॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥ मूलश्लोक: ब्रह्मानन्दरसानुभूतिकलितै: पूतै: सुशीतै: सितै: युष्मद्वाक्कलशोज्झितै: श्रुतिसुखै: वाक्यामृतै: सेचय । सन्तप्तं भवतापदावदहनज्वालाभिरेनं प्रभो धन्यास्ते भवदीक्षणक्षणगते: पात्रीकृता: स्वीकृता: ॥૪१॥ पदविभाग: ब्रह्मानन्दरसानुभूतिकलितै: पूतै: सुशीतै: सितै: युष्मद्वाक्कलशोज्झितै: श्रुतिसुखै: वाक्यामृतै: सेचय सन्तप्तं भवतापदावदहनज्वालाभि: एनं प्रभो धन्या: ते भवदीक्षणक्षणगते: पात्रीकृता: स्वीकृता: पदार्थ: ब्रह्मानन्दरसानुभूतिकलितै: - ब्रह्मानन्दरस-अनुभूतिकलितै: पूतै: - पवित्रै: सुशीतै: - सम्यक् शीतै: सितै:- निर्मलै: युष्मद्वाक्कलशोज्झितै: - युष्मद्वाक्कलशोज्झुतै: श्रुतिसुखै: - कर्णानन्ददायकै: वाक्यामृतै: - वाक्यामृतै: सेचय - स्नापय सन्तप्तं -संदग्धम् भवतापदावदहनज्वालाभि: - संसारताप-वनदहन-ज्वालाभि: प्रभो - हे सर्वशक्त धन्या: - भाग्यवन्त: ईक्षणक्षणगते: - ईक्षणक्षणगते: पात्रीकृता: - अर्हता: स्वीकृता: - स्वीकृता: अन्वय: हे प्रभो ! ब्रह्मानन्दरसानुभूतिकलितै: पवित्रै: सुशीतै: सितै: युष्मद्वाक्कलशोज्झितै: श्रुतिसुखै: वाक्यामृतै: भवतापदावदहनज्वालाभि: सन्तप्तं एनं सेचय । भवतं ईक्षणक्षणगते: पात्रीकृता: स्वीकृता: ते धन्या: । तात्पर्यम् हे प्रभो ! ब्रह्मानन्दरसं अनुभूतिकलितै: पूतै: सम्यक् शीतै: सितै:तव-वाक्कलश-उज्झितै: श्रुतिसुखै: वाक्यामृतै: संसारताप-वनदहनज्वालाभि: सन्तप्तं एनं स्नापय । तव ईक्षण-क्षणगते: पात्रीकृता: स्वीकृता: ते धन्या: एव । व्याकरणम् सन्धि: धन्या: + ते - विसर्गसकार: मूलश्लोक: कथं तरेयं भवसिंधुमेतं का वा गतिर्मे कतमोस्त्युपाय: । जाने न किंचित्कृपयाव मां प्रभो संसारदु:खक्षतिमातनुष्व ॥૪२॥ पदविभाग: कथं तरेयं भवसिंधुं एतं का वा गति: मे कतम: अस्ति उपाय: जाने न किंचित् कृपया अव मां प्रभो संसारदु:खक्षतिम् आतनुष्व पदार्थ: कथं - कथम् तरेयं - तरेयम् भवसिंधुम् - संसारसागरम् एतं - बहुविध-दुर्वार-दु:खजालजटिलं गति: - मार्ग: मे - मह्यम् कतम: - किञ्चित् अस्ति - भवति उपाय: - मार्ग: न जाने - न विद्धि कृपया - दयया अव - रक्ष प्रभो - हे प्रभो संसारदु:खक्षतिम् - संसारेण-भवदु:खम् आतनुष्व - जही अन्वय: हे प्रभो ! एतं भवसिंधुं कथं तरेयं ? मे का वा गति: ? उपाय: कतम: अस्ति? (अहं) किंचित् न जाने । कृपया माम् अव । संसारदु:खक्षतिम् आतनुष्व । तात्पर्यम् हे प्रभो