्टमश्लोकात् आरभ्य पञ्चदशश्लोकपर्यन्तम् अनेकलक्षणानि कथितानि।  य: पुरुष: तानि लक्षणानि सम्यक् प्राप्य अधीत-काव्यकोशव्याकरण: सन् पदवाक्यप्रमाणज्ञ: मेधावी च अस्ति
स एव आत्मविद्यायाम् अधिकारी इति  दृढेन वदति ।

व्याकरणम्
 सन्धि:
पुरुष: + विद्वान् - विसर्गउकार:

अधिकारी + आत्मविद्यायाम् -यण्सन्धि:

Shloka No 17

मूलश्लोक:

विवेकिनो विरक्तस्य शमादिगुणशालिन: ।
मुमुक्षोरेवहि ब्रह्मजिज्ञासा योग्यता मता ॥१७॥

पदविभाग:

विवेकिन: विरक्तस्य शमादिगुणशालिन: मुमुक्षो: एव हि ब्रह्मजिज्ञासा योग्यता मता


पदार्थ:

विवेकिन: - नित्यानित्यवस्तुविवेकिन:
विरक्तस्य - वैराग्यस्य
शमादिगुणशालिन: - शमादिषट्कसम्पत्ति: प्राप्त:
मुमुक्षो: - मोक्तुम् इच्छो:
ब्रह्मजिज्ञासा - ब्रह्मण: जिज्ञासा 
योग्यता - अधिकारित्वम्
मता - मता

अन्वय:

विवेकिन: विरक्तस्य शमादिगुणशालिन: मुमुक्षो: एव हि ब्रह्मजिज्ञासायोग्यता मता ।

तात्पर्यम्

भगवान् श्रीआदिशङ्कराचार्य: मुमुक्षो: यानि लक्षणानि सन्ति इति दृढतया अस्मिन् शलोके वदति । नित्यानित्यवस्तुविवेकिन: विरक्तस्य शमादिषट्कसम्पत्तिन: मुमुक्षो: एव ब्रह्मज्ञानं प्राप्तुम् अर्हता अस्ति इति मम मता ।

व्याकरणम्
  सन्धि:
विवेकिन: + विरक्तस्य - विसर्गउकार:

मुमुक्षो: + एव - विसर्गरेफ:

Shloka No 18

मूलश्लोक:

साधनान्यत्र चत्वारि कथितानि मनीषिभि: ।
येषु सत्स्वेव सन्निष्ठा  यदभावे न सिद्ध्यति ॥१८॥

पदविभाग:

साधनानि अत्र  चत्वारि कथितानि मनीषिभि: येषु सत्सु एव सन्निष्ठा  यत् अभावे न सिद्ध्यति 


पदार्थ:

साधनानि - विवेकादि साधनानि
अत्र  - वेदान्तशास्त्रे
चत्वारि - चत्वारि
कथितानि - उक्तानि
मनीषिभि: - बादरायणप्रभृतिभि:
सन्निष्ठा  - सन्निष्ठा
यत् अभावे - असम्भवात्
सिद्ध्यति - लभते

अन्वय:

 येषु (साधनेषु) सत्सु एव सन्निष्ठा (भवति)  यत् अभावे न सिद्ध्यति (तानि) चत्वारि  साधनानि अत्र    मनीषिभि: कथितानि ।

तात्पर्यम्

येषु साधनेषु (साधनचतुष्टयम्) सत्सु  एव सन्निष्ठा भवति यत् अभावे न सिद्ध्यति  (तानि) चत्वारि साधनानि अस्मिन् विषये बादरायणप्रभृतिभि: मनीषिभि: कथितानि ।

व्याकरणम्
सन्धि:
साधनानि + अत्र - यण्सन्धि:

सत्सु + एव - यण्सन्धि:

यत् + अभावे - जश्त्वसन्धि:

Shloka No 19
मूलश्लोक:

