Monday 31 August 2020

Viveka chudamani Shlokas 41 to 50



Wednesday 19 August 2020

Viveka Chudamani Shlokas 31 to 40

॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥

मूलश्लोक:

एतयोर्मन्दता यत्र विरक्तत्वमुमुक्षयो: ।
मरौ सलिलवत्तत्र शमादेर्भानमात्रता ।३१॥

पदविभाग:

एतयो: मन्दता यत्र विरक्तत्वमुमुक्षयो: 
मरौ सलिलवत् तत्र शमादे:  भानमात्रता 

पदार्थ:

एतयो: - विरक्तत्वमुमुक्षयो:
मन्दता - मन्दता
यत्र - यस्मिन्पुरुषे
विरक्तत्वमुमुक्षयो: - विरक्तत्व-मुमुक्षयो:
मरौ - मरुभूमौ
सलिलवत् - जलवत्
तत्र -तस्मिन् पुरुषे
शमादे: - शमादे:  
भानमात्रता - भानमात्रता

अन्वय:

विरक्तत्वमुमुक्षयो: एतयो: मन्दता यत्र (अस्ति) तत्र मरौ सलिलवत्  शमादे:  भानमात्रता (एव)।

तात्पर्यम्

 वैराग्यम् मुमुक्षुत्वम्  एतयो: मन्दता यत्र (अस्ति) तत्र मरुभूमौ जलवत्  शमादे:  भानमात्रता एव अस्ति।

व्याकरणम्
सन्धि:

एतयो: + मन्दता - विसर्गरेफ:

शमादे: + भानमात्रता- विसर्गरेफ:


मूलश्लोक:

मोक्षकारणसामग्रयां भक्तिरेव गरीयसी ।
स्वस्वरूपानुसंधानं भक्तिरित्यभिधीयते ॥३२॥
पदविभाग:

मोक्षकारणसामग्रयां भक्ति: एव गरीयसी स्वस्वरूपानुसंधानं भक्ति: इति अभिधीयते 

पदार्थ:

मोक्षकारणसामग्रयां - मोक्षहेतुत्वसाधनेषु
भक्ति: - भक्ति:
एव - एव
गरीयसी - श्रेष्ठा
स्वस्वरूपानुसंधानं - निदिध्यासनम्
भक्ति: - भक्ति: 
 इति -इति
अभिधीयते - कथ्यते

अन्वय:

मोक्षकारणसामग्रयां भक्ति: एव गरीयसी । स्वस्वरूपानुसंधानं भक्ति: इति अभिधीयते ।

तात्पर्यम्

स्मिन् श्लोके भगवान् श्री आदिशंकराचार्य: भक्ति: पदस्य निर्वचनं वदति मोक्षसाधनसमुदायमध्ये भक्ति: एव गरीयसी । स्वस्वरूपानुसंधानं भक्ति: इति अभिधीयते ।

व्याकरणम्
सन्धि:

भक्ति: + एव - विसर्गरेफ:

भक्ति: + इति - विसर्गरेफ:

इति + अभिधीयते - यण्सन्धि:


मूलश्लोक:

स्वात्मतत्त्वानुसंधानं भक्तिरित्यपरे जगु: ।
उक्तसाधनसम्पन्नस्तत्त्वजिज्ञासुरात्मन: ॥३३॥
उपसीदेद्गुरुं प्राज्ञं यस्माद्बन्धविमोक्षणम् ।

पदविभाग:

स्वात्मतत्त्वानुसंधानं भक्ति: इति अपरे जगु: उक्तसाधनसम्पन्न: तत्त्वजिज्ञासु: आत्मन: उपसीदेत् गुरुं प्राज्ञं यस्मात् बन्धविमोक्षणम् 

पदार्थ:

