॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥
मूलश्लोक:
एतयोर्मन्दता यत्र विरक्तत्वमुमुक्षयो: ।
मरौ सलिलवत्तत्र शमादेर्भानमात्रता ।३१॥
पदविभाग:
एतयो: मन्दता यत्र विरक्तत्वमुमुक्षयो:
मरौ सलिलवत् तत्र शमादे: भानमात्रता
पदार्थ:
एतयो: - विरक्तत्वमुमुक्षयो:
मन्दता - मन्दता
यत्र - यस्मिन्पुरुषे
विरक्तत्वमुमुक्षयो: - विरक्तत्व-मुमुक्षयो:
मरौ - मरुभूमौ
सलिलवत् - जलवत्
तत्र -तस्मिन् पुरुषे
शमादे: - शमादे:
भानमात्रता - भानमात्रता
अन्वय:
विरक्तत्वमुमुक्षयो: एतयो: मन्दता यत्र (अस्ति) तत्र मरौ सलिलवत् शमादे: भानमात्रता (एव)।
तात्पर्यम्
वैराग्यम् मुमुक्षुत्वम् एतयो: मन्दता यत्र (अस्ति) तत्र मरुभूमौ जलवत् शमादे: भानमात्रता एव अस्ति।
व्याकरणम्
सन्धि:
एतयो: + मन्दता - विसर्गरेफ:
शमादे: + भानमात्रता- विसर्गरेफ:
मूलश्लोक:
मोक्षकारणसामग्रयां भक्तिरेव गरीयसी ।
स्वस्वरूपानुसंधानं भक्तिरित्यभिधीयते ॥३२॥
पदविभाग:
मोक्षकारणसामग्रयां भक्ति: एव गरीयसी स्वस्वरूपानुसंधानं भक्ति: इति अभिधीयते
पदार्थ:
मोक्षकारणसामग्रयां - मोक्षहेतुत्वसाधनेषु
भक्ति: - भक्ति:
एव - एव
गरीयसी - श्रेष्ठा
स्वस्वरूपानुसंधानं - निदिध्यासनम्
भक्ति: - भक्ति:
इति -इति
अभिधीयते - कथ्यते
अन्वय:
मोक्षकारणसामग्रयां भक्ति: एव गरीयसी । स्वस्वरूपानुसंधानं भक्ति: इति अभिधीयते ।
तात्पर्यम्
अस्मिन् श्लोके भगवान् श्री आदिशंकराचार्य: भक्ति: पदस्य निर्वचनं वदति मोक्षसाधनसमुदायमध्ये भक्ति: एव गरीयसी । स्वस्वरूपानुसंधानं भक्ति: इति अभिधीयते ।
व्याकरणम्
सन्धि:
भक्ति: + एव - विसर्गरेफ:
भक्ति: + इति - विसर्गरेफ:
इति + अभिधीयते - यण्सन्धि:
मूलश्लोक:
स्वात्मतत्त्वानुसंधानं भक्तिरित्यपरे जगु: ।
उक्तसाधनसम्पन्नस्तत्त्वजिज्ञा सुरात्मन: ॥३३॥
उपसीदेद्गुरुं प्राज्ञं यस्माद्बन्धविमोक्षणम् ।
पदविभाग:
स्वात्मतत्त्वानुसंधानं भक्ति: इति अपरे जगु: उक्तसाधनसम्पन्न: तत्त्वजिज्ञासु: आत्मन: उपसीदेत् गुरुं प्राज्ञं यस्मात् बन्धविमोक्षणम्
पदार्थ:
स्वात्मतत्त्वानुसंधानं - स्वस्य जीवस्य तत्त्वविचार अनुसंधानम्
भक्ति: - भक्ति:
इति - एवम्
अपरे - अन्ये
जगु: - वदन्ति
उक्तसाधनसम्पन्न: - पूर्वोक्त-विचारसाधनयुक्त:
तत्त्वजिज्ञासु: - तत्त्वं ज्ञातुमिच्छु:
आत्मन: - स्वस्य
उपसीदेत् - शरणं गच्छेत्
गुरुं - सद्गुरुम
प्राज्ञं - ब्रह्मसाक्षात्कारम्
यस्मात् - यादृशगुरो: सकाशात्
बन्धविमोक्षणम् - बन्धविमोक्षणम्
अन्वय:
स्वात्मतत्त्वानुसंधानं भक्ति: इति अपरे जगु: । उक्तसाधनसम्पन्न: आत्मन: तत्त्वजिज्ञासु: यस्मात् बन्धविमोक्षणम् (भवति) प्राज्ञं गुरुं उपसीदेत् ।
तात्पर्यम्
स्वस्य जीवस्य तत्त्वविचारमेव भक्ति: इति अन्ये आहु: । पूर्वोक्त-विचारसाधनयुक्त: आत्मन: तत्त्वं ज्ञातुमिच्छु: यादृशगुरो: सकाशात् संसारबन्धविमोक्षणम् भवति तादृशब्रह्मसाक्षात्कारप्राप् तगुरुं शरणं गच्छेत्।
व्याकरणम्
सन्धि:
भक्ति: + इति - विसर्गरेफ:
इति + अपरे - यण्सन्धि:.
