॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥ मूलश्लोक: अविज्ञाते परे तत्त्वे शास्त्राधीतिस्तु निष्फला । विज्ञातेsपि परे तत्त्वे शास्त्राधीतिस्तु निष्फला ॥६१॥ पदविभाग: अविज्ञाते परे तत्त्वे शास्त्राधीति: तु निष्फला विज्ञाते अपि परे तत्त्वे शास्त्राधीति: तु निष्फला पदार्थ: अविज्ञाते - असाक्षात्कृते परे - श्रेष्ठे तत्त्वे - निर्गुणे ब्रह्मणि शास्त्राधीति: - अर्थविचारपर्यन्त-वेदान्त-अध् तु - अपि निष्फला - प्रयोजनरहिता विज्ञाते - साक्षात्कृते अपि - अपि परे - श्रेष्ठे तत्त्वे - निर्गुणे ब्रह्मणि शास्त्राधीति: - अर्थविचारपर्यन्त-वेदान्त-अध् निष्फला - प्रयोजनरहिता अन्वय: परे तत्त्वे अविज्ञाते शास्त्राधीति: तु निष्फला । परे तत्त्वे विज्ञाते अपि शास्त्राधीति: निष्फला । तात्पर्यम् परब्रह्मतत्त्वे अविज्ञाते सति अर्थविचारपर्यन्त-वेदान्त-अध् परब्रह्मतत्त्वे विज्ञाते सति अपि अर्थविचारपर्यन्त-वेदान्त-अध् निष्फलम् एव। व्याकरणम् सन्धि: शास्त्राधीति: + तु - विसर्गसकार: विज्ञाते + अपि - पूर्पवरूपसन्धि: मूलश्लोक: शब्दजालं महारण्यं चित्तभ्रमणकारणम् । अत: प्रयत्नात् ज्ञातव्यं तत्त्वज्ञात्तत्त्वमात्मन: ॥६२॥ पदविभाग: शब्दजालं महारण्यं चित्तभ्रमणकारणम् अत: प्रयत्नात् ज्ञातव्यं तत्त्वज्ञात् तत्त्वम् आत्मन: पदार्थ: शब्दजालं - शब्दानां गण: महारण्यं - महावनम् चित्तभ्रमणकारणम् - चित्तभ्रमणकारणम् अत: - तस्मात् प्रयत्नात् - प्रयत्नात् ज्ञातव्यं - अवगन्तव्यम् तत्त्वज्ञात् - तत्त्वज्ञत: तत्त्वम् -ज्ञानम् आत्मन: - आत्मन: अन्वय: शब्दजालं महारण्यम् चित्तभ्रमणकारणम् ( भवति) ।अत: प्रयत्नात् तत्त्वज्ञात् आत्मन: तत्त्वम् ज्ञातव्यम् । तात्पर्यम् शब्दजालं महारण्यम् इव । तत् चित्तभ्रमणकारणम् करोति । अत: प्रयत्नात् तत्त्वज्ञात् आत्मन: तत्त्वम् ज्ञातव्यम् । यथा महारण्यं प्रविष्ट: पुरुष: दिशमज्ञात्वा भ्राम्यति तथा केवलशब्दजालात्मक-शास्त्रस्य अपि विक्षेपहेतुत्वात् तन्निष्ठत्वं अपि परित्यज्य परमात्मसाक्षात्कारवत: देशिकात् आत्मयाथात्म्यं साक्षात्कर्तव्यम् इति आह । मूलश्लोक: अज्ञानसर्पदष्टस्य ब्रह्मज्ञानौषधं विना । किमु वेदैश्च शास्त्रैश्च किमु मन्त्रै: किमौषधै: ॥६३॥ पदविभाग: अज्ञानसर्पदष्टस्य ब्रह्मज्ञानौषधं विना किम् उ वेदै: च शास्त्रै: च किम् उ मन्त्रै: किम् औषधै: पदार्थ: अज्ञानसर्पदष्टस्य - अज्ञानसर्पेन दष्टस्य ब्रह्मज्ञानौषधं - आत्मज्ञान-औषधम् वेदै: - ऋगादिवेदै: शास्त्रै: - व्याकरणशास्त्रै: मन्त्रै: - सप्तकोटिभि: औषधै: - संजीविन्यादिमूलिकाभि: अन्वय: अज्ञानसर्पदष्टस्य ब्रह्मज्ञानौषधं विना वेदै: च शास्त्रै: च किम् उ (प्रयोजनम्?) मन्त्रै: किम् उ (प्रयोजनम्?) औषधै: किम् (प्रयोजनम्?) तात्पर्यम् अज्ञानमेव सर्प: तेन दष्टस्य नरस्य आत्मज्ञान-औषधम् विना ऋगादिवेदै: व्याकरणशास्त्रै: च किं प्रयोजनम् ? सप्तकोटिभि: मन्त्रै: किं प्रयोजनम् ? संजीविन्यादिमूलिकाभि: औषधै: किं प्रयोजनम् ? व्याकरणम् सन्धि: वेदै: + च - विसर्गसकार: शास्त्रै: + च - विसर्गसकार: मूलश्लोक: न गच्छति विना पानं व्याधिरौषधशब्दत: । विनापरोक्षानुभवं ब्रह्मशब्दैर्न मुच्यते ॥६૪॥ पदविभाग: न गच्छति विना पानं व्याधि: औषधशब्दत: विना अपरोक्षानुभवं ब्रह्मशब्दै: न मुच्यते पदार्थ: गच्छति - निवर्तते पानं - औषधपानम् व्याधि: - रोग: औषधशब्दत: - औषधशब्विदमात्रात् अपरोक्षानुभवं - आत्मसाक्षात्कारम् ब्रह्मशब्दै: - उपनिषद्घटकै: मुच्यते - मुक्तिं प्राप्नोति अन्वय: व्याधि: पानं विना औषधशब्दत: न गच्छति । (तथा) अपरोक्षानुभवं विना ब्रह्मशब्दै: न मुच्यते । तात्पर्यम् यथा व्याधि: औषधपानं विना औषधशब्दत: न निवर्तते । तथा आत्मसाक्षात्कारं विना केवलमुपनिषद्घटकै: निवृत्तबन्ध: न भवति । व्याकरणम् सन्धि: व्याधि: + औषधशब्दत: - विसर्विगरेफ: विना + अपरोक्षानुभवं - सवर्ब्रणदीर्धसन्धि: ब्रह्मशब्दै: + न विसर्विगरेफ: मूलश्लोक: अकृत्वा दृश्यनिलयं अज्ञात्वा तत्त्वमात्मन: । बाह्यशब्दै: कुतो मुक्तिरुक्तिमात्रफलैर्नृणाम् ॥६५॥ पदविभाग: अकृत्वा दृश्यनिलयं अज्ञात्वा तत्त्वम् आत्मन: बाह्यशब्दै: कुत: मुक्ति: उक्तिमात्रफलै: नृणाम् पदार्थ: अकृत्वा - अकृत्वा दृश्यनिलयं - दृश्यनिलयं अज्ञात्वा - अज्ञात्वा तत्त्वम् - तत्त्वम् आत्मन: - आत्मन: बाह्यशब्दै: - अन्तरानुभवं विना उच्चार्यमाणै: मुक्ति: - मोक्ष: उक्तिमात्रफलै: - उच्चारणमात्रफलै: नृणाम् - मनुषचयाणाम् अन्वय: दृश्यनिलयं अकृत्वा आत्मन: तत्त्वम् अज्ञात्वा उच्चारणमात्रफलै: अन्तरानुभवं विना मनुष्याणां मुक्ति: कुत: ? । तात्पर्यम् दृश्यनिलयं अकृत्वा आत्मन: तत्त्वम् अज्ञात्वा उक्तिमात्रफलै: बाह्यशब्दै: नृणाम् मुक्ति: कुत: ? । नैव सम्भवति इत्यर्थ: व्याकरणम् सन्धि: कुत: + मुक्ति: - विसर्गउकार: मुक्ति: + उक्तिमात्रफलै: - विसर्गरेफ: उक्तिमात्रफलै: + नृणाम् - विसर्गरेफ: मूलश्लोक: अकृत्वा शत्रुसंहारं अगत्वाखिलभूश्रियम् । राजाहमितिशब्दान्नो राजा भवितुमर्हति ॥६६॥ पदविभाग: अकृत्वा शत्रुसंहारं अगत्वा अखिलभूश्रियम् राजा अहम् इति शब्दात् न उ राजा भवितुम् अहति पदार्थ: अकृत्वा - अकृत्वा शत्रुसंहारं - शत्रूणां विलयम् अगत्वा - अप्राप्य अखिलभूश्रियम् - समस्तपृथ्वीसंपदम् राजा - नृप: अहम् - अहम् शब्दात् - शब्दमात्रात् राजा - नृप: भवितुम् - भवितुम् अहति - शक्नोति अन्वय: शत्रुसंहारम् अकृत्वा अखिलभूश्रियम् अगत्वा अहं राजा इति शब्दात् राजा भवितुम् न उ अहति । तात्पर्यम् स्वकीयराज्यभोगप्रतिबन्धकानां शत्रूणां संहारम् अकृत्वा समस्तपृथ्वीसंपदम् अप्राप्य केवलम् अहं राजा इति शब्दात् राजा भवितुम् न उ अर्हति । एवमेव केवलबाह्यशब्दै: मुक्ति: न भविष्यति । अत: प्रयत्नात् तत्त्वज्ञात् आत्मन: तत्त्वं ज्ञातव्यम् इति ज्ञेयम् । व्याकरणम् सन्धि: अगत्वा + अखिलभूश्रियम् - सवर्णदीर्घसन्धि: राजा + अहम् सवर्णदीर्घसन्धि: शब्दात् + न - अनुनासिकसन्धि: मूलश्लोक: आप्तोक्तिं खननं तथोपरिशिलापाकर्षणं स्वीकृतिं निक्षेप: समपेक्षते न हि बहि: शब्दैस्तु निर्गच्छति । तद्वद्ब्रह्मविदोपदेशमननध्याना मायाकार्यतिरोहितं स्वममलं तत्त्वं न दुर्युक्तिभि: ॥६७॥॥ पदविभाग: आप्तोक्तिं खननं तथा उपरिशिलापाकर्षणं स्वीकृतिं निक्षेप: समपेक्षते न हि बहि: शब्दै: तु निर्गच्छति तद्वद् ब्रह्मविदोपदेशमननध्यानादिभि: लभ्यते मायाकार्यतिरोहितं स्वम् अमलं तत्त्वं न दुर्युक्तिभि: पदार्थ: आप्तोक्तिं - आप्त-उकतिम् खननं -खननम् उपरिशिलापाकर्षणं - उपरि शिलाया: अपसारणम् स्वीकृतिं - स्वीकारम् निक्षेप: - निक्षेप: समपेक्षते - सम्यक् अपेक्षते बहि: शब्दै: - बाह्यशब्दै: निर्गच्छति - निर्गच्छति ब्रह्मविदोपदेशमननध्यानादिभि: - ब्रह्मविद् - उपदेश-मननध्यानादिभि: लभ्यते - प्राप्यते मायाकार्यतिरोहितं - अज्ञानकार्यतिरोहितं स्वम् - आत्मानं अमलं - निर्मलम् तत्त्वं - आत्मस्वरूपम् दुर्युक्तिभि: - दुर्युक्तिभि: अन्वय: आप्तोक्तिं खननं तथा उपरिशिला-अपाकर्षणं स्वीकृतिं निक्षेप: समपेक्षते । बहि: शब्दै: न हि तु निर्गच्छति । तद्वद् मायाकार्यतिरोहितं स्वं अमलं तत्त्वं ब्रह्मविदोपदेश-मननध्यानादिभि: लभ्यते । दुर्युक्तिभि: न (लभ्यते) । तात्पर्यम् आप्त-उक्तिं खननं तथा उपरिशिला-अपाकर्षणं स्वीकृतिं निक्षेप: समपेक्षते । बाह्यशब्दै: न हि तु निर्गच्छति इति प्रसिद्धम् । तद्वद् अज्ञानेन कार्यतिरोहितं आत्मानं निर्मलं तत्त्वं ब्रह्मवित्-उपदेश- मननध्यानादिभि व्याकरणम् सन्धि: तथा + उपरिशिलापाकर्षणं - गुणसन्धि: शब्दै: + तु - विसर्गसकार: तद्वत् + ब्रह्मविदोपदेशमननध्यानादिभि: - जश्त्वसन्धि: मूलश्लोक: तस्मात्सर्वप्रयत्नेन भवबन्धविमुक्तये । स्वेनैव यत्न: कर्तव्यो रोगादेरिव पण्डितै: ॥६८॥ पदविभाग: तस्मात् सर्वप्रयत्नेन भवबन्धविमुक्तये स्वेन एव यत्न: कर्तव्य: रोगादे: इव पण्डितै: पदार्थ: तस्मात् - तस्मात् सर्वप्रयत्नेन - श्रवणादिरूपप्रयत्नेन भवबन्धविमुक्तये - संसारबन्धविमुक्तये स्वेन - आत्मना यत्न: - प्रयत्न: कर्तव्य: - करणीय: रोगादे: - रोगक्षुत्पिपासादे: पण्डितै: - पण्डितै: अन्वय: तस्मात् भवबन्धविमुक्तये रोगादे: इव स्वेन एव पण्डितै: सर्वप्रयत्नेन यत्न: कर्तव्य: । तात्पर्यम् तस्मात् देहान्तबन्धनिवृत्तये रोगक्षुत्पिपासादे: विमुक्तये इव स्वेन एव बुद्धिमद्भि: सर्वविधप्रयत्नेन यत्न: कर्तव्य: । व्याकरणम् सन्धि: स्वेन + एव - वृद्धिसन्धि: कर्तव्य: + रोगादे: - विसर्गउकार: रोगादे: + इव - विसर्गरेफ: मूलश्लोक: यस्त्वयाद्य कृत: प्रश्नो वरीयान् शास्त्रसम्मत; । सूत्रप्रायो निगूढार्थो ज्ञातव्यश्च मुमुक्षुभि: ॥६९॥ पदविभाग: य: त्वया अद्य कृत: प्रश्नो वरीयान् शास्त्रसम्मत; सूत्रप्राय; निगूढार्थ: ज्ञातव्य: च मुमुक्षुभि: पदार्थ: य: - य: प्रश्न: त्वया - त्वया अद्य - इदानीम् कृत: - पृष्ट: प्रश्न: - प्रश्न: वरीयान् - श्रेष्ठान् शास्त्रसम्मत; - शास्त्रेण श्लाघित: सूत्रप्राय; - सूत्रमिव अल्पाक्षर: निगूढार्थ: - अनेकार्थसहित: ज्ञातव्य: - अवगन्तव्य: मुमुक्षुभि: - मुमुक्षुभि: अन्वय: अद्य त्वया य: प्रश्न: कृत: (स: प्रश्न:) वरीयान् शास्त्रसम्मत; सूत्रप्राय; निगूढार्थ: मुमुक्षुभि: ज्ञातव्य: च । तात्पर्यम् इदानीं त्वया य: प्रश्न: (क: नाम बन्ध:) कृत: स: प्रश्न: अत्य़न्तं वर: शास्त्रविदै: प्रष्टुं शक्यते । तव प्रश्न: अल्पाक्षर: परन्तु निगूढार्थ: अपि । स: प्रश्न: मुमुक्षुभि: ज्ञातव्य: च । व्याकरणम् सन्धि: य: + त्वया - विसर्गसकार: तवया + अद्य - सवर्णदीर्घसन्धि: प्रश्न: + वरीयान् - विसर्गउकार: सूत्रप्राय; + निगूढार्थ: विसर्गउकार: निगूढार्थ: + ज्ञातव्य:विसर्गउकार: ज्ञातव्य: + च - विसर्गसकार: मूलश्लोक: श्रुणुष्वावहितो विद्वन् यन्मया समुदीर्यते । तदेतच्छ्रवणात्सद्यो भवबन्धाद्विमोक्ष्यसे ॥ ७०॥ पदविभाग: श्रुणुष्व अवहित: विद्वन् यत् मया समुदीर्यते तत् एतत् श्रवणात् सद्य: भवबन्धाद् विमोक्ष्यसे पदार्थ: श्रुणुष्व - श्रुणुष्व अवहित: - विषयान्तरमनसंचाररहित: विद्वन् - विद्वन् समुदीर्यते - सम्यक् उच्यते श्रवणात् - उक्तवाक्यश्रवणात् सद्य: - आशु: भवबन्धाद् - संसारबन्धात् विमोक्ष्यसे - नितरां मुच्यसे अन्वय: हे विद्वन् ! यत् मया समुदीर्यते तत् अवहित: श्रुणुष्व । एतत् श्रवणात् सद्य: भवबन्धाद् विमोक्ष्यसे । तात्पर्यम् हे विद्वन् ! यत् मया सम्यक् उदीर्यते तत् अवहित: श्रुणुष्व । एतत् श्रवणात् आशु संसारबन्धात् नितरां मुच्यसे । व्याकरणम् सन्धि: श्रुणुष्व + अवहित: - सवर्विणदीर्घसन्धि यत् + मया - अनुनासिकासन्धि: तत् + एतत् - जश्तंवसन्धि: एतत् + श्रवणात् - छत्वसन्धि: सद्य: + भवबन्धाद् - विसर्गउकार: भवबन्धात् + विमोक्ष्यसे - जश्त्वसन्धि: नमो नम: श्रीगुरुपादुकाभ्याम् । ~ शरवण: 22.09.2020
|
No comments:
Post a Comment