Thursday 24 August 2017

Subhashitham 23.08.2017

अष्टौ गुणाः पुरुषं दीपयन्ति
प्रज्ञा च कौल्यं च दमः श्रुतं च।
पराक्रमश्चाबहुभाषिता च
दानं यथाशक्ति कृतज्ञता च।।

पदविभाग:

अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा कौल्यं दमः श्रुतं पराक्रमः बहुभाषिता यथा शक्ति दानं कृतज्ञता च

अन्वय:

 प्रज्ञा कौल्यं दमः श्रुतं पराक्रमः बहुभाषिता यथाशक्ति दानं कृतज्ञता च (एते) अष्टौ गुणाः पुरुषं दीपयन्ति

तात्पर्यम्

प्रतिभा कुलश्रेष्टता दमः ज्ञानं वीरः उचिता स्थाने भाषकः यथाशक्ति उपकारं उपकारज्ञाता एते अष्टौ गुणाः सज्जनाः एव सन्ति।एतेन गुणेन ते प्रज्ज्वल्यन्ते।

These eight virtues/merits increase the glory of a person – intelligence, noble descent, control over sense organs, knowledge of the Scriptures, courage, not being too talkative, charity as per one’s capacity and gratitude.

 सन्धिः
पराक्रमः + च = विसर्गः सकारः
च + अबहुभाषिता = सवर्णदीर्घसन्धिः
यथा + शक्ति = सवर्णदीर्घसन्धिः
[

No comments:

Post a Comment

Vivekachudamani (Shlokas 91 to 110)

॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥   मूलश्लोक:   बाह्येन्द्रियै: स्थूलपदार्थसेवां स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् । करो...