Wednesday 13 September 2017

Subhashitham 14.09.2017

Subhashitham 14.09.2017


पापान्निवारयति योजयते हिताय
गुह्यं निगूहति गुणान् प्रकटीकरोति |
आपद्गतं च न जहति ददाति काले
सन्मित्रलक्षणमिदं प्रवदन्ति सन्त: ||

पदविभाग:

पापात् निवारयति  योजयते  हिताय गुह्यं निगूहति गुणान् प्रकटीकरोति आपद्गतं च न जहति ददाति काले सन्मित्रलक्षणमिदं प्रवदन्ति सन्त: 

प्रतिपदार्थ:
पापात् - दुरुफलात्
निवारयति  - निवारणं करोति
हिताय - उपकाराय
योजयते - योजनं करोति
गुह्यम्  - रहस्यम्
निगूहति - रहस्यमेव रक्षति
गुणान्  - स्वभावान्
प्रकटीकरोति  - प्रकटीकरोति
आपद्गतम् - आपत्काले
च  - अव्ययम्
न - अव्ययम्
जहति -  त्यजति
ददाति - ददाति
काले - समये
सन्मित्रलक्षणम्  - सन्मित्रस्य स्वभावम्
इदम् - एतत्
प्रवदन्ति - सम्यक् भाषते
सन्तः - सज्जनाः

अन्वय:

 पापात् निवारयति हिताय योजयते गुह्यं निगूहति गुणान् प्रकटीकरोति आपद्गतं न जहाति काले ददाति (एते) सन्त: इदं सन्मित्रलक्षणं प्रवदन्ति |

तात्पर्यम्

सन्मित्रम् सन्मार्गे तस्य मित्रं गन्तुं सहायं करोति | स: तस्य मित्रस्य गुह्यं रक्षति | स: तस्य मित्रस्य सत्गुणान् प्रकटीकरोति | स: तस्य मित्रस्य आपद्काले न त्यजति | स: तस्य मित्राय कष्टकाले  धनं ददाति | एतस्मिन् श्लोके  सज्जना: सन्मित्रस्य लक्षणानि अवदन् |

सन्धिः
पापात् + निवारयति - अनुनासिकसन्धिः
आपत् + गतं - जश्त्वसन्धिः
सत् + मित्रलक्षणम् - अनुनासिकसन्धिः

No comments:

Post a Comment

Vivekachudamani (Shlokas 91 to 110)

॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥   मूलश्लोक:   बाह्येन्द्रियै: स्थूलपदार्थसेवां स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् । करो...