Sunday, 17 January 2021

Vivekachudamani (Shlokas 91 to 110)

॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥

 

मूलश्लोक:

 बाह्येन्द्रियै: स्थूलपदार्थसेवां स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् ।

करोति जीव: स्वयमेतदात्मना तस्मात् प्रशस्तिर्वपुषोस्य जागरे ॥९१॥

 

पदविभाग:

बाह्येन्द्रियै: स्थूलपदार्थसेवां स्रक्चन्दनस्त्र्यादि विचित्ररूपाम् 

करोति जीव: स्वयम् एतत् आत्मना तस्मात् प्रशस्ति: वपुष: अस्य जागरे 

 

पदार्थ:

बाह्येन्द्रियै: - त्वग्घ्राणचक्षुरादिभि: स्थूलपदार्थसेवां -स्थूल-पदार्थ-सेवां

स्रक्चन्दनस्त्र्यादि -  स्रक्-चन्दन-स्त्री- आदि

विचित्ररूपाम् - विचित्ररूपाम्

करोति - करोति

 जीव: - प्रत्यगात्मा

स्वयम् - स्वयम्

आत्मना - आत्मना

 प्रशस्ति: -प्रशस्ति:

 वपुष: - देहाय

जागरे - जाग्रदवस्थायाम्

 

अन्वय:

 

जीव: स्वयम् एतत् आत्मना बाह्येन्द्रियै:  स्रक्चन्दनस्त्र्यादि विचित्ररूपाम् स्थूलपदार्थसेवां करोति ।  तस्मात् अस्य वपुष:  जागरे प्रशस्ति: ।

 

तात्पर्यम्

 

प्रत्यगात्मा स्वयम् एतत् आत्मना  बाह्येन्द्रियै: स्रक्-चन्दन-स्त्र्यादि विचित्ररूपाम् स्थूलपदार्थसेवां करोति ।  तस्मात् अस्य देहस्य जाग्रदवस्थायाम् प्रशस्ति: भवति ।

 

व्याकरणम्

सन्धि:

 

एतत् + आत्मना - जश्त्वसन्धि:

 

प्रशस्ति: + वपुष: - विसर्गरेफ:

 

वपुष: + अस्य - विसर्गउकार: पूर्वरूपसन्धि:

 

मूलश्लोक:

 

सर्वोपि बाह्य:संस्कार: पुरुषस्य यदाश्रय: ।

विद्धि देहमिदं स्थूलं गृहवद्गृहमेधिन: ॥ ९२॥

 

पदविभाग:

सर्व: अपि बाह्य:संस्कार: पुरुषस्य यद् आश्रय: विद्धि देहम् इदं स्थूलं गृहवद्  गृहमेधिन: 

 

पदार्थ:

सर्व: - सर्व: 

बाह्य:संस्कार: -जन्मजरामरनब-स्थौल्यवाल्यादि:

पुरुषस्य - जीवस्य

आश्रय: - आश्रय:

विद्धि - जानीहि

देहम् - शरीरम् 

स्थूलं - स्थूलम्

गृहवद्  - सदनवत्

गृहमेधिन:  - कुटयम्बिन:

 

अन्वय:

 

यद् आश्रय: पुरुषस्य सर्व: अपि जन्मजरामरनब-स्थौल्यवाल्यादि:  इदं स्थूलं देहं  गृहमेधिन: गृहवत् विद्धि। 

 

तात्पर्यम्

 

यद् आश्रय: जीवस्य सर्व: अपि बाह्य:संस्कार:  इदं स्थूलं देहं  गृहमेधिन: गृहवत् जानीहि।

व्याकरणम्

सन्धि:

 

सर्व: + अपि - विसर्गउकार:

 

  यद् + आश्रय: - जश्त्वसन्धि:

 

   गृहवद्  + गृहमेधिन: - जश्त्वसन्धि:

 

 

मूलश्लोक:

 

स्थूलस्य संभवजरामरणानि धर्मा: स्थौल्यादयो बहुविधा: शिशुताद्यवस्था: ।

वर्णाश्रमादिनियमा बहुधामया: स्यु: पूजावमानबहुमानमुखा विशेषा: ॥९३॥

 

पदविभाग:

स्थूलस्य संभवजरामरणानि धर्मा: स्थौल्यादय: बहुविधा: शिशुताद्यवस्था: वर्णाश्रमादिनियमा: बहुधामया: स्यु: पूजा-अवमानबहुमानमुखा: विशेषा: 

 

पदार्थ:

 

स्थूलस्य - स्थूलदेहस्य

संभवजरामरणानि - उत्पत्ति:-वार्धधक्यं-मृति:

धर्मा: - धर्मा: 

स्थौल्यादय: - स्थौल्यादय: 

बहुविधा: - बह्व्य: विधा:

शिशुताद्यवस्था: -शिशुता- आदि -अवस्था

वर्णाश्रमादिनियमा: -वर्णादि-आश्रमादि-नियमा: 

बहुधामया: - ज्वरशिरोवेदनाप्रभृतय:

पूजा-अवमानबहुमानमुखा: -पूजा-अवमान-बहुमान-मुखा: 

विशेषा: -विशेषा:

 

 