उक्तसाधनसम्पन्न: + तत्त्वजिज्ञासु:- विसर्गसकार:
तत्त्वजिज्ञासु: + आत्मन: - विसर्गरेफ:
उपसीदेत् + गुरुं - जश्त्वसन्धि:
यस्मात् + बन्धविमोक्षणम् - जश्त्वसन्धि:
मूलश्लोक:
श्रोत्रियोsवृजुनोकामहतो यो ब्रह्मचित्तम: ॥३૪ ॥
ब्रह्मण्युपरत: शान्तो निरिन्धन इवानल: ।
अहेतुजदयासिन्धुर्बन्धुरानमतां सताम् ॥३५।
पदविभाग:
श्रोत्रिय: अवृजिन: अकामहत: य: ब्रह्मचित्तम: ब्रह्मणि उपरत: शान्त: निरिन्धन इव अनल: अहेतुकदयासिन्धु: बन्धु: आनमतां सताम्
पदार्थ:
श्रोत्रिय: - वेदज्ञ:
अवृजिन: - निष्पाप:
अकामहत: - अभासितस्वस्वरूप:
य: - य:
ब्रह्मचित्तम: - ब्रह्मज्ञानिनां श्रेष्ठ:
ब्रह्मणि - ब्रह्मनिष्ठायाम्
उपरत: -उपरत:
शान्त: - शान्तस्वरूप:
निरिन्धन इव अनल: -विलीनमनस्क: अहेतुकदयासिन्धु: - करुणासिन्धु: बन्धु: - दु:खकारक:
आनमतां - आनमतां
सताम् - सज्जनान्
अन्वय:
य: श्रोत्रिय: अवृजिन: अकामहत: ब्रह्मचित्तम: ब्रह्मणि उपरत: निरिन्धन इव अनल: शान्त: अहेतुकदयासिन्धु: आनमतां सताम् बन्धु: (स: एव गुरु:) ।
तात्पर्यम्
भगवान् श्री आदिशंकराचार्य: अस्मिन् श्लोके गुरुलक्षणम् वदति । य: वेदवेदान्तशास्त्रज्ञ: पापरहित: कामवर्जित: ब्रह्मज्ञानिनां श्रेष्ठ: ब्रह्मणि उपरत: निरिन्धन इव अनल: विलीनमनस्क: शान्तस्वरूप: अहेतुककरुणासिन्धु: आनमतां सताम् बन्धु: भवति स: एव गुरु: ।
व्याकरणम्
सन्धि:
श्रोत्रिय: + अवृजुन: - विसर्गउकार: पूर्वरूपसन्धि:
अवृजिन: + अकामहतो - विसर्गउकार: पूर्वरूपसन्धि:
य: + ब्रह्मचित्तम: - विसर्गउकार:
ब्रह्मणि + उपरत: - यण्सन्धि:
उपरत: + शान्त: - विसर्गसकार:
शान्त: + निरिन्धन - विसर्गउकार:
इव + अनल: - सवर्णदीर्घसन्धि:
अहेतुजदयासिन्धु: + बन्धु: - विसर्गरेफ:
बन्धु:+ आनमतां - विसर्गरेफ:
मूलश्लोक:
तमाराध्य गुरुं भक्त्या प्रह्व: प्रश्रयसेवनै: ।
प्रसन्नं तमनुप्राप्य पृच्छेज्ज्ञातव्यमात्मन: ॥ ३६॥
पदविभाग:
तम् आराध्य गुरुं भक्त्या प्रह्व: प्रश्रयसेवनै: प्रसन्नं तम् अनुप्राप्य पृच्छेत् ज्ञातव्यम् आत्मन:
पदार्थ:
तम् - तम् गुरुम्
आराध्य - संसेव्य
गुरुं - सद्गुरुम्
भक्त्या
प्रह्व: प्रश्रयसेवनै: - मनसा वचसा कायेन सेवां कृत्वा
प्रसन्नं - स्वाभिमुखम्
तम् - तम्
अनुप्राप्य - समीपे गत्वा
पृच्छेत् - पृच्छेत्
ज्ञातव्यम् - अवगन्तव्यम्
आत्मन: - आत्मन:
अन्वय:
(शिष्य:) तम् गुरुं भक्त्या प्रह्व: प्रश्रयसेवनै: आराध्य प्रसन्नं तम् अनुप्राप्य आत्मन:
ज्ञातव्यम् पृच्छेत् ।
तात्पर्यम्
शिष्य: तम् सद्गुरुं भक्त्या मनसा वचसा कायेन नमस्कारं कृत्वा आराध्य प्रसन्नं तम् समीपं गत्वा यत् आत्मन: विषये जिज्ञासितव्यं तत् पृच्छेत् ।भगवान् श्री कृष्ण: अपि भगवद्गीतायां