स्वात्मतत्त्वानुसंधानं - स्वस्य जीवस्य तत्त्वविचार अनुसंधानम्
भक्ति: - भक्ति:
इति - एवम्
अपरे - अन्ये
जगु: - वदन्ति
उक्तसाधनसम्पन्न: - पूर्वोक्त-विचारसाधनयुक्त:
तत्त्वजिज्ञासु: - तत्त्वं ज्ञातुमिच्छु:
आत्मन: - स्वस्य 
उपसीदेत् - शरणं गच्छेत्
गुरुं - सद्गुरुम 
प्राज्ञं - ब्रह्मसाक्षात्कारम् 
यस्मात् - यादृशगुरो: सकाशात्
बन्धविमोक्षणम् - बन्धविमोक्षणम्

अन्वय:

स्वात्मतत्त्वानुसंधानं भक्ति: इति अपरे जगु: । उक्तसाधनसम्पन्न: आत्मन: तत्त्वजिज्ञासु:  यस्मात् बन्धविमोक्षणम् (भवति) प्राज्ञं गुरुं उपसीदेत् ।


तात्पर्यम्

 स्वस्य जीवस्य तत्त्वविचारमेव भक्ति: इति अन्ये आहु: । पूर्वोक्त-विचारसाधनयुक्त: आत्मन: तत्त्वं ज्ञातुमिच्छु:  यादृशगुरो: सकाशात् संसारबन्धविमोक्षणम् भवति तादृशब्रह्मसाक्षात्कारप्राप्तगुरुं शरणं गच्छेत्।

व्याकरणम्
सन्धि:

 भक्ति: + इति - विसर्गरेफ:

इति + अपरे - यण्सन्धि:.

उक्तसाधनसम्पन्न: + तत्त्वजिज्ञासु:- विसर्गसकार:

 तत्त्वजिज्ञासु: + आत्मन: - विसर्गरेफ:

 उपसीदेत् + गुरुं - जश्त्वसन्धि:

 यस्मात् + बन्धविमोक्षणम् - जश्त्वसन्धि:



मूलश्लोक:


श्रोत्रियोsवृजुनोकामहतो यो ब्रह्मचित्तम: ॥३૪ ॥
ब्रह्मण्युपरत: शान्तो निरिन्धन इवानल: ।
अहेतुजदयासिन्धुर्बन्धुरानमतां सताम् ॥३५।

पदविभाग:

श्रोत्रिय: अवृजिन: अकामहत: य: ब्रह्मचित्तम: ब्रह्मणि उपरत: शान्त: निरिन्धन इव अनल: अहेतुकदयासिन्धु: बन्धु: आनमतां सताम् 

पदार्थ:

श्रोत्रिय: - वेदज्ञ:
अवृजिन: - निष्पाप: 
अकामहत: - अभासितस्वस्वरूप:
 य: - य: 
ब्रह्मचित्तम: - ब्रह्मज्ञानिनां श्रेष्ठ: 
ब्रह्मणि - ब्रह्मनिष्ठायाम् 
उपरत: -उपरत: 
शान्त: - शान्तस्वरूप:
निरिन्धन इव अनल: -विलीनमनस्क: अहेतुकदयासिन्धु: - करुणासिन्धु: बन्धु: - दु:खकारक:
आनमतां -  आनमतां
सताम् - सज्जनान्

अन्वय:

य: श्रोत्रिय: अवृजिन: अकामहत: ब्रह्मचित्तम: ब्रह्मणि उपरत:  निरिन्धन इव अनल: शान्त: अहेतुकदयासिन्धु:  आनमतां सताम् बन्धु: (स: एव गुरु:) ।

तात्पर्यम्

 भगवान् श्री आदिशंकराचार्य: अस्मिन् श्लोके गुरुलक्षणम् वदति । य: वेदवेदान्तशास्त्रज्ञ:  पापरहित: कामवर्जित: ब्रह्मज्ञानिनां श्रेष्ठ: ब्रह्मणि उपरत:  निरिन्धन इव अनल: विलीनमनस्क: शान्तस्वरूप: अहेतुककरुणासिन्धु:  आनमतां सताम् बन्धु: भवति स: एव गुरु: ।

