Thursday 14 September 2017

Subhashitham 15.09.2017

सुभाषितम्

शरिरं चैव वाचं बुद्धिन्द्रिय मनांसि च ।
नियम्य प्राञ्जलिः तिष्ठेत् वीक्षमाणो गुरोर्मुखम् ॥

पदविभागः  / प्रतिपदार्थः
शरीरं = देहम्
च = अव्ययम्
एव = एव
वाचं = वाणीं
बुद्धि= मतिः 
इन्द्रियम्= इन्द्रियम्
मनांसि = चेतस्
च = अव्ययम्
नियम्य = अनुसृत्य
प्राञ्जलिः = सहृदय
तिष्ठेत् =
वीक्षमाणः = पश्यन्
गुरोः = गुरोः
मुखम् = वदनं

अन्वयः 
शरीरं वाचं बुद्धीन्द्रियं मनांसि च प्राञ्जलिः  नियम्य एव तिष्ठेत् गुरोः मुखं वीक्षयमाणः।

तात्पर्यम्

एतस्मिन्  श्लोके अस्माभिः गुरवे सत्कारं करणीयम् इति उच्यते। प्रथमं अस्माभिः शरीरस्य वाण्याः च वशीकरणीयौ । तदानन्तरं  बुद्ध्याः , इन्द्रियाणां, मनसां च नियन्त्रणं करणीयम् । एते सर्वे कृत्वा गुरुं वीक्षमाणः नमस्कारः करणीयः। यदि वयं न कुर्मः तर्ही  विद्यां प्राप्तुम् एव कठिनं भवेत् ।

No comments:

Post a Comment

Vivekachudamani (Shlokas 91 to 110)

॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥   मूलश्लोक:   बाह्येन्द्रियै: स्थूलपदार्थसेवां स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् । करो...