अन्वय:

 

स्थूलस्य संभवजरामरणानि बहुविधा: स्थौल्यादय: धर्मा: शिशुताद्यवस्था: वर्णाश्रमादिनियमा: बहुधामया: पूजा-अवमान-बहुमान-मुखा: विशेषा: स्यु: ।

 

तात्पर्यम्

 

स्थूलस्य उत्पत्ति:-वार्धधक्यं-मृति: बहुविधा: स्थौल्यादय: धर्मा: शिशुता-आदि-अवस्था: ब्राह्मणत्व-क्षत्रियत्व-विट्त्व-शूद्रत्वादि वर्णा: ब्रह्मचर्यादि आश्रमनियमा: बहुधामया: पूजा-अवमानबहुमानमुखा: विशेषा: स्यु: ।

 

व्याकरणम्

सन्धि:

 

स्थौल्यादय: + बहुविधा: - विसर्गउकार: 

 

वर्णाश्रमादिनियमा:+ बहुधामया:-

विसर्गलोप:

 

पूजा-अवमानबहुमानमुखा: + विशेषा: - विसर्गलोप: 

 

 

मूलश्लोक:

 

बुद्धीन्द्रियाणि श्रवणं त्वगक्षि घ्राणं च जिह्वा विषयावबोधनात् ।

वाक्पाणिपादा गुदमप्युपस्थं कर्मेन्द्रियाणि प्रवणानि कर्मसु ॥९

 

 

पदविभाग:

 

बुद्धीन्द्रियाणि श्रवणं त्वक् अक्षि  घ्राणं च जिह्वा विषयावबोधनात् 

वाक् पाणि: पादौ गुदम् उपस्थं कर्मेन्द्रियाणि प्रवणानि कर्मसु 

 

पदार्थ:

 

बुद्धीन्द्रियाणि - ज्ञानेन्द्रियाणि

श्रवणं -  श्रवणं

त्वक् - त्वक्

अक्षि - नेत्रम् 

घ्राणं -घ्राणं

 जिह्वा -  जिह्वा

विषयावबोधनात् -  विषय-अवबोधनात्

वाक् - वाक्

 पाणि: - हस्त:

पादौ -  पादौ

गुदम् -गुदम्

 उपस्थं -  उपस्थम्

कर्मेन्द्रियाणि - कर्मेन्द्रियाणि

प्रवणानि - व्यग्राणि

कर्मसु -  कर्मसु

 

 

अन्वय:

 

 श्रवणं त्वक् अक्षि  घ्राणं  जिह्वा च विषयावबोधनात् बुद्धीन्द्रियाणि ( इति उच्यते) । वाक् पाणि: पादौ गुदम् उपस्थम् अपि  कर्मसु प्रवणानि कर्मेन्द्रियाणि ( इति उच्यते) ।

 

तात्पर्यम्

 

अस्मिन् श्लोके भगवान् श्री आदिशङ्कराचार्य: दशेन्द्रियाणां  नामानि वदति । श्रवणं त्वक् अक्षि  घ्राणं  जिह्वा च विषय अवबोधनात् ज्ञानेनद्रियाणि इति उच्यते । वाक् पाणि: पादौ गुदम् उपस्थम् अपि  कर्मसु प्रवणानि कर्मेन्द्रियाणि इति उच्यते ।

 

व्याकरणम्

सन्धि:

 

त्वक्+अक्षि - जश्त्वसन्धि:

 

अपि+उपस्थम् - यण्सन्धि:

 

मूलश्लोक:

 

निगद्यतेsन्त:करणं मनो धीरहं कृतिश्चित्तमिति स्ववृत्तिभि: ।

मनस्तु संकल्पविकल्पनादिभि: बुद्धि: पदार्थाध्यवसायधर्मत: ॥९५॥

अत्राभिमानादहमित्यहंकृति: स्वार्थानुसंधानगुणेन चित्तम् ॥९६॥

 

 

पदविभाग:

 

निगद्यते अन्त:करणं मन: धी: अहंकृति: चित्तम् इति   स्ववृत्तिभि: 

मन: तु संकल्पविकल्पनादिभि: बुद्धि: पदार्थाध्यवसायधर्मत: 

अत्र अभिमानात् अहम् इति अहंकृति: स्वार्थानुसंधानगुणेन चित्तम्  

 

पदार्थ:

 

निगद्यते - कथ्यते

अन्त:करणं -  अन्त:करणम्

मन: - मन: 

धी: - धी:

अहंकृति: - अहङ्कार: 

चित्तम् - चित्तम् 

 स्ववृत्तिभि: - वक्ष्यमाणाभि:

मन: - मन: 

संकल्पविकल्पनादिभि: -

संकल्प-विकल्पनादिभि: 

बुद्धि: - बुद्धि: 

पदार्थाध्यवसायधर्मत: - पदार्थ- निर्णय:-तद्रूपधर्मत:

अभिमानात् - अध्यासात् 

अहंकृति: - अहङ्कार:

स्वार्थानुसंधानगुणेन - स्व-अर्थानुसंधानगुणेन

चित्तम्  - चित्तम्

 

 

अन्वय:

 

