Thursday 7 May 2020

॥आत्मार्पणस्तुति: ॥ Shloka No 4

श्रीमदप्पय्यदीक्षित विरचिता
॥आत्मार्पणस्तुति: ॥
श्रीसोमलोकाख्यशिवस्थानवर्णनम्


मूलश्लोक:

आनन्दाब्धे: किमपि च घनीभावमास्थाय रूपं शक्त्या सार्धं परममुमया शाश्वतं भोगमिच्छन् ।
अध्वातीते शुचिदिवसकृत्कोटिदीप्रे कपर्दिन् आद्ये स्थाने विहरसि सदा सेव्यमानो गणेशै: ॥ ૪॥

पदच्छेद:

आनन्दाब्धे: किम् अपि च घनीभावम् आस्थाय रूपं शक्त्या सार्धं परमम् उमया शाश्वतं भोगमिच्छन् 
अध्वातीते शुचिदिवसकृत्कोटिदीप्रे कपर्दिन् आद्ये स्थाने विहरसि सदा सेव्यमानो गणेशै: 

अन्वय:

हे कपर्दिन् ! (त्वम् ) आनन्दाब्धे: घनीभावम्  किम् अपि च रूपम् आस्थाय  शक्त्या उमया
सार्धं परमं शाश्वतं भोगम् इच्छन् अध्वातीते शुचिदिवसकृत्कोटिदीप्रे  आद्ये स्थाने सदा गणेशै: सेव्यमान:
विहरसि ।

व्याकरणम्
▶ सन्धि:
 
 सेव्यमान: +  गणेशै: - विसर्गउकार:


~ शरवण:
08.05.2020

Wednesday 6 May 2020

॥आत्मार्पणस्तुति: ॥ Shloka No 3

Tuesday 5 May 2020

॥आत्मार्पणस्तुति: ॥ Shloka No 2

श्रीमदप्पय्यदीक्षिर विरचिता
॥आत्मार्पणस्तुति: ॥

मूलश्लोक:

क्षित्यादीनामवयववतां निश्चितं जन्म तावत् तन्नास्त्येव क्वचन कलितं कर्त्रधिष्ठानहीनम् ।
नाधिष्ठातुं प्रभवति जडो नाप्यनीशश्च भाव:  तस्मादाद्यस्त्वमसि जगतां नाथ जाने विधाता ॥२॥*

पदच्छेद:

क्षित्यादीनाम् अवयववतां निश्चितं जन्म तावत् तत् न अस्ति एव क्वचन कलितं कर्त्रधिष्ठानहीनम् न अधिष्ठातुं प्रभवति जड: न अपि अनीश: च भाव: तस्मात् आद्य: त्वम् असि जगतां नाथ जाने विधाता 

अन्वय:

हे नाथ !  अवयववतां क्षित्यादीनाम् जन्म निश्चितं  तावत् । तत् (जन्म) क्वचन कर्त्रधिष्ठानहीनम् कलितम्
नास्ति एव   । जड: अधिष्ठातुं न प्रभवति । (तथा)   अनीश: भाव: (न प्रभवति) । तस्मात् आद्य: त्वम्  जगतां विधाता असि ।

व्याकरणम्
▶ सन्धि:
 तत् + न - अनुनासिकासन्धि:

न + अस्ति - सवर्णदीर्घसन्धि:

अस्ति +एव - यण्सन्धि:

 न + अधिष्ठातुं  -- सवर्णदीर्घसन्धि:

जड: + न -  विसर्गउकार:

न + अपि - सवर्णदीर्घसन्धि:

अपि + अनीश: - यण्सन्धि:

अनीश: + च - विसर्गसकार:

तस्मात् + आद्य: - जश्त्वसन्धि:

आद्य: + त्वम् - विसर्गसकार:

~ शरवण:

Monday 4 May 2020

॥आत्मार्पणस्तुति: ॥ Shloka No 1

श्रीमदप्पय्यदीक्षित विरचिता
॥आत्मार्पणस्तुति: ॥

मूलश्लोक:

कस्ते बोद्धुं प्रभवति परं देवदेव प्रभावम् यस्मादित्थं विविधरचना सृष्टिरेषा बभूव   ।
भक्तिग्राह्यस्त्वमसि तदपि त्वामहं भक्तिमात्रात् स्तोतुं वाञ्छाम्यतिमहदिदं साहसं मे सहस्व ॥१॥

पदच्छेद:

क: ते बोद्धुं प्रभवति परं देवदेव प्रभावम् यस्मात् इत्थं विविधरचना सृष्टि: एषा बभूव  भक्तिग्राह्य: त्वम् असि तदपि त्वाम् अहं भक्तिमात्रात् स्तोतुं वाञ्छामि अतिमहत् इदं साहसं मे सहस्व 

अन्वय:

हे देवदेव ! यस्मात् इत्थं विविधरचना एषा सृष्टि: बभूव, ते परं  प्रभावम्
बोद्धुं क: प्रभवति (शक्नोति)  ।
तदपि इह त्वम् भक्तिग्राह्य:  असि । (अत:) अहं  त्वाम् भक्तिमात्रात् स्तोतुं वाञ्छामि । मे इदं अतिमहत्  साहसं  सहस्व ।

व्याकरणम्
▶ सन्धि:
क: + ते - विसर्गसकार:

 यस्यात् + इत्थं - जश्त्वसन्धि:

 सृष्टि: + एषा - विसर्गरेफ:

भक्तिग्राह्य: + त्वम् - विसर्गसकार:

 वाञ्छामि + अतिमहत् - यण्सन्धि:

अतिमहत् + इदं - जश्त्वसन्धि:

~ शरवण:

Vivekachudamani (Shlokas 91 to 110)

॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥   मूलश्लोक:   बाह्येन्द्रियै: स्थूलपदार्थसेवां स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् । करो...