Tuesday 12 September 2017

Subhashitham 13.09.2017

आयुर्नश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनं
प्रत्यायान्ति गताः पुनर्न दिवसाः कालो जगद्भक्षकः ।
लक्ष्मीस्तोयतरङ्गभङ्गचपला विद्युच्चलं जीवितं
तस्मात्त्वां शरणागतं शरणद त्वं रक्ष रक्षाधुना ||

पदविभाग: प्रतिपदार्थ:

आयु: - वय:
नश्यति - नश्यति 
पश्यतां - पश्यताम्
प्रतिदिनं - दिने दिने 
याति - गच्छति
 क्षयं - क्षीणं
यौवनं - तरुण पर्वं
प्रत्यायान्ति- प्रत्यागच्छति
गताः - गता:
पुन: - पुन: / अव्ययम्
न  - अव्ययम्
दिवसाः - दिना:
काल:  - समय:
जगद्भक्षक: - विश्वभक्षक:
लक्ष्मी: - वित्तम्
तोयतरङ्गभङ्गचपला  -  धनं जलप्रवाह: चपला इव
विद्युत् - चपला 
चलं जीवितं - अस्थिरं जीवनम्
तस्मात् - तस्मात्
त्वां - त्वाम्
शरणागतं - शरणागतं
शरणद - य: शरणं ददाति
त्वं - त्वं
रक्ष   - रक्ष
अधुना - इदानीम्

अन्वय:
अायु: नश्यति पश्यताम्। यौवनं प्रतिदिनं क्षयं याति।गता: दिवसा: पुन: न प्रत्यायान्ति । काल: जगद्भक्षक:। तोयतरङ्गचपला लक्षमी: विद्युच्चलं जीवितं।
शरणद तस्मात्  त्वां शरणागतं। त्वं रक्ष रक्ष अधुना।

तात्पर्यम्

एष: श्लोक: श्रीशिवापाराधक्षमापनस्तोत्रे अस्ति | एष: श्लोक: श्री श्री शङ्कर भगवत्भादर् विरचितवान् | मनुष्यस्य जीवने अायु: क्षयिष्णु भवति। यौवनं अपि दिने दिने क्षयः भवति। गता: दिवा: पुनर्न अागच्छति। यत: काल: जगद्भक्षक: । यथा तोयतरङ्ग: इतस्तत: गच्छति  तथा धनं अपि एकस्थाने न तिष्ठति। सा प्रतिदिनं जनै: प्राप्तिः अस्ति। अनन्तरं चपला इव सा अन्यत्र गच्छति। अत: ईश्वर , तस्मात् त्वां शरणागतम्। 
हे ईश्वर , त्वं त्वरया अस्मान् रक्ष रक्ष*

सन्धि:
आयुः + नश्यति =  विसर्ग .रेफः
प्रति + अयान्ति = यण् सन्धिः
पुनः + न = विसर्ग रेफः
कालः + जगद्भक्षकः = विसर्ग उकारः , गुणसन्धिः
जगत् + भक्षकः = जश्त्वसन्धिः
लक्षमीः + तोय = विर्सग सकारः
विद्युत् +चलं = श्चुत्वसन्धिः

No comments:

Post a Comment

Vivekachudamani (Shlokas 91 to 110)

॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥   मूलश्लोक:   बाह्येन्द्रियै: स्थूलपदार्थसेवां स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् । करो...