Thursday, 24 August 2017

Subhashitham 24.08.2017

विद्या विवादाय धनं मदाय शक्तिः परेषां परपीडनाय ।
खलस्यः साधोः विपरीतमेतद् ज्ञानाय दानाय च रक्षणाय॥

पदविभाग:

विद्या विवादाय धनं मदाय शक्तिः परेषां परपीडनाय खलस्यः साधोः विपरीतम् एतद् ज्ञानाय दानाय च रक्षणाय

प्रतिपदार्थ:

विद्या = ज्ञानम्
विवादाय = वादाय
धनं = अर्थः 
मदाय = अहंकारम्
शक्तिः = विक्रम:
परेषाम् = अन्येषाम्
परपीडनाय = कष्टम्
 खलस्य= दुर्जनस्य
साधो: = सज्जनस्य
विपरीतम् = विपर्यय:
एतत् = एतत्
ज्ञानाय = ज्ञानाय
दानाय = दानाय
रक्षणाय = अारक्षायेै


अन्वय:
खलस्य विद्या विवादाय धनं मदाय शक्तिः परेषां परपीडनाय। एतद्  विपरीतं  साधोः ( विद्या) ज्ञानाय (धनं) दानाया, (शक्तिः) रक्षणाय च

तात्पर्यम्
दुर्जनः तस्य विद्यां विवादाय उपयोगं करोति। तस्य धनेन तस्य अहंकारः वर्धते। तस्य शक्तिं परपीडनाय उपयोगं करोति। परन्तु सज्जनः तस्य विद्यां ज्ञानाय,धनं दानाय,शक्तिं पररक्षणाय उपयोगं करोति।

सन्धि:

एतत् सुभाषिते सन्धि: नास्ति |

No comments:

Post a Comment

 Neethi Satakam - Bhartruhari Word by word Tamil Meaning available for Download from the following Link: https://drive.google.com/file/d/145...