अन्त:करणं स्ववृत्तिभि: मन: धी: अहंकृति: चित्तम् इति   निगद्यते

मन: तु संकल्पविकल्पनादिभि: (मन: इत्युच्यते) ।  पदार्थाध्यवसायधर्मत: बुद्धि: ( इत्युच्यते) । अत्र अहम् इति अभिमानात्  अहंकृति: ( इत्युच्यते) स्वार्थानुसंधानगुणेन चित्तम् ( इत्युच्यते) ।

 

तात्पर्यम्

 

अस्मिन् श्लोके भगवान् श्री आदिशङ्कराचार्य: अन्त:करणम् इति शब्दस्य  विवरणं ददाति । अन्त:करणं स्ववृत्तिभि: मन: धी: अहंकृति: चित्तम् इति  चतुर्धा निगद्यते ।संकल्पविकल्पनादिभि: मन: इत्युच्यते ।  पदार्थ-अध्यवसायधर्मत: बुद्धि:  इत्युच्यते। अत्र अहम् इति अभिमानात्  अहंकृति: ( अहंकार:) इत्युच्यते । स्व-अर्थ-अनुसंधानगुणेन चित्तम् इत्युच्यते ।

 

 

व्याकरणम्

सन्धि:

 

निगद्यते + अन्त:करणं - पूर्वरूपसन्धि:

 

मन: + धी: - विसर्गउकार:

 

धी:+ अहंकृति: - विसर्गरेफ: 

 

मन: + तु - विसर्गसकार:

 

अत्र + अभिमानात् - सवर्णदीर्घसन्धि:

 

अभिमानात् + अहम् - जश्त्बसन्धि:

 

मूलश्लोक:

 

प्राणापानव्यानोदानसमाना भवत्यसौ प्राण: ।

स्वयमेव वृत्तिभेदात् विकृतेर्भेदात्सुवर्णसलिलमिव ॥९७॥

 

 

पदविभाग:

 

प्राणापानव्यानोदानसमाना: भवति असौ प्राण: स्वयम् एव वृत्तिभेदात् विकृते:  भेदात् सुवर्णसलिलम् इव

 

पदार्थ:

प्राणापानव्यानोदानसमाना: -

प्राण-अपान-व्यान-उदान-समाना:

प्राण: - प्राण: 

स्वयम् -स्वयम् 

वृत्तिभेदात् - प्राण-अपान-व्यान-उदान-समाना इति भेदात्

विकृते:भेदात् - विकृते:भेदात्॥

सुवर्णसलिलम् -  सुवर्णसहितसलिलम्

 

अन्वय:

 

प्राणापानव्यानोदानसमाना:  असौ प्राण: स्वयम् एव वृत्तिभेदात् विकृते:  भेदात् सुवर्णसलिलम् इव भवति ।

 

तात्पर्यम्

 

अस्मिन् श्लोके भगवान् श्री आदिशङ्कराचार्य: पञ्चप्राणा: विषये  विवरणं ददाति । प्राण-अपान-व्यान-उदान-समाना:  असौ प्राण: स्वयम् एव वृत्तिभेदात् विकृते:  भेदात् सुवर्णसहितसलिलम् इव भवति ।

 

 

व्याकरणम्

सन्धि:

 

प्राणापानव्यानोदानसमाना: + भवति - विसर्गलोप: 

 

भवति + असौ - यण्सन्धि:

 

 विकृते: +  भेदात् - विसर्गरेफ:

 

 

मूलश्लोक:

 

वागादिपंच श्रवणादिपंच प्राणादिपंचाभ्रमुखाणि पंच ।

बुद्ध्याद्यविद्यापि च कामकर्मणी पुर्यष्टकं सूक्ष्मशरीरमाहु: ॥९८॥

 

पदविभाग:

 

वागादिपंच श्रवणादिपंच प्राणादिपंच अभ्रमुखाणि पंच बुद्ध्यादि अविद्या अपि च कामकर्मणी पुर्यष्टकं सूक्ष्मशरीरम् आहु: 

 

पदार्थ:

वागादिपंच - पंचकर्मेण्द्रियाणि

श्रवणादिपंच - पंचज्ञानेन्द्रियाणि

प्राणादिपंच - प्राणपञ्चकम् अभ्रमुखाणि पंच - आकाशादु भूतपंचकम्

बुद्ध्यादि - अन्त:करणचतुष्टयम्

अविद्या - अध्यास:  

कामकर्मणी - इच्छा, धर्माधर्माख्यम्

पुर्यष्टकं - पदार्थाष्टकम्

सूक्ष्मशरीरम् -  सूक्ष्मशरीरम्

आहु: - वदन्ति

 

अन्वय:

 

वागादिपंच श्रवणादिपंच प्राणादिपंच अभ्रमुखाणि पंच बुद्ध्यादि अविद्या अपि च कामकर्मणी पुर्यष्टकं सूक्ष्मशरीरम् आहु: 

 

तात्पर्यम्

 

अस्मिन् श्लोके भगवान् श्री आदिशङ्कराचार्य: सूक्ष्मशरीरविषये  विवरणं ददाति । पंचकर्मेण्द्रियाणि

