॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥
Shloka No: 11
मूलश्लोक:
चित्तस्य शुद्धये कर्म नतु वस्तूपलब्धये ।
वस्तुसिद्धिर्विचारेण न किंचित्कर्मकोटिभि: ॥११॥
पदविभाग:
चित्तस्य शुद्धये कर्म न तु वस्तूपलब्धये वस्तुसिद्धि: विचारेण न किंचित् कर्मकोटिभि:
पदार्थ:
चित्तस्य - अन्त:करणस्य
शुद्धये - शुद्ध्यर्थम्
कर्म - कर्म
वस्तूपलब्धये - ब्रह्मप्राप्त्यर्थम्
वस्तुसिद्धि: - ज्ञानप्राप्ति:
विचारेण - शास्त्रविचारेण
किंचित् - किंचित्
कर्मकोटिभि: - अनेककर्मभि:
अन्वय:
कर्म चित्तस्य शुद्धये (एव) । (कर्म) वस्तूपलब्धये न । वस्तुसिद्धि: विचारेण (एव भवति) । कर्मकोटिभि: किंचित् न (सिध्यति) ।
तात्पर्यम्
कर्म अन्त:करणस्य शुद्धये एव । कर्मणा वस्तूपलब्धि: न भवति । वस्तुसिद्धि: (ज्ञानप्राप्ति:) शास्त्रविचारेण एव भवति । कर्मकोटिभि: ज्ञानप्राप्ति: किंचित् अपि न सिध्यति ।
व्याकरणम्
▶ सन्धि:
वस्तुसिद्धि: + विचारेण - विसर्गरेफ:
Shloka No 12
मूलश्लोक:
सम्यग्विचारत: सिद्धा रज्जुतत्वावधारणा ।
भ्रान्त्योदितमहासर्पभवदु:खवि नाशिनी ॥१२॥
पदविभाग:
सम्यग्विचारत: सिद्धा रज्जुतत्व अवधारणा भ्रान्त्योदितमहासर्पभवदु:खविना शिनी
पदार्थ:
सम्यग्विचारत: - शास्त्रविचारत:
सिद्धा - सिध्यति
रज्जुतत्व - रज्जुसर्प
अवधारणा - अवधारणा
भ्रान्त्योदितमहासर्पभवदु:खविना शिनी - भ्रान्त्याजातं-जन्ममरणप्रयोज् यदु:ख- विनाशिनी
अन्वय:
सम्यग्विचारत: रज्जुतत्व अवधारणा सिद्धा । (सा) भ्रान्त्योदितमहासर्पभवदु:खविना शिनी (भवति)
तात्पर्यम्
सम्यग् शास्त्रविचारत: रज्जुतत्व अवधारणा भविष्यति । सा
भ्रान्त्या-उदित-महासर्प-भवदु: ख-विनाशिनी भवति
Shloka No 13
मूलश्लोक:
अर्थस्य निश्चयो दृष्टो विचारेण हितोक्तित: ।
न स्नानेन न दानेन प्राणायामशतेन वा ॥ १३॥
पदविभाग:
अर्थस्य निश्चय: दृष्ट: विचारेण हितोक्तित: न स्नानेन न दानेन प्राणायामशतेन वा
पदार्थ:
अर्थस्य -सत्यवस्तुन:
निश्चय: - दृढ:
दृष्ट: - लभते
विचारेण - शास्त्रोपदेशेन
हितोक्तित: - गुरुवाक्येण
स्नानेन - तीर्थस्नानेन
दानेन - अनेकदानेन
प्राणायामशतेन - शतप्राणायामै:
अन्वय:
अर्थस्य निश्चय: हितोक्तित: विचारेण (एव) दृष्ट: । स्नानेन (वा) दानेन (वा) प्राणायामशतेन वा ( न लभते) ।
तात्पर्यम्
सत्यवस्तुन: दृढज्ञानं गुरूपदेशेन शास्त्रवाक्यविचारेण एव लभते । अनेक तीर्थस्थलेषु स्नानेन वा अनेकै: दानै: वा प्राणायामै: वा न भवति । भगावान् श्री आदिशङ्कराचार्य: पौनपुन्येन ज्ञानादेव तु कैवल्यम् इति वदति ।