व्याकरणम्
सन्धि:

 श्रोत्रिय: + अवृजुन: - विसर्गउकार: पूर्वरूपसन्धि:

अवृजिन: + अकामहतो - विसर्गउकार: पूर्वरूपसन्धि:

य: + ब्रह्मचित्तम: - विसर्गउकार:

ब्रह्मणि + उपरत: - यण्सन्धि:

उपरत: + शान्त: - विसर्गसकार:

शान्त: +  निरिन्धन - विसर्गउकार:

इव + अनल: - सवर्णदीर्घसन्धि:

अहेतुजदयासिन्धु: + बन्धु: - विसर्गरेफ:

बन्धु:+ आनमतां - विसर्गरेफ:



मूलश्लोक:

तमाराध्य गुरुं भक्त्या प्रह्व: प्रश्रयसेवनै: ।
प्रसन्नं तमनुप्राप्य पृच्छेज्ज्ञातव्यमात्मन: ॥ ३६॥

पदविभाग:

तम् आराध्य गुरुं भक्त्या प्रह्व: प्रश्रयसेवनै: प्रसन्नं तम् अनुप्राप्य पृच्छेत् ज्ञातव्यम् आत्मन: 

पदार्थ:

तम् - तम् गुरुम्
आराध्य - संसेव्य
गुरुं - सद्गुरुम्
भक्त्या 
प्रह्व: प्रश्रयसेवनै: - मनसा वचसा कायेन सेवां कृत्वा
प्रसन्नं - स्वाभिमुखम्
तम् - तम्
अनुप्राप्य - समीपे गत्वा
पृच्छेत् - पृच्छेत्
ज्ञातव्यम् - अवगन्तव्यम्
आत्मन: - आत्मन:

अन्वय:

(शिष्य:) तम्  गुरुं भक्त्या प्रह्व: प्रश्रयसेवनै: आराध्य प्रसन्नं तम् अनुप्राप्य आत्मन: 
ज्ञातव्यम् पृच्छेत् ।

तात्पर्यम्

शिष्य:  तम्  सद्गुरुं भक्त्या मनसा वचसा कायेन नमस्कारं कृत्वा  आराध्य प्रसन्नं तम् समीपं गत्वा यत् आत्मन: विषये जिज्ञासितव्यं  तत् पृच्छेत् ।भगवान् श्री कृष्ण: अपि भगवद्गीतायां
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया । इति उक्तवान् । 
 
व्याकरणम्
सन्धि:

 पृच्छेत् + ज्ञातव्यम् - श्चुत्वसन्धि: जश्त्वसन्धि:




मूलश्लोक:

स्वामिन्नमस्ते नतलोकबन्धो कारुण्यसिन्धो पतितं भवाब्धौ।
मामुद्धरात्मीयकटाक्षदृष्ट्या ऋज्व्यातिकारुण्यसुधाभिवृष्ट्या ॥३७॥

पदविभाग:

स्वामिन् नमस्ते नतलोकबन्धो कारुण्यसिन्धो पतितं भवाब्धौ
माम् उद्धर आत्मीयकटाक्षदृष्ट्या ऋज्व्या अतिकारुण्यसुधाभिवृष्ट्या ॥

पदार्थ:

स्वामिन् - हे भगवन्
नमस्ते - ते नमस्कार:
नतलोकबन्धो - नतानां जनानां वन्धु:
कारुण्यसिन्धो - हे अहेरुक दयासिन्धो
पतितं - पतितम्
भवाब्धौ - भवसागरे
माम् - माम् 
उद्धर - जन्मादि बन्धनिर्मुक्तं कुर्वित
आत्मीयकटाक्षदृष्ट्या - तव कटाक्षदृष्ट्या
ऋज्व्या - स्वभावसरलया
अतिकारुण्यसुधाभिवृष्ट्या - अतिकारुण्यसुधाभिवृष्ट्या