पंचज्ञानेन्द्रियाणि प्राणपञ्चकम् आकाशादि भूतपंचकम् अन्त:करणचतुष्टयम् इच्छा, धर्माधर्माख्यम् पदार्थाष्टकम् सूक्ष्मशरीरम् इति वेदान्तिन: वदन्ति ।

 

व्याकरणम

सन्धि:

 

प्राणादिपंच + अभ्रमुखाणि - सवर्णदीर्घसन्धि: 

 

बुद्ध्यादि + अविद्या - यण्सन्धि:

 

अविद्या + अपि -सवर्णदीर्घसन्धि: 

 

मूलश्लोक:

 

इदं शरीरं श्रुणु सूक्ष्मसंज्ञितं लिङ्गं त्वपञ्चीकृतभूतसम्भवम् ।

सवासनं कर्मफलानुभावकं ॥स्वाज्ञानतोsनादिरुपाधिरात्मन: ॥९९॥

 

पदविभाग:

 

इदं शरीरं श्रुणु सूक्ष्मसंज्ञितं लिङ्गं तु अपञ्चीकृतभूतसम्भवम्

सवासनं कर्मफलानुभावकं स्वाज्ञानत: अनादि: उपाधि: आत्मन: 

 

पदार्थ:

 

शरीरं - देह: 

श्रुणु -  श्रुणु

सूक्ष्मसंज्ञितम् सूक्ष्मं इति संज्ञा 

लिङ्गं - चिह्नम्

अपञ्चीकृतभूतसम्भवम् -

 अपञ्चीकृत-भूतसम्भवम्

सवासनं - वासनसहितम्

कर्मफलानुभावकम् -

पूर्वजन्मकर्मफल-अनुभावकं

स्वाज्ञानत: - स्व-अज्ञानानात् 

अनादि: - आदिरहित: 

उपाधि: - उपाधि: 

आत्मन: - आत्मन:

 

 

अन्वय:

 

श्रुणु !  सूक्ष्मसंज्ञितं  अपञ्चीकृतभूतसम्भवम् इदं शरीरं तु लिङ्गं (अस्ति) ।

सवासनं , कर्मफलानुभावकं (च) । आत्मन:  स्वाज्ञानत: अनादि: उपाधि:  ( च) ।

 

 

तात्पर्यम्

 

अस्मिन् श्लोके भगवान् श्री आदिशङ्कराचार्य: सूक्ष्मशरीरविषये  विवरणं ददाति । श्रुणु !  सूक्ष्ममिति कथितं अपञ्चीकृत-सूक्ष्मभूतै: सम्भवम् तु इदं लिङ्गशरीरम् अस्ति। इदं लिङ्गशरीरं वासनासहितं पूर्वजन्मकर्मफल-अनुभावकं च अस्ति। आत्मन:  स्व-अज्ञानकारणेन अनादि: उपाधि:  भवति ।

व्याकरणम्

सन्धि:

 तु  +अपञ्चीकृतभूतसम्भवम् - यण्सन्धि: 

 

 स्वाज्ञानत: + अनादि: - विसर्गउकार: पूर्वरूपसन्धि:

 

अनादि: + उपाधि: - विसर्गरेफ:

 

उपाधि: + आत्मन: - विसर्गरेफ:

 

 

मूलश्लोक:

 

स्वप्नो भवत्यस्य विभक्त्यवस्था स्वमात्रशेषेण विभाति यत्र ।

स्वप्ने तु बुद्धि: स्वयमेव जाग्र-त्कालीन-नानाविधवासनाभि: ॥

कर्त्रादिभावं प्रतिपद्य राजते यत्र स्वयंज्योतिरयं परात्मा ।100

 

पदविभाग:

 

स्वप्न: भवति अस्य विभक्त्यवस्था स्वमात्रशेषेण विभाति यत्र 

स्वप्ने तु बुद्धि: स्वयम् एव जाग्रत्-कालीन-नानाविधवासनाभि: 

कर्त्रादिभावं प्रतिपद्य राजते यत्र स्वयंज्योति: अयं परात्मा 

 

पदार्थ:

 

स्वप्न: - स्वप्न:

भवति - अस्ति

अस्य - सूक्ष्मशरिरस्य

विभक्त्यवस्था - भेदकावस्था स्वमात्रशेषेण -स्वमात्रस्य शेषेण

 विभाति - प्रकाशते 

स्वप्ने -  स्वप्ने

बुद्धि: - अन्त:करणम्

स्वयम् - स्वयम् जाग्रत्-कालीन-नानाविधवासनाभि: - जाग्रदवस्थायां जातै: बहुविधै: संस्कारै:

कर्त्रादिभावं - क्रियाकरणभावम्

 प्रतिपद्य - प्राप्य

राजते - प्रकाशते 

स्वयंज्योति: - स्वयंज्योति:

परात्मा - पर-आत्मा

 

अन्वय:

 

यत्र स्वमात्रस्य शेषेण विभाति अस्य विभक्त्यवस्था स्वप्न: भवति । स्वप्ने तु बुद्धि:  जाग्रत्-कालीन-नानाविधवासनाभि: स्वयम् एव कर्त्रादिभावं प्रतिपद्य राजते । यत्र अयं परात्मा स्वयंज्योति: (भवति) ।

