श्रीमदप्पय्यदीक्षिर विरचिता
॥आत्मार्पणस्तुति: ॥
मूलश्लोक:
क्षित्यादीनामवयववतां निश्चितं जन्म तावत् तन्नास्त्येव क्वचन कलितं कर्त्रधिष्ठानहीनम् ।
नाधिष्ठातुं प्रभवति जडो नाप्यनीशश्च भाव: तस्मादाद्यस्त्वमसि जगतां नाथ जाने विधाता ॥२॥*
पदच्छेद:
क्षित्यादीनाम् अवयववतां निश्चितं जन्म तावत् तत् न अस्ति एव क्वचन कलितं कर्त्रधिष्ठानहीनम् न अधिष्ठातुं प्रभवति जड: न अपि अनीश: च भाव: तस्मात् आद्य: त्वम् असि जगतां नाथ जाने विधाता
अन्वय:
हे नाथ ! अवयववतां क्षित्यादीनाम् जन्म निश्चितं तावत् । तत् (जन्म) क्वचन कर्त्रधिष्ठानहीनम् कलितम्
नास्ति एव । जड: अधिष्ठातुं न प्रभवति । (तथा) अनीश: भाव: (न प्रभवति) । तस्मात् आद्य: त्वम् जगतां विधाता असि ।
व्याकरणम्
▶ सन्धि:
तत् + न - अनुनासिकासन्धि:
न + अस्ति - सवर्णदीर्घसन्धि:
अस्ति +एव - यण्सन्धि:
न + अधिष्ठातुं -- सवर्णदीर्घसन्धि:
जड: + न - विसर्गउकार:
न + अपि - सवर्णदीर्घसन्धि:
अपि + अनीश: - यण्सन्धि:
अनीश: + च - विसर्गसकार:
तस्मात् + आद्य: - जश्त्वसन्धि:
आद्य: + त्वम् - विसर्गसकार:
~ शरवण:
No comments:
Post a Comment