अन्वय:

हे स्वामिन् ! हे  नतलोकबन्धो ! हे कारुण्यसिन्धो ! ते (तुभ्यम्) नम: (अस्तु) ।  भवाब्धौ पतितं माम् ऋज्व्या अतिकारुण्यसुधाभिवृष्ट्या आत्मीयकटाक्षदृष्ट्या  उद्धर ।


तात्पर्यम्

अस्मिन् श्लोके भगवान् श्री आदिशंकराचार्य: अचार्य: कथं प्रार्थनीय: इति वदति । शिष्य: गरो: समीपं गत्वा हे स्वामिन् ! हे  नतलोकबन्धो ! हे कारुण्यसिन्धो ! तुभ्यं मम नमस्कार:  अस्तु ।  सम्सारसागरे पतितं माम्  अतिकारुण्यसुधाभिवृष्ट्या सरलतया तव कटाक्षदृष्ट्या  उद्धर ।

व्याकरणम्
सन्धि:

 स्वामिन् + नमस्ते - अनुनासिकासन्धि:

 उद्धर + आत्मीयकटाक्षदृष्ट्या - सवर्णदीर्घसन्धि:

 ऋज्व्या + अतिकारुण्यसुधाभिवृष्ट्या - सवर्णदीर्घसन्धि:  


मूलश्लोक:

दुर्वारसंसारदवाग्नितप्तं दोधूयमानं दुरदृष्टवातै: ।
भीतं प्रपन्नं परिपाहि मृत्यो: शरण्यमन्यंयदहं न जाने ॥ ३८॥

पदविभाग:

दुर्वारसंसारदवाग्नितप्तं दोधूयमानं दुरदृष्टवातै: भीतं प्रपन्नं परिपाहि मृत्यो: शरण्यम् अन्यं यत् अहं न जाने 

पदार्थ:

दुर्वारसंसारदवाग्नितप्तं -दुर्वार-संसारदवाग्निना दग्धम्
 दोधूयमानं - मुहुर्मुहु: कम्प्यमानम्
दुरदृष्टवातै: - दुरदृष्टपवनै:
 भीतं - मृत्यो: भीतम् 
प्रपन्नं - शरणागतम् 
परिपाहि - परिपाहि
मृत्यो: - मरणात्
शरण्यम् - शरण्यम्
अन्यं - इतरस्थलम्
 यत् - यत् 
अहं - अहम् 
न - न
जाने - जानामि

अन्वय:

दुर्वार-संसार-दवाग्नि-तप्तं  दुरदृष्टवातै: दोधूयमानं भीतं प्रपन्नं अन्यं शरण्यम्
यत् अहं न जाने मृत्यो: परिपाहि । 

तात्पर्यम्

शिष्य:  प्रसन्नं गुरुसमीपं गत्वा संसारसागरे निमग्नस्य स्वस्य उद्धरणार्थं प्रार्थितवान् । हे गुरु ! दुर्वार संसार दवाग्निना दग्धमिव अहमस्मि ।दुरदृष्टवातै: मुहुर्मुहु: कम्प्यमानेन भीत्या अनन्यं शरण्यं भवन्तं प्रपन्नं मां कृपया मृत्यो:  परिपाहि ।

व्याकरणम्
सन्धि:

 यत् + अहं - जश्त्वसन्धि:

मूलश्लोक:

शान्ता महान्तो निवसन्ति सन्तो वसन्तवल्लोकहितं चरन्त: ।
तीर्णा: स्वयं भीमभवार्णवं जना नहेतुनान्यानपि तारयन्त: ॥३९॥

पदविभाग:

शान्ता: महान्त: निवसन्ति सन्त: वसन्तवत् लोकहितं चरन्त: 
तीर्णा: स्वयं भीमभवार्णवं जनान् अहेतुना अन्यान् अपि तारयन्त: 