▶व्याकरणम्
सन्धि:
निश्चय: +दृष्ट: - विसर्गउकार;
दृष्ट: +विचारेण - - विसर्गउकार;
Shloka No 14
मूलश्लोक:
अधिकारिणमाशास्ते फलसिद्धिर्विशेषत: ।
उपाया देशकालाद्या: सन्त्यस्यां सहकारिण: ॥१૪॥
पदविभाग:
अधिकारिणम् आशास्ते फलसिद्धि: विशेषत: उपाया: देशकालाद्या: सन्ति अस्यां सहकारिण:
पदार्थ:
अधिकारिणम् - विवेक-वैराग्य-शमादिषट्कमुमुक् षुत्वानाम्
आशास्ते -आशास्ते
फलसिद्धि: - ज्ञानप्राप्ति:
विशेषत: - मुख्यत:
उपाया: - मार्गा:
देशकालाद्या: - देशकालाद्या:
सन्ति - भवन्ति
अस्यां - अस्याम्
सहकारिण: - सहकारित्वमात्रम्
अन्वय:
फलसिद्धि: विशेषत: अधिकारिणम् आशास्ते । अस्यां देशकालाद्या:
उपाया: सहकारिण: सन्ति ।
तात्पर्यम्
अस्मिन् श्लोके भगवान् श्रीअादिशंकराचार्य अधिकारित्वस्य महत्वम् वदति । फलसिद्धि: मुख्यत: अधिकारिणम् अपेक्षते । अस्यां देशकालाद्या: उपाया: सहकारिण: एव भवन्ति ।
▶ व्याकरणम्
सन्धि:
फलसिद्धि: + विशेषत: - विसर्गरेफ:
सन्ति + अस्याम् - यण्सन्धि:
Shloka No 15
मूलश्लोक:
अतो विचार: कर्तव्य: जिज्ञासोरात्मवस्तुन: ।
समासाद्य दयासिन्धुं गुरुं ब्रह्मविदुत्तमम् ॥ १५॥
पदविभाग:
अत: विचार: कर्तव्य: जिज्ञासो: आत्मवस्तुन: समासाद्य दयासिन्धुं गुरुं ब्रह्मविदुत्तमम्
पदार्थ:
अत: - सर्वान्-अर्थनिवर्तक-निर्णयहेतु त्वात् विचार: - आत्मविचार:
कर्तव्य: - करणीय:
जिज्ञासो: - सम्यक् ज्ञातोमिच्छो:
आत्मवस्तुन: - आत्मज्ञानम्
समासाद्य - समीपे गत्वा
दयासिन्धुं - दयास्वरूपम्
गुरुं - सद्गुरुम्
ब्रह्मविदुत्तमम् - स्थितप्रज्ञम्
अन्वय:
अत: जिज्ञासो: ब्रह्मविदुत्तमम् दयासिन्धुं गुरुं समासाद्य
आत्मवस्तुन: विचार: कर्तव्य: ।
तात्पर्यम्
आत्मस्वरूपं ज्ञातुं विचारसाधनमेव अावश्यकम् इति हेतो: जिज्ञासुना ब्रह्मविदुत्तमं दयासिन्धुं गुरुं प्राप्य आत्मविषये विचार: कर्तव्य: ।
▶ व्याकरणम्
सन्धि:
अत: + विचार: - विसर्गउकार:
जिज्ञासो: + आत्मवस्तुन: - विसर्गरेफ:
Shloka No 16
मूलश्लोक:
मेधावी पुरुषो विद्वान् ऊहापोगविचक्षण: ।
अधिकार्यात्मविद्यायां उक्तलक्षणलक्षित: ॥१६॥
पदविभाग:
मेधावी पुरुष: विद्वान् ऊहापोगविचक्षण: अधिकारी आत्मविद्यायां उक्तलक्षणलक्षित:
पदार्थ:
मेधावी -श्रुतार्थधारणक्षमबुद्धिमान् पुरुष: - मनुष्य:
विद्वान् - अधीत-काव्यकोशव्याकरण:
ऊहापोगविचक्षण:- पदवाक्यप्रमाणज्ञ: अधिकारी -अधिकारी
आत्मविद्यायां - आत्मविद्यायां
उक्तलक्षणलक्षित: - विवेक-वैराग्य-शमादिषट्क-मुमुक् षुत्वरूप-साधनचतुष्टय-सम्पन्न:
अन्वय:
मेधावी विद्वान् ऊह-अपोगविचक्षण:उक्तलक्षणलक्षित: पुरुष: आत्मविद्यायां अधिकारी (भवति)
तात्पर्यम्
भगवान् श्रीआदिशङ्कराचार्य: आत्मविद्यां प्राप्तुम् अधिकारलक्षणानि अस्मिन् श्लोके वदति । अष्टमश्लोकात् आरभ्य पञ्चदशश्लोकपर्यन्तम् अनेकलक्षणानि कथितानि। य: पुरुष: तानि लक्षणानि सम्यक् प्राप्य अधीत-काव्यकोशव्याकरण: सन् पदवाक्यप्रमाणज्ञ: मेधावी च अस्ति
स एव आत्मविद्यायाम् अधिकारी इति दृढेन वदति ।
▶ व्याकरणम्
सन्धि:
पुरुष: + विद्वान् - विसर्गउकार:
अधिकारी + आत्मविद्यायाम् -यण्सन्धि:
Shloka No 17
मूलश्लोक:
विवेकिनो विरक्तस्य शमादिगुणशालिन: ।
मुमुक्षोरेवहि ब्रह्मजिज्ञासा योग्यता मता ॥१७॥
पदविभाग:
विवेकिन: विरक्तस्य शमादिगुणशालिन: मुमुक्षो: एव हि ब्रह्मजिज्ञासा योग्यता मता
पदार्थ:
विवेकिन: - नित्यानित्यवस्तुविवेकिन:
विरक्तस्य - वैराग्यस्य
शमादिगुणशालिन: - शमादिषट्कसम्पत्ति: प्राप्त:
मुमुक्षो: - मोक्तुम् इच्छो:
ब्रह्मजिज्ञासा - ब्रह्मण: जिज्ञासा
योग्यता - अधिकारित्वम्
मता - मता
अन्वय:
विवेकिन: विरक्तस्य शमादिगुणशालिन: मुमुक्षो: एव हि ब्रह्मजिज्ञासायोग्यता मता ।
तात्पर्यम्
भगवान् श्रीआदिशङ्कराचार्य: मुमुक्षो: यानि लक्षणानि सन्ति इति दृढतया अस्मिन् शलोके वदति । नित्यानित्यवस्तुविवेकिन: विरक्तस्य शमादिषट्कसम्पत्तिन: मुमुक्षो: एव ब्रह्मज्ञानं प्राप्तुम् अर्हता अस्ति इति मम मता ।
▶ व्याकरणम्
सन्धि:
विवेकिन: + विरक्तस्य - विसर्गउकार:
मुमुक्षो: + एव - विसर्गरेफ:
Shloka No 18
मूलश्लोक:
साधनान्यत्र चत्वारि कथितानि मनीषिभि: ।
येषु सत्स्वेव सन्निष्ठा यदभावे न सिद्ध्यति ॥१८॥
पदविभाग:
साधनानि अत्र चत्वारि कथितानि मनीषिभि: येषु सत्सु एव सन्निष्ठा यत् अभावे न सिद्ध्यति
पदार्थ:
साधनानि - विवेकादि साधनानि
अत्र - वेदान्तशास्त्रे
चत्वारि - चत्वारि
कथितानि - उक्तानि
मनीषिभि: - बादरायणप्रभृतिभि:
सन्निष्ठा - सन्निष्ठा
यत् अभावे - असम्भवात्
सिद्ध्यति - लभते
अन्वय:
येषु (साधनेषु) सत्सु एव सन्निष्ठा (भवति) यत् अभावे न सिद्ध्यति (तानि) चत्वारि साधनानि अत्र मनीषिभि: कथितानि ।
तात्पर्यम्