आदौ नित्यानित्यवस्तुविवेक: परिगण्यते ।
इहामुत्रफलभोगविराग: तदनन्तरम् ॥
शमादिषट्कसंपत्ति: मुमुक्षुत्वं इति स्फुटम्   ।१९॥

पदविभाग:

आदौ नित्यानित्यवस्तुविवेक: परिगण्यते इहामुत्रफलभोगविराग: तत् अनन्तरम्  शमादिषट्कसंपत्ति: मुमुक्षुत्वं इति स्फुटम्   

पदार्थ:

आदौ - पूर्वे
नित्यानित्यवस्तुविवेक: - नित्य-अनित्य-वस्तुज्ञानम्
परिगण्यते - उच्यते
 इहामुत्रफलभोगविराग: - वैराग्य:
अनन्तरम्  - पश्चात्
शमादिषट्कसंपत्ति: - शम: दम: उपरम: तितिक्षा श्रद्धा समाधानम् च
मुमुक्षुत्वं - मुमुक्षुत्वम्
स्फुटम् - दृढम्  

अन्वय:
आदौ नित्यानित्यवस्तुविवेक: परिगण्यते । तत् अनन्तरम्
इहामुत्रफलभोगविराग:   शमादिषट्कसंपत्ति: मुमुक्षुत्वं इति स्फुटम्   

तात्पर्यम्

 अस्मिन् श्लोके भगवान् श्री आदिशङ्कराचार्य: साधनानि क्रमत: निर्दिशति । आदौ नित्यानित्यवस्तुविवेक: आवश्यक: । तदनन्तरं वैराग्यम् उक्तम् । तत: शमादि षट्कसम्पत्ति: इति षट्गुणानि उक्तानि।तदनन्तरम् मुमुक्षुत्वम् उक्तम् ।

व्याकरणम्
 सन्धि:
तत् + अनन्तरम्  - जश्त्वसन्धि:

Shloka No 20

मूलश्लोक:

ब्रह्मसत्यं जगन्मिथ्येत्येवंरूपो विनिश्चय: ।
सोsयं नित्यानित्यवस्तुविवेक: समुदाहृत: ॥२०॥


पदविभाग:

ब्रह्म सत्यं जगत् मिथ्या इति एवंरूप: विनिश्चय: स: अयं नित्यानित्यवस्तुविवेक: समुदाहृत:

पदार्थ:

ब्रह्म - ब्रह्म
सत्यं -नित्यम्
जगत् - जगत्
मिथ्या - अनित्यम् 
विनिश्चय: - दृढनिश्चय:
नित्यानित्यवस्तुविवेक: - नित्य-अनित्य-वस्तुज्ञानम्
समुदाहृत:- सम्यक् उदाहृत:

अन्वय:

ब्रह्म सत्यं जगत् मिथ्या इति एवंरूप: विनिश्चय: स: अयं नित्यानित्यवस्तुविवेक: (इति) समुदाहृत: ।

तात्पर्यम्

 पूर्वस्मिन् श्लोके भगवान् श्री आदिशङ्कराचार्य: चत्वारि साधनानि उक्तवान् । अस्मिन् श्लोके स:
नित्यानित्यवस्तुविवेकं सम्यक् वर्णयति । ब्रह्म सत्यं जगत् मिथ्या इति एवंरूप: विशेषेण निश्चय:  अस्ति इति वदति। 

व्याकरणम्
  सन्धि:
जगत् + मिथ्या - अनुनासिकासन्धि: 

एवंरूप: + विनिश्चय: - विसर्गउकार:

 स: + अयं - विसर्गउकार:

नमो नम: श्रीगुरुपादुकाभ्याम् ।

~ शरवण:

Thursday 16 July 2020

Viveka Chudamani Shlokas 1 - 10

श्रीमद्शङ्करभगवत्पादविरचिता    विवेकचूडामणि:

मूलश्लोक:
मङ्गलाचरणम्

सर्ववेदान्तसिद्धान्तगोचरं तमगोचरम् ।
गोविन्दं परमानन्दं सद्गुरुं प्रणतोsस्म्यहम् ॥


