Wednesday 16 August 2017

Subhashitham 16.08.2017

प्रथमवयसि पीतं तोयमल्पं स्मरन्तः
शिरसि निहितभाराः नारिकेलाः नराणाम् ।
ददति जलमतल्पास्वादमाजीवितान्तं
न हि कृतमुपकारं साधवो विस्मरन्ति ॥


पदविभाग:
प्रथम वयसि पीतं तोयम् अल्पं स्मरन्तःशिरसि निहितभाराः नारिकेलाः नराणाम् ददति जलम् अल्पास्वादम् आजीवितान्तं न हि कृतम् उपकारं साधव: विस्मरन्ति 

अन्वय:

नारिकेला: प्रथमवयसि पीतम् अल्पं तोयं स्मरन्त: शिरसि निहितभारा: अनल्पास्वादम् जलम् आजिवितान्तं ददति | साधव: कृतमुपकारं न हि विस्मरन्ति |

तात्पर्यम्

नारिकेलवृक्ष: स्वस्य आरम्भकाले  स्वल्पमेव तोयं पिबति, परन्तु जीवनपर्यन्तं स्वादुतोयं ददाति। एवमेव सज्जनाः परंकृते उपकारं न विस्मरन्ति परन्तु स्वस्य जीवनपर्यन्तं परोपकारं कुर्वन्ति।

The Coconut trees remember the water given in less quantity in the initial years. They therefore, provide with water which is tasty, not less in quantity for life. So like this a good man do not forget the help received by them.

No comments:

Post a Comment

Vivekachudamani (Shlokas 91 to 110)

॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥   मूलश्लोक:   बाह्येन्द्रियै: स्थूलपदार्थसेवां स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् । करो...