बहुविध-दुर्वार-दु:खजालजटिलं संसारसागरं अहं कथं तरेयं ? मह्यं का वा गति: ? उपाय: कतम: अस्ति? (अहं) किंचित् न जाने । कृपया माम् रक्ष । संसारिक-शोकं समूलघातं जही । व्याकरणम् सन्धि: गति: + मे - विसर्गरेफ: कतम: + अस्ति - विसर्गउकार: अस्ति+ उपाय: - यण्सन्धि: कृपया + अव - सवर्णदीर्घसन्धि: मूलश्लोक: तथावदन्तं शरणगतं स्वं संसारदावानलतापतप्तम् । निरीक्ष्य कारुण्यरसार्द्रदृष्ट्या दद्यादभीतिं सहसा महात्मा ॥૪३॥ पदविभाग: तथा वदन्तं शरणगतं स्वं संसारदावानलतापतप्तम् निरीक्ष्य कारुण्यरसार्द्रदृष्ट्या दद्यात् अभीतिं सहसा महात्मा पदार्थ: तथा - तस्मिन् समये वदन्तं - प्रार्थयन्तम् शरणगतं - शरणगतम् स्वं - स्वात्मानम् संसारदावानलतापतप्तम् - सम्सारवनदग्धम् निरीक्ष्य - दृष्ट्वा कारुण्यरसार्द्रदृष्ट्या - दयारसेनदृष्ट्या दद्यात् - दद्यात् अभीतिं - अभयम् सहसा - सद्य एव महात्मा - गुरु: अन्वय: तथा वदन्तं स्वं शरणगतं संसारदावानलतापतप्तम् (तम्) महात्मा कारुण्यरसार्द्रदृष्ट्या निरीक्ष्य सहसा अभीतिं दद्यात् । तात्पर्यम् भगवान् श्री आदिशङ्कराचार्य: उपदेशविधिं वदति । इत्थं भक्त्या प्रार्थितं (पूर्वश्लोकपर्यन्तं) तथा वदन्तं स्वं शरणगतं भवसागर-वनाग्निना-तप्तं शिष्यं महात्मा कारुण्यरसार्द्रदृष्ट्या सम्यक् वीक्ष्य सहसा अभयं दद्यात् । श्रीमद्वाल्मीकिरामायणे अभयं सर्वभूतेभ्यो ददाम्येतत् व्रतं मम । इति उक्तवान् । व्याकरणम् सन्धि: दद्यात् + अभीतिम् - जशत्वसन्धि: मूलश्लोक: विद्वान् स तस्मा उपसत्तिमीयुषे मुमुक्षवे साधु यथोक्तकारिणे । प्रशान्तचित्ताय शमान्विताय तत्त्वोपदेशं कृपयैव कुर्यात् ॥૪૪॥ पदविभाग: विद्वान् स: तस्मै उपसत्तिम् ईयुषे मुमुक्षवे साधु यथोक्तकारिणे प्रशान्तचित्ताय शमान्विताय तत्त्वोपदेशं कृपया एव कुर्यात् पदार्थ: विद्वान् - ब्रह्मवित्तम: स: - ज्ञानि तस्मै - तस्मै उपसत्तिम् - विधिवत् समीपे ईयुषे - गताय मुमुक्षवे - मोक्षं कामयमानाय साधु यथोक्तकारिणे - सम्यक् विहितानुष्ठात्रे प्रशान्तचित्ताय - प्रशान्तचित्ताय शमान्विताय - निगृहीत- बहिरिन्द्रियाय तत्त्वोपदेशं - तत्त्वोपदेशं कृपया - दयया कुर्यात् - कुर्यात् अन्वय: स: विद्वान् उपसत्तिम् ईयुषे मुमुक्षवे साधु यथोक्तकारिणे प्रशान्तचित्ताय शमान्विताय तस्मै तत्त्वोपदेशं कृपया एव कुर्यात् । तात्पर्यम् स: ब्रह्मवित्तम: ज्ञानी विधिवत् समीपं गताय मुमुक्षवे सम्यक् विहितानुष्ठात्रे देहादिब्रह्मपर्यन्तभोग्यवस्तु अयं विषय: मुण्डकोपनिषत् प्रथमोध्याये द्वितीयखण्डे तस्मै स विद्वानुपसन्नाय सम्यक्प्रशान्तचित्ताय शमानविताय । येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् ॥ एवम् अस्ति । व्याकरणम् सन्धि: स: + तस्मै - विसर्गलोप: तस्मै + उपसत्तिम् - यान्तवान्तादेशसन्धि: कृपया + एव - वृद्धिसन्धि: मूलश्लोक: माभैष्ट विद्वंस्तव नास्त्यपाय: संसारसिन्धोस्तरणेस्त्युपाय: । येनैव याता यतयोस्य पारं तमेव मार्गं तव निर्दिशामि ॥૪५॥ पदविभाग: मा भैष्ट विद्वन् तव नास्ति अपाय: संसारसिन्धो: तरणे अस्ति उपाय: । येन एव याता यतय: अस्य पारं तम् एव मार्गं तव निर्दिशामि पदार्थ: मा भैष्ट - भयं माभूत् विद्वन् - हे विद्वन् अपाय: - अपाय: संसारसिन्धो: - भवसागरम् तरणे - तारयितुं अस्ति - अस्ति उपाय: - मार्ग: येन - येन मार्गेन याता: - प्राप्ता: यतय: -मुनय: पारं - अन्तम् मार्गं - मार्गम् तव - तुभ्यम् निर्दिशामि - उपदिशामि अन्वय: हे विद्वन् मा भैष्ट । तव अपाय: नास्ति । संसारसिन्धो: तरणे उपाय: अस्ति। यतय: येन एव अस्य पारं याता: तं मार्गं एव तव (तुभ्यं) निर्दिशामि । तात्पर्यम् अस्मिन् श्लोके गुरु: शिष्याय धैर्यं वदति । हे विद्वन् ते भयं माभूत् । तुभ्यं कोsपि अपाय: नास्ति । भवसागरतरणे मार्ग: अस्ति । येन मार्गेन यतय: अस्य सम्सारस्य पारं प्राप्ता: तम् मार्गं तुभ्यम् अहं निर्दिशामि । भगवान् श्रीकृष्ण: न हि कल्याणकृत् कश्चित् दुर्गतिं गच्छति इति उक्तवान् । (श्रीमद्भगवद्गीता ६.૪०) व्याकरणम् सन्धि: विद्वन् + तव - सत्वसन्धि: न + अस्ति - सवर्णदीर्घसन्धि: अस्ति + अपाय: - यण्सन्धि: संसारसिन्धो: + तरणे - विसर्गसकार: अस्ति + उपाय: - यण्सन्धि: येन + एव - वृद्धिसन्धि: याता: + यतय: - विसर्गलोप: . यतय; + अस्य - विसर्गउकार: मूलश्लोक: अस्त्युपायो महान् कश्चित् संसारभयनाशन: । तेन तीर्त्वा भवाम्भोधिं परमानन्दमाप्स्यसि ॥૪६॥ पदविभाग: अस्ति उपाय: महान् कश्चित् संसारभयनाशन: तेन तीर्त्वा भवाम्भोधिं परमानन्दम् आप्स्यसि पदार्थ: अस्ति - भवति उपाय: - मार्ग: महान् - महान् कश्चित् - कश्चित् संसारभयनाशन: - भवसागरभयनाशन: तेन - तेन मार्गेन तीर्त्वा - अविद्यां भंक्त्वा भवाम्भोधिं - दुस्तरं संसारसागरम् परमानन्दम् - शाश्वतं संतोषम् आप्स्यसि - आप्स्यसि अन्वय: संसारभयनाशन: महान् कश्चित् उपाय: अस्ति । तेन भवाम्भोधिं तीर्त्वा परमानन्दम् आप्स्यसि । तात्पर्यम् हे विद्वन् ! भवसागरतारणे महान् कश्चित् उपाय: अस्ति । तेन वक्ष्यमाणोपायेन दुस्तरं सम्सारसागरं तीर्त्वा तन्मूलभूतां अविद्यां भंक्त्वा शाश्वतं सन्तोषं प्राप्स्यसि । व्याकरणम सन्धि: अस्ति + उपाय: - यण्सन्धि: मूलश्लोक: वेदान्तार्थविचारेण जायते ज्ञानमुत्तमम् । तेनात्यंतिकसंसारदु:खनाशो भवत्यनु ॥