पदविभाग:

सर्ववेदान्तसिद्धान्तगोचरं तम् अगोचरम् गोविन्दं परमानन्दं सद्गुरुं प्रणत: अस्मि अहम् 

पदार्थ:

सर्ववेदान्तसिद्धान्तगोचरं - सर्ववेदान्तसिद्धान्तवाक्येषु शुद्धबुद्ध्या ज्ञातम्
अगोचरम् - बुद्धिग्राह्यमतीन्द्रियम्
गोविन्दं - श्री गोविन्दभगवद्पादम्
परमानन्दं - परमानन्दस्वरूपम्
सद्गुरुं - सद्गुरुम्
प्रणत:  - नत:
अस्मि - अस्मि
अहम् - अहम्

अन्वय:

अहं सर्ववेदान्तसिद्धान्तगोचरम् अगोचरं परमानन्दं सद्गुरुं तं गोविन्दं प्रणतः अस्मि |


तात्पर्यम्

अयं श्लोक: विवेकचूडामण्या: मङ्गलाचरणश्लोक: । अस्मिन् श्लोके श्रीशङ्कर: तस्य गुरुं नमस्कृत्य ग्रन्थं आरम्भं करोति  ।  प्रकरणग्रन्थेषु प्रथमं विवेकचूडामणि: ग्रन्थस्य रचनां  श्रीशङ्कर: कृतवान् इति पण्डिता: अभिप्रयन्ति ।  अस्मिन् श्लोके स: तस्य गुरो: महत्वम् उक्तवा अनमत् । बुद्धिग्राह्यमतीन्द्रियं  सर्ववेदान्तसिद्धान्तवाक्येषु शुद्धधिया ज्ञातं परमानन्दस्वरूपं सद्गुरुं श्री गोविन्दभगवद्पादं अहं प्रकर्षेण नत: अस्मि ।

गोविन्दपदेन स: श्रीविष्णुं नमस्करोति इत्यपि सिद्धम्  । एतेन  पदेन गुरु-देव-वन्दनम् भवति ।

व्याकरणम्
▶ सन्धि:
प्रणत: + अस्मि - विसर्गउकार: पूर्वरूपसन्धि:

अस्मि + अहम् - यण्सन्धि:

▶ कृदन्ता:

प्रणत: - प्र + नम् + क्त प्रत्यय:


Shloka : 2

मूलश्लोक:

जन्तूनां नरजन्मदुर्लभमतः पुंस्त्वं ततो विप्रता तस्माद्वैदिकधर्ममार्गपरता विद्वत्वमस्मात् परम्।
आत्मानात्मविवेचनं स्वनुभवो ब्रह्मात्मनासंस्थितिः मुक्तिर्नो शतकोटिजन्मसु कृतैः पुण्यैर्विना लभ्यते॥२॥

पदविभाग:

जन्तूनां नरजन्म दुर्लभम् अतः पुंस्त्वं तत: विप्रता तस्मात् वैदिकधर्ममार्गपरता विद्वत्वम् अस्मात् परम् आत्मानात्मविवेचनं स्वनुभव: ब्रह्मात्मनासंस्थितिः मुक्ति: न शतकोटिजन्मसु कृतैः पुण्यै: विना लभ्यते

पदार्थ:

जन्तूनां - प्राणिनाम्
नरजन्म - मनुष्यजन्म
दुर्लभम् - दुर्लभम्
पुंस्त्वं -पुंस्त्वम्
 विप्रता - ब्राह्मणजन्म
वैदिकधर्ममार्गपरता - वैदिकधर्मानुष्ठानम् 
विद्वत्वम्  - वेदान्तवाक्य श्रवणजन्य परोक्षज्ञानत्वम्
परम् - श्रेष्ठम्
आत्मानात्मविवेचनं - आत्मानात्मा भेद बुद्धि: 
स्वनुभव: - साक्षात्कारानुभवम्
ब्रह्मात्मनासंस्थितिः - ब्रह्मात्मनासंस्थितिः
मुक्ति: - मुक्ति: 
शतकोटिजन्मसु कृतैः- शतकोटिजन्मसु कृतैः
 पुण्यै: - पुण्यै:
विना - विना
लभ्यते - प्राप्यते