 

 

तात्पर्यम्

 

यत्र स्वमात्रशेषेण विभाति अस्य सूक्ष्मशरिरस्य विभक्त्यवस्था स्वप्न: भवति । स्वप्ने तु अन्त:करणं जाग्रदवस्थायां जातै: बहुविधै: संस्कारै: स्वयम् एव क्रियाकरणभावं प्राप्य राजते  यत्र अयं परात्मा स्वयंज्योति: (भवति) ।

 

व्याकरणम्

सन्धि:

 स्वप्न: + भवति - विसर्गउकार:

 

भवति + अस्य - यण्सन्धि:

 

स्वयंज्योति:+ अयं - विसर्गरेफ: 

 

मूलश्लोक:

 

धीमात्रकोपाधि-रशेषसाक्षी न लिप्यते तत्कृतकर्मलेपै: ।

यस्मादसंगस्तत एव कर्मभि: न लिप्यते किंचिदुपाधिना कृतै: ॥१०१॥

 

पदविभाग:

 

धीमात्रकोपाधि: अशेषसाक्षी न लिप्यते तत्कृत- कर्मलेपै: यस्माद् असंग: तत एव कर्मभि: न लिप्यते किंचित् उपाधिना कृतै: 

 

पदार्थ:

 

धीमात्रकोपाधि: - धीमात्रकम् उपाधि:

अशेषसाक्षी- सर्वसाक्षी 

लिप्यते - सम्बन्ध: भवति 

तत्कृत- कर्मलेपै: - तत्कृत- कर्मलेपै: 

 असंग: -असङ्ग:

कर्मभि: - कर्मभि: 

लिप्यते - लिप्यते 

उपाधिना - उपाधिना

कृतै: - कृतै: 

 

अन्वय:

 

धीमात्रकोपाधि: अशेषसाक्षी (सन्)  तत्कृत- कर्मलेपै: न लिप्यते । यस्मात् असंग: तत: एव उपाधिना कृतै: कर्मभि:  किंचित् न लिप्यते ।

 

 

तात्पर्यम्

 

यत्र अयं आत्मा स्वयंज्योति: (भवति) धीमात्रकोपाधि: अशेषसाक्षी सन् तत्कृत- कर्मलेपै: न लिप्यते । यस्मात् असंग: तत: एव उपाधिना कृतै: कर्मभि:  किंचित् न लिप्यते ।

 

व्याकरणम्

सन्धि:

धीमात्रकोपाधि: + अशेषसाक्षी - विसर्गरेफ: 

यस्मात् + असंग: - जश्त्वसन्धि:

 

असंग: + तत: - विसर्गसकार:

 

तत: + एव - विसर्गलोप:

 

 किंचित् +  उपाधिना - जश्त्वसन्धि: 

 

 

मूलश्लोक:

 

सर्वव्यापृतिकरणं लिङ्गमिदं स्याच्चिदात्मन: पुंस: ।

वास्यादिकमिव तक्ष्ण: तेनैवात्मा भवत्यसङ्गोयम् ॥१०२॥

 

पदविभाग:

 

सर्वव्यापृतिकरणं लिङ्गम् इदं स्यात् चिदात्मन: पुंस: वास्यादिकम् इव तक्ष्ण: तेन एव आत्मा भवति असङ्ग: अयम्

 

पदार्थ:

 

सर्वव्यापृतिकरणं - सकलव्यापारासाधारणकारणम्

लिङ्गम् - लिङ्गशरीरम् 

स्यात् - भवेत्

चिदात्मन: - ज्ञानस्वरूपस्य 

पुंस: - पुरुषस्यात्मन:

वास्यादिकम् - वास्यादिकम् 

तक्ष्ण: - त्वष्टु: 

आत्मा - आत्मा

भवति - भवति

असङ्ग: - सङ्गहीन:

 

अन्वय:

 

इदं लिङ्गम् चिदात्मन: पुंस: सर्वव्यापृतिकरणं स्यात् ।तक्ष्ण: वास्यादिकम् इव तेन एव अयम् आत्मा  असंग: भवति ।

 

तात्पर्यम्

 

इदं लिङ्गशरीरं  चिदात्मन: पुंस: सकलव्यापारासाधारणकारणं स्यात् ।तक्ष्ण: वास्यादिकम् इव तेन एव अयम् आत्मा  असंग: भवति ।

 

व्याकरणम्

सन्धि:

 स्यात् + चिदात्मन: - श्चुत्वसन्धि:

 

 तेन + एव - वृद्धिसन्धि:

 

एव + आत्मा - सवर्णदीर्घसन्धि:

 

भवति +  असंग: - यण्सन्धि:

 

असङ्ग: + अयम् - विसर्गउकार:

 

मूलश्लोक:

 

अन्धत्वमन्दत्वपटुत्वधर्मा: सौगुण्यवैगुण्यवशाद्धि चक्षुष: ।

बाधिर्य-मूकात्व- मुखास्तथैव श्रोत्रादिधर्मा न तु वेत्तुरात्मन: ॥१०३॥

 

पदविभाग:

 

अन्धत्वमन्दत्वपटुत्वधर्मा: सौगुण्यवैगुण्यवशात् हि चक्षुष: 

