॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥
Shloka No 71
मूलश्लोक:
मोक्षस्य हेतु: प्रथमो निगद्यते वैराग्यमत्यंतमनित्यवस्तुषु ।
ततस्शमश्चापि दमस्तितिक्षा न्यास: प्रसक्ताखिलकर्मणां भृशम् ॥७१॥
पदविभाग:
मोक्षस्य हेतु: प्रथम: निगद्यते वैराग्यम् अत्यंतम् अनित्यवस्तुषु
तत: शम: च अपि दम: तितिक्षा न्यास: प्रसक्ताखिलकर्मणां भृशम्
पदार्थ:
मोक्षस्य - मोक्षस्य
हेतु: - कारणम्
प्रथम: - प्रथम:
निगद्यते - कथ्यते
वैराग्यम् - वैराग्यम्
अत्यंतम् - अत्यन्तम्
अनित्यवस्तुषु - अनित्यवस्तुषु
तत: - अत:
शम: - मनो निग्रह:
दम: - बाह्येन्द्रियनिग्रह:
तितिक्षा -तितिक्षा
न्यास: - त्याग:
प्रसक्ताखिलकर्मणां -प्रसक्त- अखिलकर्मणां
भृशम् - भृशम्
अन्वय:
मोक्षस्य प्रथम: हेतु: अनित्यवस्तुषु अत्यंतम् वैराग्यम् निगद्यते ।
तत: शम: च अपि दम: तितिक्षा प्रसक्त-अखिलकर्मणां भृशम् न्यास: ।
तात्पर्यम्
मोक्षस्य प्रथम: हेतु: अनित्यवस्तुषु अत्यंतम् वैराग्यम् इति कथ्यते ।
तत: मनोनिग्रह: बाह्येन्द्रियनिग्रह: तितिक्षा प्रसक्ताखिलकर्मणां भृशम्
न्यास: एव ।
व्याकरणम्
सन्धि:
प्रथम: + निगद्यते - विसर्गउकार:
शम: + च - विसर्गसकार:
च + अपि - सवर्णदीर्घसन्धि:
दम: + तितिक्षा - विसर्गसकार:
Shloka No 72
मूलश्लोक:
ततश्श्रुतिस्तन्मननं सतत्वध्यानं चिरं नित्यनिरंतरं मुने: ।
ततोsविकल्पं परमेत्य विद्वान् इहैव निर्वाणसुखं समृच्छति ॥ ७२॥
पदविभाग:
तत: श्रुति: तत् मननं सतत्वध्यानं चिरं नित्यनिरंतरं मुने: तत: अविकल्पं परम् एत्य विद्वान् इह एव निर्वाणसुखं समृच्छति
पदार्थ:
श्रुति: - अर्थत: गुरुमुखात्
मननं - मननम्
सतत्वध्यानं - परमार्थतत्वस्य धयानम्
चिरं - बहुकालम्
नित्यनिरंतरं - नित्यं निरन्तरम्
मुने: - मननशीलस्य
अविकल्पं - निर्विकल्पक समाधिं
परम् - श्रेष्ठम्
एत्य - प्राप्य
विद्वान् - आत्मसाक्षात्कारवान्
निर्वाणसुखं - मुक्तिसौख्यम्
समृच्छति - निरर्गलम् अनुभवति
अन्वय:
तत: श्रुति: तत् मननं मुने: चिरं नित्यनिरंतरं सतत्वध्यानं तत: अविकल्पं परम् (स्थानम्) एत्य विद्वान् इह एव निर्वाणसुखं समृच्छति
तात्पर्यम्
अनित्यवस्तुषु वैराग्यं प्राप्य गुरुमुखेन तत्त्वं श्रुत्वा तत् मननं कृत्वा तस्य चिरं नित्यनिरंतरं सतत्वध्यानं कृत्वा तत: अविकल्पं परम् स्थानम् एत्य आत्मसाक्षात्कारवान् इह एव मुक्तिसौख्यम् निरर्गलम् अनुभवति ।