अन्वय:

जन्तूनां नरजन्म (दुर्लभम्) । अतः पुंस्त्वं (दुर्लभम्) । ततः विप्रता तस्मात् वैदिकधर्ममार्गपरता दुर्लभम्। अस्मात् परम् विद्वत्वं आत्मानात्मविवेचनं स्वनुभवः ब्रह्मात्मना संस्थितिः मुक्तिः शतकोटिजन्मसु कृतैः पुण्यैः विना न लभ्यते |


तात्पर्यम्

अस्मिन् श्लोके भगवान् आदिशंकराचार्य: मनुष्यजन्म कथं दुर्लभमिति  कथयति । प्राणिनां नरजन्मप्राप्ति: दुर्लभा  । तत्रापि  पुंस्त्वं अतिदुर्लभम् । तस्मादपि  ब्राह्मणत्वं दुर्लभम् । अनन्तरं वैदिकमार्गगमनं तत्रापि दुर्लभम् । शास्त्रग्रन्थेषु विद्वत्वं अतिदुर्लभम् ।  आत्मानात्म विवेक:  सम्पादनीय: स्वनुभव: अवश्यक:। ब्रह्मात्मना संस्थिति: प्राप्तव्या । एतत् सर्वं सम्पाद्य एकेन मनुष्येन   शतकोटिजन्मसु कृतैः पुण्यैः विना मुक्ति: न प्राप्यते।

व्याकरणम्
▶ सन्धि:
तत: + विप्रता - विसर्गउकार:.

तस्मात् + वैदिकधर्ममार्गपरता - जश्त्वसन्धि:

स्वनुभव: + ब्रह्मात्मनासंस्थितिः - विसर्गउकार:

मुक्ति: + न - विसर्गरेफ:

न + शतकोटिजन्मसु - विसर्गउकार:

पुण्यै: + विना - विसर्गरेफ:

Shloka No : 3
मूलश्लोक:

दुर्लभं त्रयमेवैतत् देवानुग्रहहेतुकम् ।
मनुष्यत्वं मुमुक्षुत्वं महापुरुषसंश्रय: ॥३॥

पदविभाग:

दुर्लभं त्रयम् एव एतत् देवानुग्रहहेतुकम् 
मनुष्यत्वं मुमुक्षुत्वं महापुरुषसंश्रय: 

पदार्थ:

दुर्लभं - बहुजन्मार्जितसुकृतविशेषप्राप्यम्
त्रयम् - त्रयम्
देवानुग्रहहेतुकम् - देवानुग्रह कारणम् 
मनुष्यत्वं - मनुष्यत्वं
मुमुक्षुत्वं - मुमुक्षुत्वं
महापुरुषसंश्रय: - सत्पुरुषसंश्रय:

अन्वय:

मनुष्यत्वं मुमुक्षुत्वं महापुरुषसंश्रय: एतत् त्रयं दुर्लभं एव । देवानुग्रहहेतुकम् । 

तात्पर्यम्

अस्मिन् श्लोके भगवान् आदिशंकराचार्य: इत्थं स्व अभिप्रायां प्रकटयति  । मनुष्यत्वं मुमुक्षुत्वं महापुरुषसंश्रय: एतत् त्रयं अपि अतिदुर्लभम् इति  । केवलं देवानुग्रहवसात्  एव एतत् त्रयं अपि लभ्यते इति वदति ।

व्याकरणम्
▶ सन्धि:
एव + एतत् - वृद्धिसन्धि:

Shloka No : 4
मूलश्लोक:

लब्ध्वा कथंचित् नरजन्म दुर्लभं तत्रापि पुंस्त्वं श्रुतिपारदर्शनम् ।
यस्सवात्ममुक्त्यै न यतेत मूढधी: स आत्महा स्वं विनिहन्त्यसद्ग्रहात् ॥૪॥