बाधिर्य-मूकात्व- मुखा: तथा एव श्रोत्रादिधर्मा: न तु वेत्तु: आत्मन: 

 

पदार्थ:

 

अन्धत्वमन्दत्वपटुत्वधर्मा: -अन्धत्व-मन्दत्व-पटुत्व-धर्मा:

 सौगुण्यवैगुण्यवशात् - सौगुण्य-वैगुण्य-वशात्

चक्षुष: - नेत्रस्य

बाधिर्य-मूकात्व- मुखा: - बाधिर्य-मूकात्व- मुखा:

श्रोत्रादिधर्मा: - श्रोत्रादिधर्मा: 

वेत्तु: - वेत्तु: 

आत्मन: - आत्मन: 

 

अन्वय:

 

अन्धत्वमन्दत्वपटुत्वधर्मा: चक्षुष:  सौगुण्यवैगुण्यवशात् हि ( प्रसिद्ध:) । तथा एव बाधिर्य-मूकात्व- मुखा: श्रोत्रादिधर्मा:  वेत्तु: आत्मन: तु न ( धर्माभवन्ति) ।

 

 

तात्पर्यम्

 

अन्धत्व-मन्दत्व-पटुत्व-धर्मा: चक्षुष:  सौगुण्य-वैगुण्य-वशात् हि

( प्रसिद्ध:) । तथा एव बाधिर्य-मूकात्व- मुखा: श्रोत्रादिधर्मा:  वेत्तु: आत्मन: तु न ( धर्माभवन्ति) ।

 

 

व्याकरणम्

सन्धि:

 सौगुण्यवैगुण्यवशाद् + हि - पूर्वसवर्णसन्धि:

 

बाधिर्य-मूकात्व- मुखा: + तथा - विसर्गसकार:

 

तथा +  एव - वृद्धिसन्धि:

 

श्रोत्रादिधर्मा: + न - विसर्गलोप:

 

 वेत्तु: + आत्मन: - विसर्गरेफ:

 

 

मूलश्लोक:

 

उच्छ्वास-निश्वास-विजृंभण-क्षुत् प्रस्पन्दनाद्युत्क्रमणादिका: क्रिया: ।

प्राणादिकर्माणि वदन्ति तज्ज्ञा: प्राणस्य धर्मावशनापिपासे ॥ १०

 

पदविभाग:

 

उच्छ्वास-निश्वास-विजृंभण-क्षुत् प्रस्पन्दनादि उत्क्रमणादिका: क्रिया: 

प्राणादिकर्माणि वदन्ति तज्ज्ञा: प्राणस्य धर्मौ अशनापिपासे 

 पदार्थ:

 

उच्छ्वास-निश्वास-विजृंभण-क्षुत् प्रस्पन्दनादि - उच्छ्वास-निश्वास-विजृंभण-क्षुत् प्रस्पन्दनादि 

उत्क्रमणादिका: - उत्क्रमणादिका:

क्रिया: - कार्याणि

प्राणादि-कर्माणि - प्राणादि-कर्माणि

वदन्ति - कथयन्ति

तज्ज्ञा: - तज्ज्ञा:

प्राणस्य - प्राणस्य

धर्मौ - धर्मौ

अशनापिपासे - क्षुत् पिपासे

 

अन्वय:

 

उच्छ्वास-निश्वास-विजृंभण-क्षुत् प्रस्पन्दनादि उत्क्रमणादिका: क्रिया: 

प्राणादि-कर्माणि  तज्ज्ञा: वदन्ति ।अशनापिपासे प्राणस्य धर्मौ ( एव)

 

 

तात्पर्यम्

 

अस्मिन् श्लोके भगवान् श्रीआदिसङ्कराचार्य: क्षुत्, प‍िपासा च प्राणस्यकर्माणि एव इति निरूपयति ।

उच्छ्वास-निश्वास-विजृंभण-क्षुत् प्रस्पन्दनादि उत्क्रमणादिका: क्रिया: 

प्राणादि-कर्माणि  तज्ज्ञा: वदन्ति ।अशनापिपासे प्राणस्य धर्मौ (एव)

 

 

व्याकरणम्

सन्धि:

 उच्छ्वास-निश्वास-विजृंभण-क्षुत् प्रस्पन्दनादि + उत्क्रमणादिका: - यण्सन्धि:

 

 धर्मौ + अशनापिपासे - यान्तवान्तादेशसन्धि:

 

 

मूलश्लोक:

 

अन्त:करणमेतेषु चक्षुरादिषु वर्ष्मणि ।

अहमित्यभिमानेन तिष्ठत्याभासतेजसा ॥ १०५॥

 

पदविभाग:

 

अन्त:करणम् एतेषु चक्षुरादिषु वर्ष्मणि 

अहम् इति अभिमानेन तिष्ठति आभासतेजसा 

 

 

पदार्थ:

 

अन्त:करणम्  - मन:

चक्षुरादिषु - ज्ञानेन्द्रियेषु

वर्ष्मणि - स्थूलशरीरे 

अहम् - अहम् 

अभिमानेन - अज्ञानप्रयोज्येन

तिष्ठति -  तिष्ठति

आभासतेजसा - चित्प्रतिफलन-प्रयोज्य-तेजसा

 