व्याकरणम्
सन्धि:
तत:+ श्रुति: - विसर्गसकार:
तत् + मननं - अनुनासिकासन्धि:
तत: + अविकल्पं - विसर्गउकार: पूर्वरूपसन्धि:
इह + एव - वृद्धिसन्धि:
Shloka No 73
मूलश्लोक:
यद्बोद्धव्यं तवेदानीमात्मानात्मविवेचनम् ।
तदुच्यते मया सम्यक्छ्रुत्वात्मन्यवधारय ॥ ७३॥
पदविभाग:
यत् बोद्धव्यं तव इदानीम् आत्मानात्मविवेचनम्
तत् उच्यते मया सम्यक् श्रुत्वा आत्मनि अवधारय
पदार्थ:
बोद्धव्यं - ज्ञातव्यम्
इदानीम् - मोक्षहेतु-ज्ञानबोधात्प्राक्
आत्मानात्मविवेचनम् - आत्म-अनात्म-भेदज्ञान-अनुकूलव् यापार:
उच्यते - कथ्यते
सम्यक् - सम्यक्
श्रुत्वा - आकर्ण्य
आत्मनि - मनसि
अवधारय - निश्चिनुहि
अन्वय:
तव इदानीं यत् बोद्धव्यं तत् आत्मानात्मविवेचनम् मया सम्यक् उच्यते ।
(तत् सम्यक्) श्रुत्वा आत्मनि अवधारय ।
तात्पर्यम्
तव मोक्षहेतु-ज्ञानबोधात्प्राक् यत् ज्ञातव्यं तत् आत्म-अनात्म-भेदज्ञान-अनुकूलव् यापार: मया सम्यक् उच्यते । तत् सम्यक् श्रुत्वा मनसि अवधारय ।
व्याकरणम्
सन्धि:
यत् + बोद्धव्यं - जश्त्वसन्धि:
तव + इदानीम् - गुणसन्धि:
तत् + उच्यते -जश्त्वसन्धि:
सम्यक् + श्रुत्वा - छत्वसन्धि:
आत्मनि + अवधारय - यण्सन्धि:
इह + एव - वृद्धिसन्धि:
Shloka No 74
मूलश्लोक:
मज्जास्थिमेद:पल-रक्तचर्म-त् वगाह्वयैर्धातुभिरेभिरन्वितम् ।
पादोरुवक्षो-भुजपृष्ठ-मस्तकैरं गैरुपांगैरुपयुक्तमेतत् ॥ ७૪॥
अहं ममेति प्रथितं शरीरं मोहास्पदं स्थूलमितीर्यते बुधै: ।
पदविभाग:
मज्जा अस्थि मेद: पल-रक्तचर्म-त्वगाह्वयै:
धातुभि: एभि: अन्वितम्
पादोरुवक्षो-भुजपृष्ठ-मस्तकै:
अङ्गै: उपांगै: उपयुक्तम् एतत्
अहं मम इति प्रथितं शरीरं मोहास्पदं स्थूलम् इति ईर्यते बुधै:
पदार्थ:
मज्जा - मज्जा
अस्थि - अस्थि
मेद: - मेद:
पल-रक्तचर्म-त्वगाह्वयै:- माम्स-रक्त-स्थूलावरणं -सूक्ष्मावरणं-कथितै:
धातुभि: -सप्तभि: धातुभि:
अन्वितम् - युक्तम्
पादोरुवक्षो-भुजपृष्ठ-मस्तकै:- पाद-ऊरु-वक्ष-हस्त-पृष्ठ-शिरोभि :
अङ्गै: -अङ्गै:
उपांगै: - उप-अङ्गै:
उपयुक्तम् - सहितम्
अहं - अहं
मम - मम
प्रथितं - कथितम्
शरीरं - देह:
मोहास्पदं - आत्मत्व-भ्रमस्य विषय: स्थूलम् -स्थूलम्
ईर्यते - कथ्यते
बुधै: - बुद्धिमद्भि:
अन्वय:
मज्जा -अस्थि-मेद: पल-रक्तचर्म-त्वक् -आह्वयै: एभि: धातुभि: अन्वितं
पादोरुवक्षो-भुजपृष्ठ-मस्तकै: अङ्गै: उपांगै: उपयुक्तम् अहं मम इति प्रथितं
मोहास्पदं एतत् शरीरं स्थूलम् इति बुधै: ईर्यते ।
तात्पर्यम्
आस्मिन् श्लोके भगवान् श्रीआदिशङ्कराचार्य: स्थूलशरीरस्य निर्वचनं वदति । मज्जा -अस्थि-मेद: माम्स-रक्तचर्म-त्वक् -आह्वयै: एभि: सप्तधातुभि: अन्वितं
पादोरुवक्षो-भुजपृष्ठ-मस्तकै: अङ्गै: उप-अङ्गै: उपयुक्तम् अहं मम इति प्रथितं मोह-आस्पदं एतत् शरीरं स्थूलम् इति बुधै: कथ्यते ।
व्याकरणम्
सन्धि:
पल-रक्तचर्म-त्वगाह्वयै: +धातुभि: - विसर्गरेफ:
धातुभि: + एभि: - विसर्गरेफ:
एभि: अन्वितम् - विसर्गरेफ:
पादोरुवक्षो-भुजपृष्ठ-मस्तकै: +अङ्गै: - विसर्गरेफ:
अङ्गै: + उपांगै:- विसर्गरेफ:
उपाङंगै: + उपयुक्तम् - विसर्गरेफ:
मम + इति - गुणसन्धि:
इति + ईर्यते - सवर्णदीर्घसन्धि:
Shloka No 75
मूलश्लोक:
नभोनभस्वद्दहनांबुभूमय: सूक्ष्माणि भूतानि भवन्ति तानि ॥७५॥
परस्परांशैर्मिलितानि भूत्वा स्थूलानि च स्थूलशरीरहेतव: ।।
पदविभाग:
नभ:-नभस्वत्-दहन-अंबु-भूमय: सूक्ष्माणि भूतानि भवन्ति तानि
परस्परांशै: मिलितानि भूत्वा स्थूलानि च स्थूलशरीरहेतव:
पदार्थ:
नभ:-नभस्वत्-दहन-अंबु-भूमय: - आकाश:-मरुत्-अग्नि:-जलम्-पृथिवी सूक्ष्माणि - सूक्ष्माणि
भूतानि-पञ्चभूतानि
भवन्ति - सन्ति
परस्परांशै: -परस्पर-अंशै:
मिलितानि - योजयन्ति
भूत्वा - भूत्वा
स्थूलानि -
गगनादि-शब्द-व्यवहारार्हाणि स्थूलशरीरहेतव: - स्थूलशरीरहेतव:
अन्वय:
नभ:-नभस्वत्-दहन-अंबु-भूमय: सूक्ष्माणि भूतानि भवन्ति । तानि
परस्परांशै: मिलितानि भूत्वा स्थूलानि च स्थूलशरीरहेतव: (भवन्ति)
तात्पर्यम्
आकाश:-मरुत्-अग्नि:-जलम्-पृथिवी सूक्ष्माणि भूतानि भवन्ति । तानि
परस्पर-अंशै: मिलितानि पञ्चीकरणं भूत्वा स्थूलानि च स्थूलशरीरहेतव: च भवन्ति । अस्मिन् विषये अधिकविवरणं नवाशीति: (८९) श्लोके भविष्यति ।
व्याकरणम्
सन्धि:
परस्परांशै: + मिलितानि - विसर्गरेफ:
Shloka No 76
मूलश्लोक:
मात्रास्तदीया विषया भवन्ति शब्दादय: पंच सुखाय भोक्तु: ॥७६॥
पदविभाग:
मात्रा: तदीया: विषया: भवन्ति शब्दादय: पंच सुखाय भोक्तु:
पदार्थ:
मात्रा: - मात्रा:
तदीया: - आकाशादिभूतसम्बन्धिन्य: विषया: - विषया:
भवन्ति - सन्ति
शब्दादय:-शब्दादय:
पंच -पञ्च