पदार्थ:

शान्ता: -  शान्ता:
महान्त: - निर्विकारमनस्का:
निवसन्ति - लोके वसन्ति
सन्त: - अपरिच्छिन्नब्रह्मसाक्षात्कारवन्त:
वसन्तवत् - वसन्तकाल: इव
लोकहितं -  लोकहितं
चरन्त: - कुर्वाण:
तीर्णा: -  असंसारिण:
स्वयं - स्वयम् 
भीमभवार्णवं - घोरसंसारसागरम्
जनान् - नरान्
अहेतुना - हेतुं विना
अन्यान् - इतरान् 
अपि - अपि
तारयन्त: -तारयन्त:

अन्वय:

शान्ता: महान्त: वसन्तवत् लोकहितं चरन्त: भीमभवार्णवं स्वयं तीर्णा: अन्यान् जनान् अहेतुना तारयन्त: 
सन्त:  निवसन्ति ।
   

तात्पर्यम्

शान्ता: निर्विकारमनस्का: वसन्तवत् लोकहितं चरन्त: घोरसंसारसागरं स्वयं तीर्णा: अन्यान् जनान् अपिअहेतुना तारयन्त:  सन्त:  अत्र निवसन्ति ।

व्याकरणम्
सन्धि:
शान्ता: + महान्त: - विसर्गलोप:

महन्त: + निवसन्ति - विसर्गउकार:

सन्त: + वसन्तवत् - विसर्गउकार:

वसन्तवत् +लोकहितं - परसवर्णसन्धि:

 अहेतुना + अन्यान् - सवर्णदीर्घसन्धि:



मूलश्लोक:

अयं स्वभावस्स्वत एव यत्परश्रमापनिदप्रवणं महात्मानम् ।
सुधांशुरेष स्वयमर्ककर्कशप्रभाभितप्तामवति क्षितिं किल ॥ ૪०॥

पदविभाग:

अयं स्वभाव: स्वत: एव यत्परश्रमापनिदप्रवणं महात्मानम् 
सुधांशु: एष: स्वयम् अर्ककर्कशप्रभाभितप्ताम् अवति क्षितिं किल 

पदार्थ:

अयं - अयम् 
स्वभाव: - स्वभाव: 
स्वत: एव - स्वयमेव
परश्रमापनिदप्रवणं - परान् दु:खं परिहर्तुं प्रयत्न:
 महात्मानम् - सत्पुरुषानाम्
सुधांशु: - चन्द्र:
स्वयम् - स्वयम्
अर्ककर्कशप्रभाभितप्ताम् - सूर्यस्य प्रकाशेन तप्तम् 
अवति - रक्षति 
क्षितिं - भूमिम् 
किल - खलु

अन्वय:

महात्मानम् स्वत: एव  परश्रमापनिदप्रवणं  यत् (अस्ति) अयं स्वभाव: अर्ककर्कशप्रभाभितप्ताम्  क्षितिं  एष:  सुधांशु:  स्वयम्  अवति  किल ?
   
तात्पर्यम्

सत्पुरुषा: स्वयमेव पराजनदु:खान् परिहर्तुं प्रयत्नं कुर्वन्ति ।अयं  तेषां स्वभाव: । सूर्यस्य तीक्ष्णप्रकाशेन तप्तां भूमिं एष: अमृतकिरणचन्द्र: स्वयमेव रक्षति किल ? ।

व्याकरणम्
सन्धि:
स्वभाव: + स्वत: - विसर्गसकार:

स्वत: + एव - विसर्गलोप:

सुधांशु: + एष: -विसर्गरेफ:
 

नमो नम: श्रीगुरुपादुकाभ्याम् ।

~ शरवण:

Vivekachudamani (Shlokas 91 to 110)

॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥   मूलश्लोक:   बाह्येन्द्रियै: स्थूलपदार्थसेवां स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् । करो...