अन्वय:

 

एतेषु चक्षुरादिषु वर्ष्मणि अन्त:करणम्

आभासतेजसा अहम् इति अभिमानेन तिष्ठति  

 

 

तात्पर्यम्

 

एतेषु ज्ञानेन्द्रियेषु स्थूलशरीरे अन्त:करणम् आभासतेजसा अज्ञानप्रयोज्येन तादात्म्यभिमानेन  तिष्ठति ।

 

 

व्याकरणम्

सन्धि:

 इति + अभिमानेन - यण्सन्धि:

 

तिष्ठति + आभासतेजसा - यण्सन्धि:

 

 

 

मूलश्लोक:

 

अहंकार: स‍ विज्ञेय: कर्ता भोक्त‍ाभिमान्ययम् ।

सत्वादिगुणयोगेनावस्थात्रितयमश्नुते ॥१०६॥

 

पदविभाग:

 

अहंकार: स‍: विज्ञेय: कर्ता भोक्त‍ाभिमानि अयम् सत्वादिगुणयोगेन अवस्थात्रितयम् अश्नुते 

 

 

पदार्थ:

 

अहंकार: - अहमिति अभिमानम्

स‍: - स:

विज्ञेय: - ज्ञेय:

कर्ता - कर्ता

भोक्त‍ा - भोक्त‍ा

अभिमानी - अभिमानी

सत्वादिगुणयोगेन - सत्वरजतमोगुण-सम्बन्धेन

अवस्थात्रितयम् - अवस्थात्रयम्

अश्नुते - प्राप्नोति

 

अन्वय:

 

स: अहंकार: विज्ञेय: । अयं कर्ता भोक्त‍ा अभिमानी सत्वादिगुणयोगेन अवस्थात्रितयम् अश्नुते ।

 

 

तात्पर्यम्

 

चित्प्रतिबिम्ब-विशिष्टमन्त:करणमेव अहमित्यभिमानेन वर्तमानम् अहङ्कार: इति विज्ञेय: । अयं कर्ता भोक्त‍ा अभिमानी सत्वरजतमोगुण-सम्बन्धेन अवस्थात्रयम् प्राप्नोति ।

 

 

व्याकरणम्

सन्धि:

 

स‍: + विज्ञेय: - विसर्गलोप:

 

 भोक्त‍ा + अभिमानि - सवर्णदीर्घसन्धि:

 

अभिमानी + अयम् - यणसन्धि:

 

सत्वादिगुणयोगेन +अवस्थात्रितयम् -

सवर्णदीर्घसन्धि:

 

 

मूलश्लोक:

 

विषयाणामानुकूल्ये सुखी दु:खी विपर्यये ।

सुखं दु:खं च तद्धर्म: सदानन्दस्य नात्मन: ॥१०७॥

 

पदविभाग:

 

विषयाणाम् आनुकूल्ये सुखी दु:खी विपर्यये सुखं दु:खं च तत् धर्म: सदानन्दस्य न आत्मन:

 

 

पदार्थ:

 

विषयाणाम् - शब्दादीनाम्

आनुकूल्ये - स्वकीय-इच्छानुसारेण

सुखी - सुखी

दु:खी - दु:खी 

विपर्यये - प्रातिकूलये 

सुखं - सुखम्

दु:खं - दु:खम् 

तद्धर्म: - तत् - धर्म:

सदानन्दस्य -  सदानन्दस्य

आत्मन: - आत्मन:

 

अन्वय:

 

विषयाणाम्  आनुकूल्ये सुखी  विपर्यये दु:खी । (अत:) सुखं दु:खं च तत्-धर्म: सदानन्दस्य आत्मन: (धर्म:) न ।

 

 

तात्पर्यम्

शब्दानाम्  आनुकूल्ये सुखी  विपर्यये दु:खी । अत: सुखं दु:खं च तत्-धर्म: सदानन्दस्य आत्मन: धर्म: नास्ति 

 

 

मूलश्लोक:

आत्मार्थत्वेन हि प्रेयान् विषयो न स्वत: प्रिय: ।

स्वत एव हि सर्वेषां आत्मा प्रियतमो यत: ॥ १०८॥

 

पदविभाग:

 

आत्मार्थत्वेन हि प्रेयान् विषय: न स्वत: प्रिय: स्वत: एव हि सर्वेषां आत्मा प्रियतम: यत: 

 

 

पदार्थ:

 

आत्मार्थत्वेन - आत्म-प्रयोजनेन   प्रेयान् - प्रेमविषय:

विषय: - शब्दादिविषय:

स्वत: - स्वत:  

प्रिय: -प्रिय: 

सर्वेषां - सकलप्राणिनाम्

आत्मा - आत्मा 

प्रियतम: - प्रियतम:

 

 

अन्वय:

 

विषय: आत्मार्थत्वेन हि प्रेयान् स्वत: न प्रिय: । यत: सर्वेषां  आत्मा एव स्वत:  प्रियतम:  हि ।

 

 

तात्पर्यम्

 