सुखाय - अनित्यसुखाय
भोक्तु: - संसारिण: जीवस्य
अन्वय:
तदीया: मात्रा: शब्दादय: पञ्च विषया: भोक्तु: सुखाय भवन्ति ।
तात्पर्यम्
आकाशादिभूतसम्बन्धिन्य: मात्रा: शब्दादय: पञ्च विषया: भोक्तु: अनित्यसुखाय भवन्ति ।
व्याकरणम्
सन्धि:
मात्रा: + तदीया: - विसर्गसकार:
तदीया: + विषया: - विसर्गलोप:
विषया: + भवन्ति - विसर्गलोप:
Shloka No 77
मूलश्लोक:
य एषु मूढा विषयेषु बद्धा रागोरुपाशेन सुदुर्दमेन ।
आयान्ति निर्यान्त्यध ऊर्ध्वमुच्चै: स्वकर्मदूतेन जवेन नीता: ॥७७॥
पदविभाग:
ये एषु मूढा: विषयेषु बद्धा: रागोरुपाशेन सुदुर्दमेन
आयान्ति निर्यान्ति अध: ऊर्ध्वम् उच्चै: स्वकर्मदूतेन जवेन नीता:
पदार्थ:
मूढा: - विवेकशून्या:
विषयेषु - शब्दादिषु
बद्धा: - युक्ता:
रागोरुपाशेन - राग-उरु-पाशेन
सुदुर्दमेन - अतिदु:खेन दमयितुं शक्येन
आयान्ति - आगच्छन्ति
निर्यान्ति - गच्छन्ति
अध: - क्षीणस्थानम्
ऊर्ध्वम् - श्रेष्ठम्
उच्चै: - उच्चै:
स्वकर्मदूतेन - स्वकर्मदूतेन
जवेन - वेगेन
नीता: - नीता:
अन्वय:
ये एषु विषयेषु मूढा: सुदुर्दमेन रागोरुपाशेन बद्धा: (ते) स्वकर्नदूतेन
अध: ऊर्ध्वम् उच्चै: जवेन नीता: आयान्ति निर्यान्ति (च) ।
तात्पर्यम्
ये विवेकशून्या: एषु शब्दादिषु अतिदु:खेन दमयितुं शक्येन
राग-दृढ-पाशेन बद्धा: ते स्वकर्मदूतेन अध: ऊर्ध्वम् उच्चै: वेगेन नीता: आयान्ति निर्यान्ति च ।
व्याकरणम्
सन्धि:
ये + एषु - यान्तवान्तादेशसन्धि:
मूढा: + विषयेषु - विसर्गलोप:
बद्धा: +रागोरुपाशेन - विसर्गलोप:
निर्यान्ति + अध: - यण्सन्धि:
Shloka No 78
मूलश्लोक:
शब्दादिभि: पंचभिरेव पंच पंचत्वमापु: स्वगुणेन बद्धा: ।
कुरंगमातंगपतंगमीनभृंगा नर: पंचभिरंचित: किम् ॥७८॥
पदविभाग:
शब्दादिभि: पंचभि: एव पंच पंचत्वम् आपु: स्वगुणेन बद्धा:
कुरंगमातंगपतंगमीनभृंगा: नर: पंचभि: अंचित: किम्
पदार्थ:
शब्दादिभि: - शब्द-आदिभि:
पंचभि: -पंचभि:
पंच - पञ्च
पंचत्वम् - मृत्युहेतुत्वम्
आपु: - प्राप्नुवन्त:
स्वगुणेन - स्वगुणेन
बद्धा: - बद्धा:
कुरंगमातंगपतंगमीनभृंगा: -
हरिण:-गज:-शलभ:-मत्स्य:-भ्रमरा:
नर: - मनुष्य:
पंचभि: - पञ्चभि:
अंचित: - युक्त:
अन्वय:
पंचभि: शब्दादिभि: स्वगुणेन एव बद्धा: पंच (प्राणिन:) कुरंग-मातंग-पतंग-मीन-भृंगा: पंचत्वम् आपु: । पंचभि: अंचित: नर: किम् (भविष्यति) ?