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया । इति उक्तवान् ।
व्याकरणम्
सन्धि:
पृच्छेत् + ज्ञातव्यम् - श्चुत्वसन्धि: जश्त्वसन्धि:
मूलश्लोक:
स्वामिन्नमस्ते नतलोकबन्धो कारुण्यसिन्धो पतितं भवाब्धौ।
मामुद्धरात्मीयकटाक्षदृष्ट्या ऋज्व्यातिकारुण्यसुधाभिवृष्ट्या ॥३७॥
पदविभाग:
स्वामिन् नमस्ते नतलोकबन्धो कारुण्यसिन्धो पतितं भवाब्धौ
माम् उद्धर आत्मीयकटाक्षदृष्ट्या ऋज्व्या अतिकारुण्यसुधाभिवृष्ट्या ॥
पदार्थ:
स्वामिन् - हे भगवन्
नमस्ते - ते नमस्कार:
नतलोकबन्धो - नतानां जनानां वन्धु:
कारुण्यसिन्धो - हे अहेरुक दयासिन्धो
पतितं - पतितम्
भवाब्धौ - भवसागरे
माम् - माम्
उद्धर - जन्मादि बन्धनिर्मुक्तं कुर्वित
आत्मीयकटाक्षदृष्ट्या - तव कटाक्षदृष्ट्या
ऋज्व्या - स्वभावसरलया
अतिकारुण्यसुधाभिवृष्ट्या - अतिकारुण्यसुधाभिवृष्ट्या
अन्वय:
हे स्वामिन् ! हे नतलोकबन्धो ! हे कारुण्यसिन्धो ! ते (तुभ्यम्) नम: (अस्तु) । भवाब्धौ पतितं माम् ऋज्व्या अतिकारुण्यसुधाभिवृष्ट्या आत्मीयकटाक्षदृष्ट्या उद्धर ।
तात्पर्यम्
अस्मिन् श्लोके भगवान् श्री आदिशंकराचार्य: अचार्य: कथं प्रार्थनीय: इति वदति । शिष्य: गरो: समीपं गत्वा हे स्वामिन् ! हे नतलोकबन्धो ! हे कारुण्यसिन्धो ! तुभ्यं मम नमस्कार: अस्तु । सम्सारसागरे पतितं माम् अतिकारुण्यसुधाभिवृष्ट्या सरलतया तव कटाक्षदृष्ट्या उद्धर ।
व्याकरणम्
सन्धि:
स्वामिन् + नमस्ते - अनुनासिकासन्धि:
उद्धर + आत्मीयकटाक्षदृष्ट्या - सवर्णदीर्घसन्धि:
ऋज्व्या + अतिकारुण्यसुधाभिवृष्ट्या - सवर्णदीर्घसन्धि:
मूलश्लोक:
दुर्वारसंसारदवाग्नितप्तं दोधूयमानं दुरदृष्टवातै: ।
भीतं प्रपन्नं परिपाहि मृत्यो: शरण्यमन्यंयदहं न जाने ॥ ३८॥
पदविभाग:
दुर्वारसंसारदवाग्नितप्तं दोधूयमानं दुरदृष्टवातै: भीतं प्रपन्नं परिपाहि मृत्यो: शरण्यम् अन्यं यत् अहं न जाने
पदार्थ:
दुर्वारसंसारदवाग्नितप्तं -दुर्वार-संसारदवाग्निना दग्धम्
दोधूयमानं - मुहुर्मुहु: कम्प्यमानम्
दुरदृष्टवातै: - दुरदृष्टपवनै:
भीतं - मृत्यो: भीतम्
प्रपन्नं - शरणागतम्
परिपाहि - परिपाहि
मृत्यो: - मरणात्
शरण्यम् - शरण्यम्
अन्यं - इतरस्थलम्
यत् - यत्
अहं - अहम्
न - न
जाने - जानामि
अन्वय:
दुर्वार-संसार-दवाग्नि-तप्तं दुरदृष्टवातै: दोधूयमानं भीतं प्रपन्नं अन्यं शरण्यम्
यत् अहं न जाने मृत्यो: परिपाहि ।
तात्पर्यम्
शिष्य: प्रसन्नं गुरुसमीपं गत्वा संसारसागरे निमग्नस्य स्वस्य उद्धरणार्थं प्रार्थितवान् । हे गुरु ! दुर्वार संसार दवाग्निना दग्धमिव अहमस्मि ।दुरदृष्टवातै: मुहुर्मुहु: कम्प्यमानेन भीत्या अनन्यं शरण्यं भवन्तं प्रपन्नं मां कृपया मृत्यो: परिपाहि ।
