श्रीमद्शङ्करभगवत्पादविरचिता विवेकचूडामणि:
मूलश्लोक:
मङ्गलाचरणम्
सर्ववेदान्तसिद्धान्तगोचरं तमगोचरम् ।
गोविन्दं परमानन्दं सद्गुरुं प्रणतोsस्म्यहम् ॥
पदविभाग:
सर्ववेदान्तसिद्धान्तगोचरं तम् अगोचरम् गोविन्दं परमानन्दं सद्गुरुं प्रणत: अस्मि अहम्
पदार्थ:
सर्ववेदान्तसिद्धान्तगोचरं - सर्ववेदान्तसिद्धान्तवाक्येषु शुद्धबुद्ध्या ज्ञातम्
अगोचरम् - बुद्धिग्राह्यमतीन्द्रियम्
गोविन्दं - श्री गोविन्दभगवद्पादम्
परमानन्दं - परमानन्दस्वरूपम्
सद्गुरुं - सद्गुरुम्
प्रणत: - नत:
अस्मि - अस्मि
अहम् - अहम्
अन्वय:
अहं सर्ववेदान्तसिद्धान्तगोचरम् अगोचरं परमानन्दं सद्गुरुं तं गोविन्दं प्रणतः अस्मि |
तात्पर्यम्
अयं श्लोक: विवेकचूडामण्या: मङ्गलाचरणश्लोक: । अस्मिन् श्लोके श्रीशङ्कर: तस्य गुरुं नमस्कृत्य ग्रन्थं आरम्भं करोति । प्रकरणग्रन्थेषु प्रथमं विवेकचूडामणि: ग्रन्थस्य रचनां श्रीशङ्कर: कृतवान् इति पण्डिता: अभिप्रयन्ति । अस्मिन् श्लोके स: तस्य गुरो: महत्वम् उक्तवा अनमत् । बुद्धिग्राह्यमतीन्द्रियं सर्ववेदान्तसिद्धान्तवाक्येषु शुद्धधिया ज्ञातं परमानन्दस्वरूपं सद्गुरुं श्री गोविन्दभगवद्पादं अहं प्रकर्षेण नत: अस्मि ।
गोविन्दपदेन स: श्रीविष्णुं नमस्करोति इत्यपि सिद्धम् । एतेन पदेन गुरु-देव-वन्दनम् भवति ।
व्याकरणम्
▶ सन्धि:
प्रणत: + अस्मि - विसर्गउकार: पूर्वरूपसन्धि:
अस्मि + अहम् - यण्सन्धि:
▶ कृदन्ता:
प्रणत: - प्र + नम् + क्त प्रत्यय:
Shloka : 2
मूलश्लोक:
जन्तूनां नरजन्मदुर्लभमतः पुंस्त्वं ततो विप्रता तस्माद्वैदिकधर्ममार्गपरता विद्वत्वमस्मात् परम्।
आत्मानात्मविवेचनं स्वनुभवो ब्रह्मात्मनासंस्थितिः मुक्तिर्नो शतकोटिजन्मसु कृतैः पुण्यैर्विना लभ्यते॥२॥
पदविभाग:
जन्तूनां नरजन्म दुर्लभम् अतः पुंस्त्वं तत: विप्रता तस्मात् वैदिकधर्ममार्गपरता विद्वत्वम् अस्मात् परम् आत्मानात्मविवेचनं स्वनुभव: ब्रह्मात्मनासंस्थितिः मुक्ति: न शतकोटिजन्मसु कृतैः पुण्यै: विना लभ्यते
पदार्थ:
जन्तूनां - प्राणिनाम्
नरजन्म - मनुष्यजन्म
दुर्लभम् - दुर्लभम्
पुंस्त्वं -पुंस्त्वम्
विप्रता - ब्राह्मणजन्म
वैदिकधर्ममार्गपरता - वैदिकधर्मानुष्ठानम्
विद्वत्वम् - वेदान्तवाक्य श्रवणजन्य परोक्षज्ञानत्वम्
परम् - श्रेष्ठम्