पदविभाग:

लब्ध्वा कथंचित् नरजन्म दुर्लभं तत्र अपि पुंस्त्वं श्रुतिपारदर्शनम् 
य: स्वात्ममुक्त्यै न यतेत मूढधी: स: आत्महा स्वं विनिहन्ति असद्ग्रहात् 

पदार्थ:

लब्ध्वा -प्राप्य  
नरजन्म - मनुष्यजन्म
दुर्लभं - अतिदुर्लभम्
पुंस्त्वं -पुरुषत्वम्
श्रुतिपारदर्शनम् - वेदपारदर्शनम्
स्वात्ममुक्त्यै - स्वस्य- आत्ममुक्त्यै
 न यतेत - न प्रयत्नं करोति
मूढधी: - मूढधी: 
आत्महा -आत्महा
 स्वं - स्वम् 
विनिहन्ति - सम्यक् हन्ति
असद्ग्रहात् - असत् इति मत्वा 

अन्वय:

कथंचित्  दुर्लभं नरजन्म लब्ध्वा तत्र अपि पुंस्त्वं श्रुतिपारदर्शनम् (प्राप्य)
य: मूढधी: स्वात्ममुक्त्यै न यतेत  स: आत्महा (भवति) । स्वं  असद्ग्रहात् विनिहन्ति ।

तात्पर्यम्

अस्मिन् श्लोके अपि  भगवान् आदिशंकराचार्य: मनुष्यजन्मप्रशंसाम् एव वदति । कथंचित्  दुर्लभं नरजन्म लब्ध्वा तत्रापि पुंस्त्वं श्रुतिपारदर्शनम् च प्राप्य य: मूढधी: स्वात्ममुक्त्यर्थं न प्रयत्नं करोति  स: आत्महा भवति । स:  असद्ग्रहात् अनात्म-अभिमानात्  स्वं विनिहन्ति ।

व्याकरणम्
▶सन्धि:
तत्र + अपि - सवर्णदीर्घसन्धि:

स: + आत्महा - विसर्गलोप:

य: + स्वात्ममुक्त्यै - विसर्गसकार: 

विनिहन्ति + असत्ग्रहात् - यण्सन्धि:


Shloka No: 5
मूलश्लोक:

इत: को न्वस्ति मूढात्मा यस्तु स्वार्थे प्रमाद्यति ।
दुर्लभं मानुषं देहं प्राप्य तत्रापि पौरुषम् ॥५॥

पदविभाग:
इत: क: नु अस्ति मूढात्मा य: तु स्वार्थे प्रमाद्यति दुर्लभं मानुषं देहं प्राप्य तत्र अपि पौरुषम् 

पदार्थ:

अस्ति - भवति 
मूढात्मा - मूढ:
 स्वार्थे - स्वस्य विषये 
प्रमाद्यति -  प्रमाद्यति
दुर्लभं - अतिदुर्लभम्
मानुषं - पुरुषम् 
देहं - शरीरम् 
प्राप्य - लब्ध्वा 
पौरुषम् - पुरुषत्वम् 


अन्वय:

दुर्लभं मानुषं देहं प्राप्य तत्र अपि पौरुषम् (प्राप्य) य: तु स्वार्थे प्रमाद्यति 
इत:  मूढात्मा क: नु अस्ति  ?।

तात्पर्यम्

अस्मिन् श्लोके भगवान् आदिशंकराचार्य: इत्थं  वदति ।  मानुषं देहं अतिदुर्लभम् । तत् प्राप्य  पौरुषम् बहुदुर्लभम् । तदपि प्राप्य य: नर:  स्वार्थे प्रमाद्यति इत: मूढात्मा क: नु अस्ति  ?।

व्याकरणम्
▶ सन्धि:
क: + नु - विसर्गउकार:

नु+ अस्ति - यण्सन्धि:

य: + तु - विसर्गसकार:

तत्र + अपि - सवर्णदीर्घसन्धि:

▶ कृदन्ता:

प्राप्य - प्र + आप् + ल्यप् प्रत्यय:


Shloka No 6
मूलश्लोक:

पठन्तु शास्त्राणि यजन्तु देवान् कुर्वन्तु कर्माणि भजन्तु देवता:।
आत्मैक्यबोधेन विना विमुक्ति: न सिध्यति ब्रह्मशतान्तरेsपि ॥६ ॥

पदविभाग:

पठन्तु शास्त्राणि यजन्तु देवान् कुर्वन्तु कर्माणि भजन्तु देवता:
आत्मैक्यबोधेन विना विमुक्ति: न सिध्यति ब्रह्मशत-अन्तरे अपि 

पदार्थ:

पठन्तु - वदन्तु
शास्त्राणि - शास्त्राणि
यजन्तु - यागान् कुर्वन्तु
देवान् - सर्वान् देवान्
कुर्वन्तु - कुर्वन्तु
कर्माणि - कर्माणि
भजन्तु - पूजयन्तु
देवता: - देवता: 
आत्मैक्यबोधेन  -आत्मैक्यबोधेन
विना - विना
विमुक्ति:- मुक्ति:
सिध्यति -प्राप्यते
ब्रह्मशतान्तरे - ब्रह्मण: शतायु: अन्तरे


अन्वय:

(नरा:) शास्त्राणि पठन्तु । देवान् यजन्तु । कर्माणि कुर्वन्तु  । देवता: भजन्तु । आत्मैक्यबोधेन विना विमुक्ति: ब्रह्मशतान्तरे अपि न सिध्यति ।

तात्पर्यम्

अस्मिन् श्लोके भगवान् आदिशंकराचार्य: कस्य विमुक्ति: न सिध्यति इति वदति ।   नरा: अनेकानि शास्त्राणि पठन्तु । अनेकान् देवान् यजन्तु । सर्वाणि कार्याणि कुर्वन्तु  । सर्वा:  देवता: पूजयन्तु । परन्तु
आत्मैक्यबोध ज्ञानेन  विना विमुक्ति: ब्रह्मण: शतायु: अन्तरे अपि न सिध्यति ।

*पाठभेद:* वदन्तु शास्त्राणि* 

व्याकरणम्
▶ सन्धि:
ब्रह्मशतान्तरे + अपि - पूर्वरूपसन्धि:

Shloka No 7
मूलश्लोक:

अमृतत्वस्य नाशास्ति वित्तेनेत्येव हि श्रुति: ।
ब्रवीति कर्मणो मुक्ते: अहेतुत्वं स्फुटं यत: ॥०७॥

पदविभाग:

अमृतत्वस्य न आशा अस्ति वित्तेन इति एव हि श्रुति: ब्रवीति कर्मण: मुक्ते: अहेतुत्वं स्फुटं यत: 

पदार्थ:

अमृतत्वस्य - मोक्षस्य
आशा - राग:  
वित्तेन - धनेन 
श्रुति:  - वेद:
ब्रवीति - वदति
कर्मण: - कर्मण:
मुक्ते: -मुक्ते:
अहेतुत्वं - अकारणम्
 स्फुटं  - दृढम्
यत: - यत:


अन्वय:

वित्तेन  अमृतत्वस्य न आशा अस्ति  इति एव  श्रुति: ब्रवीति । यत: कर्मण: मुक्ते: अहेतुत्वं स्फुटं (भवति) । हि (मुक्ते: ज्ञानमेव  साधनम् )

तात्पर्यम्

अस्मिन् श्लोके भगवान् आदिशंकराचार्य: मोक्षस्थिति: आत्मन: स्वभावस्थिति:  इति कारणात् कर्मणा मोक्ष: असाध्यम्  एव इति वदति । यत् धनेन मोक्षस्य आशा न अस्ति इति। तर्हि एतत् स्फष्टं यत् कर्मणा मोक्षप्राप्ति: कदापि न असम्भति इति  । 

