Wednesday 13 September 2017

Bhaja Govindham Verses 1 - 5 With Anvaya

Bhaja Govindham Verses 1 - 5 With Anvaya

भज गोविन्दम्    Sloka ..1

भजगोविन्दम्  भजगोविन्दम्
भजगोविन्दम् मूढमते |
संप्राप्ते सन्निहिते काले
नहि नहि रक्षति डुकृञ्करणे || १

पदविभाग पदार्थ:

भज - पूजयतु 
गोविन्दम् - विष्णुम्
भज - पूजयतु
गोविन्दम् - विष्णुम्
भज - पूजयतु
गोविन्दम् - विष्णुम्
 मूढमते - मूढ
संप्राप्ते - अगत्य समये
सन्निहिते - समीपे
काल: - यमधर्मराजा
नहि नहि  - न
रक्षति - रक्षयति 
डुकृञ्करणे -  डुकृञ्करणे पदम्

अन्वय:
हे मूढमते !  गोविन्दम् भज ! 
गोविन्दम् भज ! गोविन्दम् भज !
काले सन्निहिते संप्राप्ते डुकृञ्करणे नहि नहि रक्षति |

तात्पर्यम्

श्री श्री शङ्कर भगवत्र्पादा: भज गोविन्दम् विरचितवान् | स: यथा काशी नगरे स्वस्य शिश्यै: सह गतवान् तथा स: एक ब्राह्मण: _डुकृञ्करणे_ पदम् कण्ठपाठार्थं कृतवान् स्म | तत् द्रुष्ट्वा सङ्कर:  भज गोविन्दम् श्लोकम् रचयितवान् स्म | एतत् ३१ श्लोक: सन्ति | प्रति दिनं एक श्लोकम् अन्वयं कर्तुम् प्रयत्नम् करोमि |
प्रथम श्लोके सङ्कर इति   उक्तवान -

हे मूढ ! गोविन्दम् पूजयतु | गोविन्दम् पूजयतु | यमधर्मराजा अगत्य समये डुकृञ्करणे पद: त्वाम् न रक्षति | अत: संसकृत व्याहरणे कालविरयं त्यक्तवा गोविन्दं चरणौ शरणम् कुरु |

भज गोविन्दम्      Sloka ..2

मूढ जहीहि धनागमतृष्णां
कुरु सद्बुद्धिं मनसि वितृष्णाम् |
यल्लभसे निजकर्मोपात्तं 
वित्तं तेन विनोतय चित्तम् ||

पदविभाग: पदार्थ:

मूढ - मूढ 
जहीहि - त्यज
धनागमतृष्णां - धन विषये आशा
कुरु - कार्यं कुरु
 सद्बुद्धिं - बुद्धि:
सुमनसि - मनसि
वितृष्णाम् - आशारहित
यत् - यत्
लभसे - लभ्यते 
 निजकर्मोपात्तं - स्वस्य पुण्येन लभ्यते
वित्तं - धनं
तेन - तेन
विनोतय - सनतोषं कुरु
चित्तम् - मनस्

अन्वय:

हे मूढ ! धनागमतृष्णां जहीहि | मनसि वितृष्णाम् सद्बुद्धिं कुरु |
निजकर्मोपात्तम् यत् वित्तं लभसे तेन चित्तं विनोदय | 

तात्पर्यम्

श्री श्री शङ्कर भगवत्भादार् भज गोविन्दम् विरचितवान् | द्वितीय श्लोके सङ्कर: इति   उक्तवान -

हे मूढ ! त्वम् सदा धनविषये चिन्तयसि | अत: धन अगम आशां त्यज | तव मनसे वितृष्णां 
सद्बुद्धिं चिन्तयसि | तव कर्म कारणात् यत् धनं लभसे तेन चिन्ताम् सन्तोषम् भवतु |

भज गोविन्दम्           Sloka ..3

नारीस्तनभरनाभीदेशं 
दृष्ट्वा मा गा मोहावेशम् |
एतन्मांसवसादिविकारं
 मनसि विचिन्त्य वारं वारम् || ३

पदविभाग: प्रतिपदार्थ:

नारीस्तनभरनाभीदेशं - महिला रूपम्
दृष्ट्वा - वीक्ष्य
 मा  गा - न कुरु
मोहावेशम् - मोहम् 
एतत् - एतत् 
मांसवसादिविकारं मांसस्य रूपं
मनसि - अन्तकरणे
विचिन्त्य - चिन्तनं कुरु 
वारं वारम् - पुन: पुन:

अन्वय:

नारीस्तनभरनाभीदेशं 
दृष्ट्वा  मोहावेशम् मा गा
एतत् मांसवसादिविकारं
 (अत:) मनसि वारं वारम् विचिन्त्य |

तात्पर्यम्

श्री श्री शङ्कर भगवत्भादर् भज गोविन्दम् विरचितवान् | तृतीय श्लोके सङ्कर: इति   उक्तवान -

हे मूढ! त्वं स्त्रीणां स्तनभर नाभि देशं दृष्ट्वा मोहं न करणीयम् | एतत् सर्वं रक्तं माम्सं च विकारूपं अभवत् | त्वम् एतत् पुन: पुन: चिन्तयसि |

भज गोविन्दम्     Sloka ..4

नलिनीदलगत जलमतितरलं 
तद्वज्जीवितमतिशयचपलम् |
विद्धि व्याध्यभिमानग्रस्तं
लोकं शोकहतं च समस्तम् || ४


पदविभाग: प्रतिपदार्थ:

नलिनीदलगत जलम् - कमलपत्रेण जलम्
अतितरलं -  बहुतरलम्
तद्वत्  -तद्वत्
जीवितम् - जिवनं
अतिशयचपलम् - अनित्यम्
विद्धि - ज्ञासि
व्याध्यभिमानग्रस्तं - व्याधि गर्वन पीठत
लोकं - लोकम्
शोकहतं - शोकमयम्
च - अव्ययम्
समस्तम् - समस्तं 


अन्वय:

नलिनीदलगत जलम् अतितरलं तद्वत् जीवितम्   अतिशयचपलम्  | लोकं समस्तं व्याध्यभिमानग्रस्तं
 शोकहतं च विद्धि||


तात्पर्यम्

श्री श्री शङ्कर भगवत्भादर् भज गोविन्दम् विरचितवान् | चत्वार: श्लोके सङ्कर: इति   उक्तवान -

कमलपत्रेण जलम् अतितरलम् | तत् इतस्तत: अठति एव | तद्वत् अस्माकं जीवितम् अपि | लोके सर्वत्र व्याधि: अहङ्कार: च पीठितवन्त: पुर्व पुण्येन लभ्तमानम एतत् शरीरम् अनित्यम् एव | अत: जीवित कालम् अपि आशा, व्याधि: अहङ्कार: च दु:खं एव | स्वल्पेन सुखम् अपि नास्ति | अत: इदानिम् अपि गोविन्दं पूजय  गोविन्दं पूजय |

भज गोविन्दम्  Sloka ..5

यावद्वित्तोपार्जन सक्त: 
तावन्निज परिवारो रक्त:
पश्चाज्जीवति जर्जरदेहे
वार्तां कोSपिन पृच्छति गेहे || ५

पदविभाग: प्रतिपदार्थ:
यावत् -  यावत्
वित्त: - धनं
उपार्जन - संपादयति
 सक्त: - शक्ति
तावत् - तावत्
निज - स्वस्य
परिवार: - जना: 
रक्त: - प्रिय भावेन अस्ति
पश्चात् - अपरम्
जीवति - जीवन् अस्ति अपि
 जर्जरदेहे - वृद्ध व्याधि पीठित शरीरं
वार्तां - कुशलम्
 कोSपि -  कोSपि
न - न
 पृच्छति - पृच्छति
 गेहे - गृहे


अन्वय:

यावत् वित्तोपार्जन सक्त: तावत् निज परिवार: रक्त: |पश्चात् जर्जरदेहे जीवति (अपि) गेहे कोSपि वार्तां न पृच्छति |

तात्पर्यम्

श्री श्री शङ्कर भगवत्भादर् भज गोविन्दम् विरचितवान् | पञ्चमे श्लोके शङ्कर: इति   उक्तवान -

एक: तम् कुटुम्ब प्रिय कारणात् अनेक धनम् संपादयति | तत् समये सर्व जना: प्रिय स्वाभावेन अस्ति | यथा स: वृद्ध:  जर्जरदेह: च आसित् तथा कोSपि कुशलम् अपि न पृच्छति| सर्व जना: मनुष्यस्य धनम् एव इच्छन्ति |  अत:  त्वम् गोविन्दम् पूजय |

[To be Continued...]

No comments:

Post a Comment

Vivekachudamani (Shlokas 91 to 110)

॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥   मूलश्लोक:   बाह्येन्द्रियै: स्थूलपदार्थसेवां स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् । करो...