आत्मानात्मविवेचनं - आत्मानात्मा भेद बुद्धि:
स्वनुभव: - साक्षात्कारानुभवम्
ब्रह्मात्मनासंस्थितिः - ब्रह्मात्मनासंस्थितिः
मुक्ति: - मुक्ति:
शतकोटिजन्मसु कृतैः- शतकोटिजन्मसु कृतैः
पुण्यै: - पुण्यै:
विना - विना
लभ्यते - प्राप्यते
अन्वय:
जन्तूनां नरजन्म (दुर्लभम्) । अतः पुंस्त्वं (दुर्लभम्) । ततः विप्रता तस्मात् वैदिकधर्ममार्गपरता दुर्लभम्। अस्मात् परम् विद्वत्वं आत्मानात्मविवेचनं स्वनुभवः ब्रह्मात्मना संस्थितिः मुक्तिः शतकोटिजन्मसु कृतैः पुण्यैः विना न लभ्यते |
तात्पर्यम्
अस्मिन् श्लोके भगवान् आदिशंकराचार्य: मनुष्यजन्म कथं दुर्लभमिति कथयति । प्राणिनां नरजन्मप्राप्ति: दुर्लभा । तत्रापि पुंस्त्वं अतिदुर्लभम् । तस्मादपि ब्राह्मणत्वं दुर्लभम् । अनन्तरं वैदिकमार्गगमनं तत्रापि दुर्लभम् । शास्त्रग्रन्थेषु विद्वत्वं अतिदुर्लभम् । आत्मानात्म विवेक: सम्पादनीय: स्वनुभव: अवश्यक:। ब्रह्मात्मना संस्थिति: प्राप्तव्या । एतत् सर्वं सम्पाद्य एकेन मनुष्येन शतकोटिजन्मसु कृतैः पुण्यैः विना मुक्ति: न प्राप्यते।
व्याकरणम्
▶ सन्धि:
तत: + विप्रता - विसर्गउकार:.
तस्मात् + वैदिकधर्ममार्गपरता - जश्त्वसन्धि:
स्वनुभव: + ब्रह्मात्मनासंस्थितिः - विसर्गउकार:
मुक्ति: + न - विसर्गरेफ:
न + शतकोटिजन्मसु - विसर्गउकार:
पुण्यै: + विना - विसर्गरेफ:
Shloka No : 3
मूलश्लोक:
दुर्लभं त्रयमेवैतत् देवानुग्रहहेतुकम् ।
मनुष्यत्वं मुमुक्षुत्वं महापुरुषसंश्रय: ॥३॥
पदविभाग:
दुर्लभं त्रयम् एव एतत् देवानुग्रहहेतुकम्
मनुष्यत्वं मुमुक्षुत्वं महापुरुषसंश्रय:
पदार्थ:
दुर्लभं - बहुजन्मार्जितसुकृतविशेषप्राप् यम्
त्रयम् - त्रयम्
देवानुग्रहहेतुकम् - देवानुग्रह कारणम्
मनुष्यत्वं - मनुष्यत्वं
मुमुक्षुत्वं - मुमुक्षुत्वं
महापुरुषसंश्रय: - सत्पुरुषसंश्रय:
अन्वय:
मनुष्यत्वं मुमुक्षुत्वं महापुरुषसंश्रय: एतत् त्रयं दुर्लभं एव । देवानुग्रहहेतुकम् ।
तात्पर्यम्
अस्मिन् श्लोके भगवान् आदिशंकराचार्य: इत्थं स्व अभिप्रायां प्रकटयति । मनुष्यत्वं मुमुक्षुत्वं महापुरुषसंश्रय: एतत् त्रयं अपि अतिदुर्लभम् इति । केवलं देवानुग्रहवसात् एव एतत् त्रयं अपि लभ्यते इति वदति ।
व्याकरणम्
▶ सन्धि:
एव + एतत् - वृद्धिसन्धि:
Shloka No : 4
मूलश्लोक:
लब्ध्वा कथंचित् नरजन्म दुर्लभं तत्रापि पुंस्त्वं श्रुतिपारदर्शनम् ।
यस्सवात्ममुक्त्यै न यतेत मूढधी: स आत्महा स्वं विनिहन्त्यसद्ग्रहात् ॥૪॥
पदविभाग:
लब्ध्वा कथंचित् नरजन्म दुर्लभं तत्र अपि पुंस्त्वं श्रुतिपारदर्शनम्
य: स्वात्ममुक्त्यै न यतेत मूढधी: स: आत्महा स्वं विनिहन्ति असद्ग्रहात्
पदार्थ:
लब्ध्वा -प्राप्य
नरजन्म - मनुष्यजन्म
दुर्लभं - अतिदुर्लभम्
पुंस्त्वं -पुरुषत्वम्
श्रुतिपारदर्शनम् - वेदपारदर्शनम्
स्वात्ममुक्त्यै - स्वस्य- आत्ममुक्त्यै
न यतेत - न प्रयत्नं करोति
मूढधी: - मूढधी:
आत्महा -आत्महा
स्वं - स्वम्
विनिहन्ति - सम्यक् हन्ति
असद्ग्रहात् - असत् इति मत्वा
अन्वय:
कथंचित् दुर्लभं नरजन्म लब्ध्वा तत्र अपि पुंस्त्वं श्रुतिपारदर्शनम् (प्राप्य)
य: मूढधी: स्वात्ममुक्त्यै न यतेत स: आत्महा (भवति) । स्वं असद्ग्रहात् विनिहन्ति ।
तात्पर्यम्
अस्मिन् श्लोके अपि भगवान् आदिशंकराचार्य: मनुष्यजन्मप्रशंसाम् एव वदति । कथंचित् दुर्लभं नरजन्म लब्ध्वा तत्रापि पुंस्त्वं श्रुतिपारदर्शनम् च प्राप्य य: मूढधी: स्वात्ममुक्त्यर्थं न प्रयत्नं करोति स: आत्महा भवति । स: असद्ग्रहात् अनात्म-अभिमानात् स्वं विनिहन्ति ।
व्याकरणम्
▶सन्धि:
तत्र + अपि - सवर्णदीर्घसन्धि:
स: + आत्महा - विसर्गलोप:
य: + स्वात्ममुक्त्यै - विसर्गसकार:
विनिहन्ति + असत्ग्रहात् - यण्सन्धि:
Shloka No: 5
मूलश्लोक:
इत: को न्वस्ति मूढात्मा यस्तु स्वार्थे प्रमाद्यति ।
दुर्लभं मानुषं देहं प्राप्य तत्रापि पौरुषम् ॥५॥
पदविभाग:
इत: क: नु अस्ति मूढात्मा य: तु स्वार्थे प्रमाद्यति दुर्लभं मानुषं देहं प्राप्य तत्र अपि पौरुषम्
पदार्थ:
अस्ति - भवति
मूढात्मा - मूढ:
स्वार्थे - स्वस्य विषये
प्रमाद्यति - प्रमाद्यति
दुर्लभं - अतिदुर्लभम्
मानुषं - पुरुषम्
देहं - शरीरम्
प्राप्य - लब्ध्वा
पौरुषम् - पुरुषत्वम्
अन्वय:
दुर्लभं मानुषं देहं प्राप्य तत्र अपि पौरुषम् (प्राप्य) य: तु स्वार्थे प्रमाद्यति
इत: मूढात्मा क: नु अस्ति ?।
तात्पर्यम्
अस्मिन् श्लोके भगवान् आदिशंकराचार्य: इत्थं वदति । मानुषं देहं अतिदुर्लभम् । तत् प्राप्य पौरुषम् बहुदुर्लभम् । तदपि प्राप्य य: नर: स्वार्थे प्रमाद्यति इत: मूढात्मा क: नु अस्ति ?।
