Saturday 19 August 2017

Subhashitham 20.08.2017

आकाशात् पतितं तोयं यथा गच्छति सागरम् |
सर्वदेव नमस्कार: केशवं प्रतिगच्छति ||

पदविभाग:

आकाशात् पतितम् तोयम् यथा गच्छति सागरम् सर्व देव नमस्कार: केशवं प्रति गच्छति 

अन्वय:

यथा आकाशात् पतितं तोयं  सागरं गच्छति  (तथा) सर्व देव नमस्कार: केशवं प्रतिगच्छति |

तात्पर्यम्

नभस्थल‍ात् पतन्ती वृष्टिः सदा सागरं गच्छति । तथैव सर्वेभ्यः देवेभ्यः कृत नमस्कारः श्रीकृष्णं प्रतिगच्छति ।

When rain falls that water reaches the sea at a stage. Similarly  The Namaskarams (Respect) to all gods will reach  Lord Krishna.*

No comments:

Post a Comment

Vivekachudamani (Shlokas 91 to 110)

॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥   मूलश्लोक:   बाह्येन्द्रियै: स्थूलपदार्थसेवां स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् । करो...