शब्दादिविषय: आत्म-प्रयोजनेन हि प्रेयान् स्वत: न प्रिय: । य‍त: सर्वेषां प्राणिनाम् आत्मा एव स्वत: प्रियतम:  हि ।

 

व्याकरणम्

सन्धि:

विषय: + न - विसर्गउकार:

 

स्वत: + एव - विसर्गलोप:

 

प्रियतम: + मत: - विसर्गउकार:

 

मूलश्लोक:

 

तत आत्मा सदानन्दो नास्य दु:खं कदाचन ।

यत्सुषुप्तौ निर्विषय आत्मानन्दोनुभूयते ।

श्रुति: प्रत्यक्षमैतिह्यं अनुमानं च जाग्रति ॥१०९॥

 

पदविभाग:

 

तत: आत्मा सदानन्द: न अस्य दु:खं कदाचन यत् सुषुप्तौ निर्विषय आत्मानन्द: अनुभूयते श्रुति: प्रत्यक्षम् ऐतिह्यं अनुमानं च जाग्रति 

 

 

पदार्थ:

 

आत्मा -  आत्मा 

सदानन्द: - सर्वदा आनन्दस्वरूप:  दु:खं - दु:खम्

सुषुप्तौ - सुषुप्तौ अवस्थ‌ायाम्

निर्विषय: - विषयरहित: 

आत्मानन्द: - स्वरूपानन्द:

अनुभूयते -अनुभूयते

श्रुति: -वेद: 

प्रत्यक्षम् -  सर्वजनसिद्धम् 

ऐतिह्यं - अभियुक्तानां वचनम्

अनुमानं - अनुमानम् 

जाग्रति - प्रमाणानि

 

अन्वय:

 

तत: आत्मा सदानन्द: । अस्य  कदाचन न दु:खं (अस्ति) ।

सुषुप्तौ निर्विषय: आत्मानन्द: अनुभूयते । श्रुति: प्रत्यक्षम् ऐतिह्यं अनुमानं च जाग्रति ।

 

 

तात्पर्यम्

 

 य‍त: सर्वेषां प्राणिनाम् आत्मा एव स्वत: प्रियतम:  हि तत: आत्मा सदानन्द: । अस्य  कदाचन  दु:खं नास्ति । सुषुप्तौ निर्विषय: आत्मानन्द: अनुभूयते । श्रुति: प्रत्यक्षम् ऐतिह्यं अनुमानं च प्रमाणानि ।

 

व्याकरणम्

सन्धि:

 

तत: + आत्मा - विसर्गलोप:

 

सदानन्द: + न - विसर्गउकार:

 

न + अस्य - सवर्णदीर्घसन्धि:

 

निर्विषय + आत्मानन्द:  - विसर्गलोप:

 

आत्मानन्द: + अनुभूयते - विसर्गउकार:

 

 

मूलश्लोक:

अव्यक्तनाम्नी परमेशशक्ति: अनाद्यविद्या त्रिगुणात्मिका परा ।
कार्यानुमेया सुधियैव माया यया जगत्सर्वमिदं प्रसूयते ॥ ११०॥

पदविभाग:

अव्यक्तनाम्नी परमेशशक्ति: अनाद्यविद्या त्रिगुणात्मिका परा
कार्यानुमेया सुधिया एव माया यया जगत् सर्वम् इदं प्रसूयते

पदार्थ:

अव्यक्तनाम्नी - अव्यक्तम् इति नाम यस्य‍ा: सा
परमेशशक्ति: - परमेश्वरस्य शक्ति:
अनाद्यविद्या - आदिरहित: त्रिगुणात्मिका - सत्त्वरजस्तमांसि गुणसम्युक्त‍ा
परा - उत्कृष्टा
कार्यानुमेया - स्वकार्येभ्य: अनुमेया
सुधिया - शुद्धबुद्ध्या
माया - माया 
जगत् - जगत्
सर्वम् - सकलम्
प्रसूयते - प्रसूयते

अन्वय:
इदं जगत् सर्वं यया प्रसूयते (सा) माया अव्यक्तनाम्नी परमेशशक्ति: अनादि-अविद्या त्रिगुणात्मिका परा सुधिया एव  कार्यानुमेया । 

तात्पर्यम्

भगवान् श्रीआदिशङ्कराचार्य: अस्मिन् श्लोकमारभ्य माया शब्दस्य निर्वचनम् वदति । इदं  जगत् सर्वं यया प्रसूयते  सा माया । सा अव्यक्तनाम्नी परमेश्वरस्य शक्ति: अनादि-अविद्या सत्त्वरजस्तमांसि गुणसम्युक्त‍ा परा च अस्ति । सा सुधिया एव  कार्यानुमेया भवति । 

व्याकरणम्
सन्धि:

सुधिया + एव - वृद्धिसन्धि:

नमो नम: श्रीगुरुपादुकाभ्याम् ।

~ शरवण:

09842690555

17.01.2021

  

1 comment:

  1. excelent archives kept easily accessible.
    Kudos to the team.
    P. Swaminathan,Ph.D.

    ReplyDelete

Vivekachudamani (Shlokas 91 to 110)

॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥   मूलश्लोक:   बाह्येन्द्रियै: स्थूलपदार्थसेवां स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् । करो...