सा होवाच मैत्रेयी । यन्नु म इयं भगो: सर्वा पृथिवी वित्तेन पूर्णा स्यात्कथं तेनामृता स्यामिति नेति होवाच याज्ञवल्क्यो यथैवोपकरणतां जीवितं तथैव ते जीवितं स्यादमृतत्वस्य तु नाशास्ति  वित्तेनेति । इति बृहदारण्यकोपनिषद् वाक्यम् (२.૪.२ )। इदं वाक्यं याज्ञवल्क्य: तस्य पत्नी मैत्रेयी समीपे उक्तवान् । 

तैत्तरीय अारन्यके अपि न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशु: । परेण नाकं निहितं गुहायां विभ्राजदे तद्यतयो विशन्ति । एवम् उक्तम् । अत: मुक्ते: ज्ञानमेव  साधनम्  इति स्फुटम् अस्ति ।


व्याकरणम्
▶ सन्धि:
न + आशा - सवर्णदीर्घसन्धि:

आशा + अस्ति - सवर्णदीर्घसन्धि:

वित्तेन + इति - गुणसन्धि:

इति + एव - यण्सन्धि:

कर्मण: + मुक्ते: - विसर्गउकार:



Shloka No: 8
मूलश्लोक:

अतो विमुक्त्यै प्रयतेत विद्वान् संन्यस्तबाह्यार्थसुखस्पृह: सन् ।
सन्तं महान्तं समुपेत्य देशिकं तेनोपदिष्टार्थसमाहितात्मा ॥८॥

पदविभाग:

अत: विमुक्त्यै प्रयतेत विद्वान् संन्यस्तबाह्यार्थसुखस्पृह: सन् 
सन्तं महान्तं समुपेत्य देशिकं तेन उपदिष्टार्थसमाहितात्मा 

पदार्थ:

अत: - अत:
विमुक्त्यै - मोक्षाय
प्रयतेत - सम्यक् प्रयत्नं करणीयम्
विद्वान् - नित्यानित्यविवेकी
संन्यस्तबाह्यार्थसुखस्पृह: - बाह्यविषयसुखान् त्यक्त:
सन्तं - ब्रह्मनिष्ठम्
महान्तं - महान्तम्
समुपेत्य - यथाविधि उपसद्य
देशिकं - गुरुम्
तेन - गुरुणा
उपदिष्टार्थसमाहितात्मा - उपदिष्टविषये स्थिरचित्त: 

अन्वय:

अत:  विद्वान् संन्यस्तबाह्यार्थसुखस्पृह: सन् सन्तं देशिकं महान्तं समुपेत्य  तेन उपदिष्टार्थसमाहितात्मा विमुक्त्यै प्रयतेत ।

तात्पर्यम्

अस्मिन् श्लोके भगवान् आदिशंकराचार्य: गु्रूपदेशेन ज्ञानं सम्पाद्य मोक्ष: सिध्यति   इति वदति । विद्वान् संन्यस्तबाह्यार्थसुखस्पृह: सन् सन्तं देशिकं महान्तं गुरुं  समुपेत्य  तेन उपदिष्टार्थसमाहितात्मा विमुक्त्यै प्रयतेत । अस्मिन श्लोके विद्वान् इति पदेन नित्यानित्यवस्तुविवेक: संन्यस्तबाह्यार्थसुखस्पृह: इति पदेन विराग: समादिषट्कसंपत्ति: च , विमुक्त्यै प्रयतेत इति पदाभ्यां मुमुक्षुत्वम् च उक्तम् ।
आचार्यावान् पुरुषो वेद | आचार्याद्धैव विद्या विदिता साधिष्ठं प्रापत् तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणि: श्रोत्रियं ब्रह्मनिष्ठम् इत्यादिश्रुतिभ्य: गुरुमहत्वम् उक्तम् ।


व्याकरणम्
▶ सन्धि:
अत: + विमुक्त्यै - विसर्गउकार:

तेन + उपदिष्टार्थसमाहितात्मा - गुणसन्धि:

▶ कृदन्ता:

सम् + उप + ई - गतौ धातु: + ल्यप् = समुपेत्य

Shloka No: 9
मूलश्लोक:

उद्धरेदात्मनात्मानं मग्नं संसारवारिधौ ।
योगारूढत्वमासाद्य सम्यग्दर्शननिष्ठया ॥९॥

पदविभाग:

उद्धरेत् आत्मना आत्मानं मग्नं संसारवारिधौ योगारूढत्वम् आसाद्य सम्यग्दर्शननिष्ठया 

पदार्थ:

उद्धरेत्  - ऊर्ध्वं हरेत्
आत्मना - शास्त्राचार्य उपदेशेन शुद्धबुद्ध्या
आत्मानं - स्वं 
मग्नं - मग्नम् 
संसारवारिधौ - सम्सारसागरे
योगारूढत्वम् - परवैराग्यम्
आसाद्य - प्राप्य
सम्यग्दर्शननिष्ठया -  सम्यग्दर्शननिष्ठया

अन्वय:

संसारवारिधौ मग्नं आत्मानं योगारूढत्वम् आसाद्य सम्यग्दर्शननिष्ठया आत्मना उद्धरेत् ।

तात्पर्यम्

संसारसागरे मग्नं आत्मानं योगारूढत्वम् प्राप्य सम्यग्दर्शननिष्ठया आत्मना उद्धरेत् । अत्र सम्यग्दर्शनम् इति पदेन आत्मज्ञानम् उक्तम् ।  भगवान् श्रीकृष्ण: भगवद्गीतायां उद्धरेदात्मनात्मानं नात्मानमवसादयेत् । आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मन: ॥ ६.૪॥ इति उक्तवान् ।


व्याकरणम्
▶ सन्धि:
उद्धरेत् + आत्मना - जश्त्वसन्धि:

आत्मना+ आत्मानम् -सवर्णदीर्घसन्धि:


Shloka No : 10
मूलश्लोक:

संन्यस्य सर्वकर्माणि भवबन्धविमुक्तये ।
यत्यतां पण्डितैर्धीरै: आत्माभ्यास उपस्थितै: ॥१०॥

पदविभाग:

संन्यस्य सर्वकर्माणि भवबन्धविमुक्तये यत्यतां पण्डितै: धीरै: आत्माभ्यासे उपस्थितै:

पदार्थ:

संन्यस्य - परित्यज्य
सर्वकर्माणि - कर्मकाण्डोक्तानि सर्वाणि कर्माणि
भवबन्धविमुक्तये - संसारिकबन्दनिवृतिहेतुभूतसम्यक्दर्शननिष्ठायै
यत्यतां - यत्न: क्रियताम् 
पण्डितै: - आत्मज्ञानविषयकपरोक्षज्ञानवद्भि:
धीरै: - वशीकृतबुद्धिभि:
आत्माभ्यासे - अनन्यव्यापारतया आत्माभ्यासे 
उपस्थितै: - वर्तमानै:

अन्वय:

आत्माभ्यासे उपस्थितै: धीरै: पण्डितै: भवबन्धविमुक्तये सर्वकर्माणि संन्यस्य   यत्यताम् ।

तात्पर्यम्

अनन्यव्यापारतया आत्माभ्यासे  उपस्थितै: धीरै: पण्डितै: जननमरणचक्रबन्धनात् विमुक्तयर्थं  कर्मकाण्डोक्तानि सर्वाणि कर्माणि परित्यज्य  यत्न: क्रियताम् ।

व्याकरणम्
▶ सन्धि:
पण्डितै: + धीरै: - विसर्गरेफ:

आत्माभ्यासे + उपस्थितै: - यान्तवान्तादेशसन्धि:

नमो नम: श्रीगुरुपादुकाभ्याम् ।

~ शरवण:


Vivekachudamani (Shlokas 91 to 110)

॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥   मूलश्लोक:   बाह्येन्द्रियै: स्थूलपदार्थसेवां स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् । करो...