व्याकरणम्
▶ सन्धि:
क: + नु - विसर्गउकार:
नु+ अस्ति - यण्सन्धि:
य: + तु - विसर्गसकार:
तत्र + अपि - सवर्णदीर्घसन्धि:
▶ कृदन्ता:
प्राप्य - प्र + आप् + ल्यप् प्रत्यय:
Shloka No 6
मूलश्लोक:
पठन्तु शास्त्राणि यजन्तु देवान् कुर्वन्तु कर्माणि भजन्तु देवता:।
आत्मैक्यबोधेन विना विमुक्ति: न सिध्यति ब्रह्मशतान्तरेsपि ॥६ ॥
पदविभाग:
पठन्तु शास्त्राणि यजन्तु देवान् कुर्वन्तु कर्माणि भजन्तु देवता:
आत्मैक्यबोधेन विना विमुक्ति: न सिध्यति ब्रह्मशत-अन्तरे अपि
पदार्थ:
पठन्तु - वदन्तु
शास्त्राणि - शास्त्राणि
यजन्तु - यागान् कुर्वन्तु
देवान् - सर्वान् देवान्
कुर्वन्तु - कुर्वन्तु
कर्माणि - कर्माणि
भजन्तु - पूजयन्तु
देवता: - देवता:
आत्मैक्यबोधेन -आत्मैक्यबोधेन
विना - विना
विमुक्ति:- मुक्ति:
सिध्यति -प्राप्यते
ब्रह्मशतान्तरे - ब्रह्मण: शतायु: अन्तरे
अन्वय:
(नरा:) शास्त्राणि पठन्तु । देवान् यजन्तु । कर्माणि कुर्वन्तु । देवता: भजन्तु । आत्मैक्यबोधेन विना विमुक्ति: ब्रह्मशतान्तरे अपि न सिध्यति ।
तात्पर्यम्
अस्मिन् श्लोके भगवान् आदिशंकराचार्य: कस्य विमुक्ति: न सिध्यति इति वदति । नरा: अनेकानि शास्त्राणि पठन्तु । अनेकान् देवान् यजन्तु । सर्वाणि कार्याणि कुर्वन्तु । सर्वा: देवता: पूजयन्तु । परन्तु
आत्मैक्यबोध ज्ञानेन विना विमुक्ति: ब्रह्मण: शतायु: अन्तरे अपि न सिध्यति ।
*पाठभेद:* वदन्तु शास्त्राणि*
व्याकरणम्
▶ सन्धि:
ब्रह्मशतान्तरे + अपि - पूर्वरूपसन्धि:
Shloka No 7
मूलश्लोक:
अमृतत्वस्य नाशास्ति वित्तेनेत्येव हि श्रुति: ।
ब्रवीति कर्मणो मुक्ते: अहेतुत्वं स्फुटं यत: ॥०७॥
पदविभाग:
अमृतत्वस्य न आशा अस्ति वित्तेन इति एव हि श्रुति: ब्रवीति कर्मण: मुक्ते: अहेतुत्वं स्फुटं यत:
पदार्थ:
अमृतत्वस्य - मोक्षस्य
आशा - राग:
वित्तेन - धनेन
श्रुति: - वेद:
ब्रवीति - वदति
कर्मण: - कर्मण:
मुक्ते: -मुक्ते:
अहेतुत्वं - अकारणम्
स्फुटं - दृढम्
यत: - यत:
अन्वय:
वित्तेन अमृतत्वस्य न आशा अस्ति इति एव श्रुति: ब्रवीति । यत: कर्मण: मुक्ते: अहेतुत्वं स्फुटं (भवति) । हि (मुक्ते: ज्ञानमेव साधनम् )
तात्पर्यम्