येषु साधनेषु (साधनचतुष्टयम्) सत्सु एव सन्निष्ठा भवति यत् अभावे न सिद्ध्यति (तानि) चत्वारि साधनानि अस्मिन् विषये बादरायणप्रभृतिभि: मनीषिभि: कथितानि ।
▶ व्याकरणम्
सन्धि:
साधनानि + अत्र - यण्सन्धि:
सत्सु + एव - यण्सन्धि:
यत् + अभावे - जश्त्वसन्धि:
Shloka No 19
मूलश्लोक:
आदौ नित्यानित्यवस्तुविवेक: परिगण्यते ।
इहामुत्रफलभोगविराग: तदनन्तरम् ॥
शमादिषट्कसंपत्ति: मुमुक्षुत्वं इति स्फुटम् ।१९॥
पदविभाग:
आदौ नित्यानित्यवस्तुविवेक: परिगण्यते इहामुत्रफलभोगविराग: तत् अनन्तरम् शमादिषट्कसंपत्ति: मुमुक्षुत्वं इति स्फुटम्
पदार्थ:
आदौ - पूर्वे
नित्यानित्यवस्तुविवेक: - नित्य-अनित्य-वस्तुज्ञानम्
परिगण्यते - उच्यते
इहामुत्रफलभोगविराग: - वैराग्य:
अनन्तरम् - पश्चात्
शमादिषट्कसंपत्ति: - शम: दम: उपरम: तितिक्षा श्रद्धा समाधानम् च
मुमुक्षुत्वं - मुमुक्षुत्वम्
स्फुटम् - दृढम्
अन्वय:
आदौ नित्यानित्यवस्तुविवेक: परिगण्यते । तत् अनन्तरम्
इहामुत्रफलभोगविराग: शमादिषट्कसंपत्ति: मुमुक्षुत्वं इति स्फुटम्
तात्पर्यम्
अस्मिन् श्लोके भगवान् श्री आदिशङ्कराचार्य: साधनानि क्रमत: निर्दिशति । आदौ नित्यानित्यवस्तुविवेक: आवश्यक: । तदनन्तरं वैराग्यम् उक्तम् । तत: शमादि षट्कसम्पत्ति: इति षट्गुणानि उक्तानि।तदनन्तरम् मुमुक्षुत्वम् उक्तम् ।
▶ व्याकरणम्
सन्धि:
तत् + अनन्तरम् - जश्त्वसन्धि:
Shloka No 20
मूलश्लोक:
ब्रह्मसत्यं जगन्मिथ्येत्येवंरूपो विनिश्चय: ।
सोsयं नित्यानित्यवस्तुविवेक: समुदाहृत: ॥२०॥
पदविभाग:
ब्रह्म सत्यं जगत् मिथ्या इति एवंरूप: विनिश्चय: स: अयं नित्यानित्यवस्तुविवेक: समुदाहृत:
पदार्थ:
ब्रह्म - ब्रह्म
सत्यं -नित्यम्
जगत् - जगत्
मिथ्या - अनित्यम्
विनिश्चय: - दृढनिश्चय:
नित्यानित्यवस्तुविवेक: - नित्य-अनित्य-वस्तुज्ञानम्
समुदाहृत:- सम्यक् उदाहृत:
अन्वय:
ब्रह्म सत्यं जगत् मिथ्या इति एवंरूप: विनिश्चय: स: अयं नित्यानित्यवस्तुविवेक: (इति) समुदाहृत: ।
तात्पर्यम्
पूर्वस्मिन् श्लोके भगवान् श्री आदिशङ्कराचार्य: चत्वारि साधनानि उक्तवान् । अस्मिन् श्लोके स:
नित्यानित्यवस्तुविवेकं सम्यक् वर्णयति । ब्रह्म सत्यं जगत् मिथ्या इति एवंरूप: विशेषेण निश्चय: अस्ति इति वदति।
▶ व्याकरणम्
सन्धि:
जगत् + मिथ्या - अनुनासिकासन्धि:
एवंरूप: + विनिश्चय: - विसर्गउकार:
स: + अयं - विसर्गउकार:
नमो नम: श्रीगुरुपादुकाभ्याम् ।
~ शरवण:
धन्यवादः बहु उपयुक्ताः आसीत्।
ReplyDelete