व्याकरणम्
सन्धि:
यत् + अहं - जश्त्वसन्धि:
मूलश्लोक:
शान्ता महान्तो निवसन्ति सन्तो वसन्तवल्लोकहितं चरन्त: ।
तीर्णा: स्वयं भीमभवार्णवं जना नहेतुनान्यानपि तारयन्त: ॥३९॥
पदविभाग:
शान्ता: महान्त: निवसन्ति सन्त: वसन्तवत् लोकहितं चरन्त:
तीर्णा: स्वयं भीमभवार्णवं जनान् अहेतुना अन्यान् अपि तारयन्त:
पदार्थ:
शान्ता: - शान्ता:
महान्त: - निर्विकारमनस्का:
निवसन्ति - लोके वसन्ति
सन्त: - अपरिच्छिन्नब्रह्मसाक्षात्का रवन्त:
वसन्तवत् - वसन्तकाल: इव
लोकहितं - लोकहितं
चरन्त: - कुर्वाण:
तीर्णा: - असंसारिण:
स्वयं - स्वयम्
भीमभवार्णवं - घोरसंसारसागरम्
जनान् - नरान्
अहेतुना - हेतुं विना
अन्यान् - इतरान्
अपि - अपि
तारयन्त: -तारयन्त:
अन्वय:
शान्ता: महान्त: वसन्तवत् लोकहितं चरन्त: भीमभवार्णवं स्वयं तीर्णा: अन्यान् जनान् अहेतुना तारयन्त:
सन्त: निवसन्ति ।
तात्पर्यम्
शान्ता: निर्विकारमनस्का: वसन्तवत् लोकहितं चरन्त: घोरसंसारसागरं स्वयं तीर्णा: अन्यान् जनान् अपिअहेतुना तारयन्त: सन्त: अत्र निवसन्ति ।
व्याकरणम्
सन्धि:
शान्ता: + महान्त: - विसर्गलोप:
महन्त: + निवसन्ति - विसर्गउकार:
सन्त: + वसन्तवत् - विसर्गउकार:
वसन्तवत् +लोकहितं - परसवर्णसन्धि:
अहेतुना + अन्यान् - सवर्णदीर्घसन्धि:
मूलश्लोक:
अयं स्वभावस्स्वत एव यत्परश्रमापनिदप्रवणं महात्मानम् ।
सुधांशुरेष स्वयमर्ककर्कशप्रभाभितप्तामवति क्षितिं किल ॥ ૪०॥
पदविभाग:
अयं स्वभाव: स्वत: एव यत्परश्रमापनिदप्रवणं महात्मानम्
सुधांशु: एष: स्वयम् अर्ककर्कशप्रभाभितप्ताम् अवति क्षितिं किल
पदार्थ:
अयं - अयम्
स्वभाव: - स्वभाव:
स्वत: एव - स्वयमेव
परश्रमापनिदप्रवणं - परान् दु:खं परिहर्तुं प्रयत्न:
महात्मानम् - सत्पुरुषानाम्
सुधांशु: - चन्द्र:
स्वयम् - स्वयम्
अर्ककर्कशप्रभाभितप्ताम् - सूर्यस्य प्रकाशेन तप्तम्
अवति - रक्षति
क्षितिं - भूमिम्
किल - खलु
अन्वय:
महात्मानम् स्वत: एव परश्रमापनिदप्रवणं यत् (अस्ति) अयं स्वभाव: अर्ककर्कशप्रभाभितप्ताम् क्षितिं एष: सुधांशु: स्वयम् अवति किल ?
तात्पर्यम्
सत्पुरुषा: स्वयमेव पराजनदु:खान् परिहर्तुं प्रयत्नं कुर्वन्ति ।अयं तेषां स्वभाव: । सूर्यस्य तीक्ष्णप्रकाशेन तप्तां भूमिं एष: अमृतकिरणचन्द्र: स्वयमेव रक्षति किल ? ।
व्याकरणम्
सन्धि:
स्वभाव: + स्वत: - विसर्गसकार:
स्वत: + एव - विसर्गलोप:
सुधांशु: + एष: -विसर्गरेफ:
नमो नम: श्रीगुरुपादुकाभ्याम् ।
~ शरवण:
No comments:
Post a Comment