॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥ Shloka No : 51 मूलश्लोक: को नाम बन्ध: कथमेष आगत: कथं प्रतिष्ठास्य कथं विमोक्ष: । कोसावनात्मा परम: क आत्मा तयोर्विवेक: कथमेतदुच्यताम् ॥ ५१॥ पदविभाग: क: नाम बन्ध: कथम् एष आगत: कथं प्रतिष्ठा अस्य कथं विमोक्ष: क: असौ अनात्मा परम: क आत्मा तयो: विवेक: कथम् एतत् उच्यताम् पदार्थ: नाम - नाम बन्ध: - संसारबन्ध: एष: - बन्ध: आगत: -आगत: प्रतिष्ठा - चिरकाल: अस्य - बन्धस्य विमोक्ष: - निवृत्ति: अनात्मा - अनात्मा परम: - श्रेष्ठ: आत्मा - आत्मा तयो: - आत्मानात्मयो: विवेक: - भेद: एतत् - प्रश्नस्य उत्तरम् उच्यताम् - विस्तरेण उच्यताम् अन्वय: क: नाम बन्ध: ? । एष: कथम् आगत: ? अस्य प्रतिष्ठा कथम् ? विमोक्ष: कथम् ? असौ अनात्मा क: ? परम: आत्मा क:? ।तयो: विवेक: कथम् ? एतत् उच्यताम् । तात्पर्यम् शिष्य: गुरुं प्रार्थ्य एवं पृच्छति । क: नाम बन्ध: ? । कथम् एष: बन्ध: आगत: तस्य स्थितौ हेतु: क: ? ।बन्धत: विमोक्ष: कथम् भविष्यति ? असौ अनात्मा क: ? परमात्मा क:? । तयो: भेदग्रह: कथम् जायते ? एतत् सर्वं कृपया उच्यताम् । व्याकरणम् सन्धि: क: + नाम - विसर्गउकार: एष: + आगत: - विसर्गलोप: प्रतिष्ठा + अस्य - सवर्णदीर्घसन्धि: क: + असौ - विसर्गउकार: पूर्वरूपसन्धि: असौ + आत्मा - यान्तवान्तादेशसन्धि: क: + आत्मा - विसर्गलोप: तयो: + विवेक: - विसर्गरेफ: एतत् + उच्यताम् - जश्त्वसन्धि: Shloka No : 52
पथ्यमौषधसेवा च क्रियते येन रोगिणा। आरोग्तसि्द्धिर्दृष्टास्य नान्यानुष्ठितकर्मणा ॥ ५५॥ पदविभाग: पथ्यम् औषधसेवा च क्रियते येन रोगिणा आरोग्यसिद्धि: दृष्टा अस्य न अन्यानुष्ठितकर्मणा पदार्थ: पथ्यम् - मिदाहारम् औषधसेवा - औषधसेवा क्रियते -क्रियते रोगिणा - रोगिणा आरोग्यसिद्धि: - रोगनिवृत्ति: दृष्टा - दृश्यते अन्यानुष्ठितकर्मणा - अन्य- अनुष्ठितकर्मणा अन्वय: पथ्यम् औषधसेवा च येन रोगिणा क्रियते अस्य आरोग्यसिद्धि: दृष्टा । अन्यानुष्ठितकर्मणा न (सिद्ध्यति) तात्पर्यम् पथ्यम् औषधसेवा च येन रोगिणा क्रियते तस्य आरोग्यसिद्धि: दृष्टा । अन्यानुष्ठितकर्मणा न सिद्ध्यति ।अत्र पथ्यं पदेन दृढतर- साधनचतु्ष्टयसम्पत्ति: औषधसेवा पदेन वेदान्तश्रवणं च उक्तम् । व्याकरणम् सन्धि: आरोग्यसिद्धि: + दृष्टा - विसर्गरेफ: दृष्टा + अस्य - सवर्णदीर्घसन्धि: न + अन्यानुष्ठितकर्मणा - सवर्णदीर्घसन्धि: Shloka No : 56 मूलश्लोक: वस्तुस्वरूपं स्फुटबोधचक्षुषा स्वेनैव वेद्यं न तु पण्डितेन । चन्द्रस्वरूपं निजचक्षुषैव ज्ञातव्यमन्यैरवगम्यते किम् ॥