Thursday 24 August 2017

Subhashitham 24.08.2017

विद्या विवादाय धनं मदाय शक्तिः परेषां परपीडनाय ।
खलस्यः साधोः विपरीतमेतद् ज्ञानाय दानाय च रक्षणाय॥

पदविभाग:

विद्या विवादाय धनं मदाय शक्तिः परेषां परपीडनाय खलस्यः साधोः विपरीतम् एतद् ज्ञानाय दानाय च रक्षणाय

प्रतिपदार्थ:

विद्या = ज्ञानम्
विवादाय = वादाय
धनं = अर्थः 
मदाय = अहंकारम्
शक्तिः = विक्रम:
परेषाम् = अन्येषाम्
परपीडनाय = कष्टम्
 खलस्य= दुर्जनस्य
साधो: = सज्जनस्य
विपरीतम् = विपर्यय:
एतत् = एतत्
ज्ञानाय = ज्ञानाय
दानाय = दानाय
रक्षणाय = अारक्षायेै


अन्वय:
खलस्य विद्या विवादाय धनं मदाय शक्तिः परेषां परपीडनाय। एतद्  विपरीतं  साधोः ( विद्या) ज्ञानाय (धनं) दानाया, (शक्तिः) रक्षणाय च

तात्पर्यम्
दुर्जनः तस्य विद्यां विवादाय उपयोगं करोति। तस्य धनेन तस्य अहंकारः वर्धते। तस्य शक्तिं परपीडनाय उपयोगं करोति। परन्तु सज्जनः तस्य विद्यां ज्ञानाय,धनं दानाय,शक्तिं पररक्षणाय उपयोगं करोति।

सन्धि:

एतत् सुभाषिते सन्धि: नास्ति |

No comments:

Post a Comment

Vivekachudamani (Shlokas 91 to 110)

॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥   मूलश्लोक:   बाह्येन्द्रियै: स्थूलपदार्थसेवां स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् । करो...