अस्मिन् श्लोके भगवान् आदिशंकराचार्य: मोक्षस्थिति: आत्मन: स्वभावस्थिति: इति कारणात् कर्मणा मोक्ष: असाध्यम् एव इति वदति । यत् धनेन मोक्षस्य आशा न अस्ति इति। तर्हि एतत् स्फष्टं यत् कर्मणा मोक्षप्राप्ति: कदापि न असम्भति इति ।
तैत्तरीय अारन्यके अपि न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशु: । परेण नाकं निहितं गुहायां विभ्राजदे तद्यतयो विशन्ति । एवम् उक्तम् । अत: मुक्ते: ज्ञानमेव साधनम् इति स्फुटम् अस्ति ।
व्याकरणम्
▶ सन्धि:
न + आशा - सवर्णदीर्घसन्धि:
आशा + अस्ति - सवर्णदीर्घसन्धि:
वित्तेन + इति - गुणसन्धि:
इति + एव - यण्सन्धि:
कर्मण: + मुक्ते: - विसर्गउकार:
Shloka No: 8
मूलश्लोक:
अतो विमुक्त्यै प्रयतेत विद्वान् संन्यस्तबाह्यार्थसुखस्पृह: सन् ।
सन्तं महान्तं समुपेत्य देशिकं तेनोपदिष्टार्थसमाहितात्मा ॥८॥
पदविभाग:
अत: विमुक्त्यै प्रयतेत विद्वान् संन्यस्तबाह्यार्थसुखस्पृह: सन्
सन्तं महान्तं समुपेत्य देशिकं तेन उपदिष्टार्थसमाहितात्मा
पदार्थ:
अत: - अत:
विमुक्त्यै - मोक्षाय
प्रयतेत - सम्यक् प्रयत्नं करणीयम्
विद्वान् - नित्यानित्यविवेकी
संन्यस्तबाह्यार्थसुखस्पृह: - बाह्यविषयसुखान् त्यक्त:
सन्तं - ब्रह्मनिष्ठम्
महान्तं - महान्तम्
समुपेत्य - यथाविधि उपसद्य
देशिकं - गुरुम्
तेन - गुरुणा
उपदिष्टार्थसमाहितात्मा - उपदिष्टविषये स्थिरचित्त:
अन्वय:
अत: विद्वान् संन्यस्तबाह्यार्थसुखस्पृह: सन् सन्तं देशिकं महान्तं समुपेत्य तेन उपदिष्टार्थसमाहितात्मा विमुक्त्यै प्रयतेत ।
तात्पर्यम्
अस्मिन् श्लोके भगवान् आदिशंकराचार्य: गु्रूपदेशेन ज्ञानं सम्पाद्य मोक्ष: सिध्यति इति वदति । विद्वान् संन्यस्तबाह्यार्थसुखस्पृह: सन् सन्तं देशिकं महान्तं गुरुं समुपेत्य तेन उपदिष्टार्थसमाहितात्मा विमुक्त्यै प्रयतेत । अस्मिन श्लोके विद्वान् इति पदेन नित्यानित्यवस्तुविवेक: संन्यस्तबाह्यार्थसुखस्पृह: इति पदेन विराग: समादिषट्कसंपत्ति: च , विमुक्त्यै प्रयतेत इति पदाभ्यां मुमुक्षुत्वम् च उक्तम् ।
आचार्यावान् पुरुषो वेद | आचार्याद्धैव विद्या विदिता साधिष्ठं प्रापत् तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणि: श्रोत्रियं ब्रह्मनिष्ठम् इत्यादिश्रुतिभ्य: गुरुमहत्वम् उक्तम् ।
व्याकरणम्
▶ सन्धि:
अत: + विमुक्त्यै - विसर्गउकार:
तेन + उपदिष्टार्थसमाहितात्मा - गुणसन्धि:
▶ कृदन्ता:
सम् + उप + ई - गतौ धातु: + ल्यप् = समुपेत्य
Shloka No: 9
मूलश्लोक:
उद्धरेदात्मनात्मानं मग्नं संसारवारिधौ ।
योगारूढत्वमासाद्य सम्यग्दर्शननिष्ठया ॥९॥
पदविभाग:
उद्धरेत् आत्मना आत्मानं मग्नं संसारवारिधौ योगारूढत्वम् आसाद्य सम्यग्दर्शननिष्ठया
पदार्थ:
उद्धरेत् - ऊर्ध्वं हरेत्
आत्मना - शास्त्राचार्य उपदेशेन शुद्धबुद्ध्या
आत्मानं - स्वं
मग्नं - मग्नम्
संसारवारिधौ - सम्सारसागरे
योगारूढत्वम् - परवैराग्यम्
आसाद्य - प्राप्य
सम्यग्दर्शननिष्ठया - सम्यग्दर्शननिष्ठया
अन्वय:
संसारवारिधौ मग्नं आत्मानं योगारूढत्वम् आसाद्य सम्यग्दर्शननिष्ठया आत्मना उद्धरेत् ।
तात्पर्यम्
संसारसागरे मग्नं आत्मानं योगारूढत्वम् प्राप्य सम्यग्दर्शननिष्ठया आत्मना उद्धरेत् । अत्र सम्यग्दर्शनम् इति पदेन आत्मज्ञानम् उक्तम् । भगवान् श्रीकृष्ण: भगवद्गीतायां उद्धरेदात्मनात्मानं नात्मानमवसादयेत् । आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मन: ॥ ६.૪॥ इति उक्तवान् ।
व्याकरणम्
▶ सन्धि:
उद्धरेत् + आत्मना - जश्त्वसन्धि:
आत्मना+ आत्मानम् -सवर्णदीर्घसन्धि:
Shloka No : 10
मूलश्लोक:
संन्यस्य सर्वकर्माणि भवबन्धविमुक्तये ।
यत्यतां पण्डितैर्धीरै: आत्माभ्यास उपस्थितै: ॥१०॥
पदविभाग:
संन्यस्य सर्वकर्माणि भवबन्धविमुक्तये यत्यतां पण्डितै: धीरै: आत्माभ्यासे उपस्थितै:
पदार्थ:
संन्यस्य - परित्यज्य
सर्वकर्माणि - कर्मकाण्डोक्तानि सर्वाणि कर्माणि
भवबन्धविमुक्तये - संसारिकबन्दनिवृतिहेतुभूतसम्यक् दर्शननिष्ठायै
यत्यतां - यत्न: क्रियताम्
पण्डितै: - आत्मज्ञानविषयकपरोक्षज्ञानवद्भि :
धीरै: - वशीकृतबुद्धिभि:
आत्माभ्यासे - अनन्यव्यापारतया आत्माभ्यासे
उपस्थितै: - वर्तमानै:
अन्वय:
आत्माभ्यासे उपस्थितै: धीरै: पण्डितै: भवबन्धविमुक्तये सर्वकर्माणि संन्यस्य यत्यताम् ।
तात्पर्यम्
अनन्यव्यापारतया आत्माभ्यासे उपस्थितै: धीरै: पण्डितै: जननमरणचक्रबन्धनात् विमुक्तयर्थं कर्मकाण्डोक्तानि सर्वाणि कर्माणि परित्यज्य यत्न: क्रियताम् ।
व्याकरणम्
▶ सन्धि:
पण्डितै: + धीरै: - विसर्गरेफ:
आत्माभ्यासे + उपस्थितै: - यान्तवान्तादेशसन्धि:
नमो नम: श्रीगुरुपादुकाभ्याम् ।
~ शरवण:
No comments:
Post a Comment