तात्पर्यम्
पंचभि: शब्दादिभि: स्वगुणेन एव बद्धा: पंच प्राणिन: हरिण:-गज:-शलभ:-मत्स्य:-भ्रमरा: मरणत्वम् प्राप्नुवन्ति । पंचभि: युक्त: नर: अपि मरणत्वम् एव प्राप्नोति । अत्र सन्देह: नास्ति इति आचार्य: वदति ।
व्याकरणम्
सन्धि:
पंचभि: + एव - विसर्गरेफ:
कुरंगमातंगपतंगमीनभृंगा: + नर:- विसर्गलोप:
पंचभि: + अंचित:- विसर्गरेफ:
Shloka No 79
मूलश्लोक:
दोषेण तीव्रो विषय: कृष्णसर्पविषादपि ।
विषं निहन्ति भोक्तारं द्रष्टारं चक्षुषाप्ययम् ॥७९॥
पदविभाग:
दोषेण तीव्र: विषय: कृष्णसर्पविषात् अपि विषं निहन्ति भोक्तारं द्रष्टारं चक्षुषा अपि अयम्
पदार्थ:
दोषेण - दोषेण
तीव्र: - तीक्ष्ण:
विषय: -रूपादि: विषया:
कृष्णसर्पविषात् - कृष्णसर्प-विषात्
विषं - विषम्
निहन्ति - हन्ति
भोक्तारं - विषयभोक्तारम्
द्रष्टारं - द्रष्टारम्
चक्षुषा - नेत्रेण
अन्वय:
विषय: कृष्णसर्पविषात् अपि दोषेण तीव्र: विषं भोक्तारं निहन्ति ।
अयं (विषय:) चक्षुषा द्रष्टारं अपि (निहन्ति) ।
तात्पर्यम्
विषय: कृष्णसर्पविषात् अपि दोषेण तीक्ष्ण: । विषं भोक्तारं निहन्ति ।
परन्तु अयं विषय: चक्षुषा द्रष्टारं अपि निहन्ति।
व्याकरणम्
सन्धि:
तीव्र: + विषय: - विसर्गउकार:
कृष्णसर्पविषात् + अपि - जश्त्वसन्धि:
चक्षुषा + अपि - सवर्णदीर्घसन्धि:
अपि + अयम् - यण्सन्धि;
Shloka No 80
मूलश्लोक:
विषयाशामहापाशाद्यो विमुक्त: सुदुस्त्यजात् ।
स एव कल्पते मुक्त्यै नान्य: षट्छास्त्रवेद्यपि ॥८०॥
पदविभाग:
विषयाशामहापाशात् य: विमुक्त: सुदुस्त्यजात् स: एव कल्पते मुक्त्यै न अन्य: षट्छास्त्रवेदि अपि
पदार्थ:
विषयाशामहापाशात् - विषय-आशा- महापाशात्
य: - य: पुरुष:
विमुक्त: - विशेषेण मुक्त:
सुदुस्त्यजात् - चिरकालादभ्यस्तत्वेन स: - स: पुरुष:
कल्पते - समर्थ: भवति
मुक्त्यै - मुक्त्यै
अन्य: - इतर:
षट्छास्त्रवेदी -षट्-शास्त्रवेदी
अन्वय:
य: सुदुस्त्यजात् विषयाशामहापाशात् विमुक्त: स: एव मुक्त्यै कल्पते ।
षट्छास्त्रवेदी अपि न अन्य: ( मुक्त्यै कल्पते )।
तात्पर्यम्
य: पुरुष: सुदुस्त्यजात् विषय-आशा-महापाशात् विमुक्त: स: एव मुक्त्यै समर्थ: भवति । षट्छास्त्रवेदी अपि न अन्य: मुक्त्यै कल्पते ।
व्याकरणम्
सन्धि:
विषयाशामहापाशात् + य: - जश्त्वसन्धि:
य: + विमुक्त: - विसर्गउकार:
स: + एव - विसर्गलोप:
न + अन्य: - सवर्णदीर्घसन्धि:
षट्छास्त्रवेदी + अपि - यण्सन्धि:
नमो नम: श्रीगुरुपादुकाभ्याम् ।
~ शरवण:
03.10.2020
No comments:
Post a Comment