श्रीमदप्पय्यदीक्षित विरचिता
॥आत्मार्पणस्तुति: ॥
सर्वदेचोत्तरत्वकथनम्
मूलश्लोक:
इन्द्रं मित्रं वरुणमनिलं पद्मजं विष्णुमीशं प्राहुस्ते ते परमशिव ते मायया मोहितास्त्वाम् ।
एतै: सार्धं सकलमपि यच्छक्तिलेशे समाप्तं स त्वं देव: श्रुतिषु विदित:शम्भुरित्यादिदेव: ॥३॥
पदच्छेद:
इन्द्रं मित्रं वरुणम् अनिलं पद्मजं विष्णुम् ईशं प्राहु: ते ते परमशिव ते मायया मोहिता: त्वाम्
एतै: सार्धं सकलम् अपि यत् शक्तिलेशे समाप्तं स त्वं देव: श्रुतिषु विदित: शम्भु: इति आदिदेव:
अन्वय:
हे परमेश्वर ! ते मायया मोहिता: ते ते (मताभिमाना:) त्वां इन्द्रं मित्रं वरुणम् अनिलं पद्मजं विष्णुम् ईशं (इति) प्राहु: । एतै: सार्धं सकलम् अपि यत् शक्तिलेशे समाप्तं श्रुतिषु शम्भु: इति विदित: आदिदेव: स देव: त्वम् एव ।
व्याकरणम्
▶ सन्धि:
प्राहु: + ते - विसर्गसकार:
मोहिता: + त्वाम् - विसर्गसकार:
यत् + शक्तिलेशे - श्चुत्वसन्धि: छत्वसन्धि:
.
शम्भु: + इति - विसर्गरेफ:
इति + आदिदेव: - यण्सन्धि:
~ शरवण:
07.05.2020
|
Wednesday, 6 May 2020
॥आत्मार्पणस्तुति: ॥ Shloka No 3
Subscribe to:
Post Comments (Atom)
Vivekachudamani (Shlokas 91 to 110)
॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥ मूलश्लोक: बाह्येन्द्रियै: स्थूलपदार्थसेवां स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् । करो...
-
Sri Ramodantam - Grammatical Analysis (2 Parts) Namaskarams Sri Ramodantam Was written by Sri Parameshwarakavi in 16th Century. In 200 ...
-
प्रथमवयसि पीतं तोयमल्पं स्मरन्तः शिरसि निहितभाराः नारिकेलाः नराणाम् । ददति जलमतल्पास्वादमाजीवितान्तं न हि कृतमुपकारं साधवो विस्मरन्ति ॥ ...
No comments:
Post a Comment