५६॥ पदविभाग: वस्तुस्वरूपं स्फुटबोधचक्षुषा स्वेन एव वेद्यं न तु पण्डितेन चन्द्रस्वरूपं निजचक्षुषा एव ज्ञातव्यम् अन्यै: अवगम्यते किम् पदार्थ: वस्तुस्वरूपं - वस्तुयाथात्म्यम् स्फुटबोधचक्षुषा - स्फुट- बोध-चक्षुषा स्वेन - आत्मना वेद्यं - वेद्यम् पण्डितेन - विवेकिना चन्द्रस्वरूपं - चन्द्रस्वरूपम् निजचक्षुषा -निजचक्षुषा ज्ञातव्यम् - अवगन्तवयम् अन्यै: - इतरै: अवगम्यते - अवगम्यते अन्वय: स्फुटबोधचक्षुषा स्वेन एव वस्तुस्वरूपं वेद्यम् । पण्डितेन न तु । चन्द्रस्वरूपं निजचक्षुषा एव ज्ञातव्यम् अन्यै: अवगम्यते किम् ? । तात्पर्यम् निर्मलज्ञानचक्षुषा आत्मना एव वस्तुस्वरूपं ज्ञेयम् । पण्डितेन न तु ज्ञेयम् । चन्द्रस्वरूपं निजचक्षुषा एव ज्ञातव्यम् अन्यै: मनुष्यै: अवगम्यते किम् ? । व्याकरणम् सन्धि: स्वेन + एव - वृद्धिसन्धि: निजचक्षुषा + एव - वृद्धिसन्धि: अन्यै: + अवगम्यते - विसर्गरेफ: Shloka No : 57 मूलश्लोक: अविद्याकामकर्मादिपाशबन्धं विमोचितुं । कश्शक्नुयाद्विनात्मानं कल्पकोटिशतैरपि ॥ ५७॥ पदविभाग: अविद्याकामकर्मादिपाशबन्धं विमोचितुं क: शक्नुयात् विना आत्मानं कल्पकोटिशतै: अपि पदार्थ: अविद्याकामकर्मादिपाशबन्धं -अविद्या-काम-कर्मादि-पाशबन्धम् विमोचितुं - त्यक्तुम् शक्नुयात् - शक्नुयात् आत्मानं - स्वम् कल्पकोटिशतै: - शतकोटिकल्पै: अन्वय: अविद्याकामकर्मादिपाशबन्धं विमोचितुं कल्पकोटिशतै: अपि आत्मानं विना क: शक्नुयात् ? तात्पर्यम् अविद्या-काम-कर्मादि-पाशबन्धं विमोचितुं कल्पकोटिशतै: अपि आत्मानं विना क: शक्नुयात् ? व्याकरणम् सन्धि: क: + शक्नुयात् - विसर्गसकार: शक्नुयात् + विना - जश्त्वसन्धि: विना + आत्मानं - सवर्णदीर्घसन्धि: कल्पकोटिशतै: + अपि - विसर्गरेफ: Shloka No : 58 मूलश्लोक: न योगेन न सांख्येन कर्मणा नो न विद्यया । ब्रह्मात्मैकत्वबोधेन मोक्षस्सिध्यति नान्यथा ॥५८॥ पदविभाग: न योगेन न सांख्येन कर्मणा न उ न विद्यया ब्रह्मात्मैकत्वबोधेन मोक्ष: सिध्यति न अन्यथा पदार्थ: योगेन - योगानुष्ठानेन सांख्येन - सांख्यशास्त्रेण कर्मणा - नानाविधकर्मणा विद्यया - उपासनया ब्रह्मात्मैकत्वबोधेन - ब्रह्मात्मैकत्वबोधेन मोक्ष: - मोक्ष: सिध्यति - लभते अन्यथा - अन्यप्रकारेण अन्वय: ब्रह्मात्मैकत्वबोधेन मोक्ष: सिध्यति । अन्यथा योगेन न (सिध्यति) । सांख्येन न (सिध्यति) । कर्मणा न उ (सिध्यति) । विद्यया न (सिध्यति) । तात्पर्यम् ब्रह्मात्म- एकत्व-बोधेन मोक्ष: सिध्यति । अन्यथा योगानुष्ठानेन न सिध्यति । सांख्यशास्त्रेण न सिध्यति । नानाविधकर्मणा न सिध्यति। उपासनया अपि मोक्ष: न सिध्यति । अत्र योगपदेन पतञ्जलीमहर्षिणा कृत योगदर्शनं सांख्यपदेन कपिलमहर्षिणा कृत सांख्यदर्शनम् कर्मपदेन जैमिनीकृत पूर्वमीमांसादर्शनं विद्यापदेन नानाविधा उपासनामार्गा: च भगवान् श्री आदिशंकराचार्येण उक्तम् । व्याकरणम् सन्धि: न + उ - गुणसन्धि: न + अन्यथा - सवर्णदीर्घसन्धि: Shloka No : 59 मूलश्लोक: वीणाया रूपसौंदर्यं तन्त्रीवादनसौष्ठवम् । प्रजारंजनमात्रं तन्न साम्राज्याय कल्पते ॥५९॥ पदविभाग: वीणाया: रूपसौंदर्यं तन्त्रीवादनसौष्ठवम् प्रजारंजनमात्रं तत् न साम्राज्याय कल्पते पदार्थ: वीणाया: - वीणाया: रूपसौंदर्यं - सुन्दररूपत्वम् तन्त्रीवादनसौष्ठवम् - तन्त्राया: वादने सौष्ठवम् प्रजारंजनमात्रं - प्रजानां रञ्जनमात्रम् साम्राज्याय - साम्राज्याय कल्पते - कल्पते अन्वय: वीणाया: रूपसौंदर्यं तन्त्रीवादनसौष्ठवम् प्रजारंजनमात्रं (भवति) । तत् साम्राज्याय न कल्पते । तात्पर्यम् वीणाया: रूपसौंदर्यं वीणाया: तन्त्राया; वादने सौष्ठवम् प्रजानां रञ्जनमात्रं भवति । परन्तु तत् साम्राज्याय न कल्पते । राजा प्रकृतिरञ्जनात् इति वाक्यानुसारेण य: लोकं रञ्जयति स: राजा इति कारणेन य: वीणानादेन जनान् रञ्जयति स: राजा न भवति इति अत्र सूचितमस्ति । व्याकरणम् सन्धि: तत् + न - अनुनासिकासन्धि: Shloka No : 60 मूलश्लोक: वाग्वैखरी शब्दझरी शास्त्रव्याख्यानकौशलम् । वैदुष्यं विदुषां तद्वद्भुक्तये न तु मुक्तये ॥६०॥ पदविभाग: वाग्वैखरी शब्दझरी शास्त्रव्याख्यानकौशलम् वैदुष्यं विदुषां तद्वत् भुक्तये न तु मुक्तये पदार्थ: वाग्वैखरी - सरलपदबन्धविशिष्टा वाक् शब्दझरी - शब्दप्रवाह: शास्त्रव्याख्यानकौशलम् - शास्त्रस्य - व्याख्यान प्राविण्यम् वैदुष्यं - विद्वत्वम् विदुषां - विदुषां भुक्तये - वीणावादनादिवत् मुक्तये - मोक्षाय अन्वय: वाग्वैखरी शब्दझरी शास्त्रव्याख्यानकौशलम् विदुषां वैदुष्यं तद्वत् भुक्तये न तु मुक्तये ( भवति) । तात्पर्यम् वाग्वैखरी शब्दप्रवाह: शास्त्रस्य - व्याख्यान प्राविण्यम् पण्डितानां वैदुष्यं तद्वत् भोगाय एव न तु मोक्षाय ( भवति) । व्याकरणम् सन्धि: तद्वत् + भुक्तये - जश्त्वसन्धि: नमो नम: श्रीगुरुपादुकाभ्याम् । ~ शरवण: 11.09.2020 |
No comments:
Post a Comment