૪७॥ पदविभाग: वेदान्तार्थविचारेण जायते ज्ञानम् उत्तमम् तेन आत्यंतिकसंसारदु:खनाश: भवति अनु पदार्थ: वेदान्तार्थविचारेण - वेदान्तेषु उक्तै: मन्त्रार्थविचारै: जायते - जायते ज्ञानम् - आत्मज्ञानम् उत्तमम् - श्रेष्ठम् तेन - तेन निर्णयेन आत्यंतिकसंसारदु:खनाश: - आत्यन्तिक-संसारदु:खनाश: भवति - प्राप्यते अनु - अनु अन्वय: वेदान्तार्थविचारेण उत्तमम् ज्ञानम् जायते । तेन अनु आत्यंतिकसंसारदु:खनाश: भवति । तात्पर्यम् अस्मिन् श्लोके भगवान् श्रीआदिशंकराचार्य: संसारभयनाशनाय उपायं वदति । वेदान्तेषु उक्तै: मन्त्रार्थविचारै: उत्तमम् ज्ञानम् जायते । तेन निर्णयेन आत्यन्तिकसंसारदु:खनाश: भवति । व्याकरणम् सन्धि: तेन + आत्यंतिकसंसारदु:खनाश:- सवर्णदीर्घसन्धि: आत्यंतिकसंसारदु:खनाश: + भवति - विसर्गउकार: मूलश्लोक: श्रद्धाभक्तिध्यानयोगान् मुमुक्षो: मुक्तेर्हेतून् वक्ति साक्षाच्छ्रुतेर्गी: । यो वा एतेष्वेव तिष्ठत्यमुष्य मोक्षोsविद्याकल्पिताद्देहबन्धा पदविभाग: श्रद्धाभक्तिध्यानयोगान् मुमुक्षो: मुक्ते: हेतून् वक्ति साक्षात् श्रुते: गी: य: वा एतेषु एव तिष्ठति अमुष्य मोक्ष: अविद्याकल्पितात् देहबन्धात् पदार्थ: श्रद्धाभक्तिध्यानयोगान् -श्रद्धभक्तिध्यानयोगान् मुमुक्षो: - मोक्तुमिच्छो: मुक्ते: हेतून् - बन्धनिवृत्ते: हेतून् वक्ति - वदति साक्षात् - साक्षात् श्रुते: गी: - वेदवाक्यै: य: - य: नर: तिष्ठति - तिष्ठति अमुष्य - तस्य मोक्ष: - मोक्ष: अविद्याकल्पितात् - अविद्यया कल्पितान् देहबन्धात् - शरीरबन्धात् अन्वय: श्रद्धाभक्तिध्यानयोगान् मुमुक्षो: मुक्ते: हेतून् साक्षात् श्रुते: गी: वक्ति । य: वा एतेषु एव तिष्ठति अमुष्य : अविद्याकल्पितात् देहबन्धात् मोक्ष: (भविष्यति) । तात्पर्यम श्रद्धा-भक्ति:-ध्यान-योगान् मोक्तुमिच्छो: मुक्ते: हेतून् इति वेदवाक्यानि वदन्ति । य: वा एतेषु साधनेषु एव स्थिरं प्रयन्तं करोति तस्य अविद्यया कल्पितात् देहबन्धात् मोक्ष: भविष्यति । व्याकरणम् सन्धि: मुक्ते: + हेतून् - विसर्गरेफ: साक्षात् + श्रुते: - श्चुत्वसन्धि: छत्वसन्धि: श्रुते: + गी: - विसर्गरेफ: य: + वा - विसर्गउकार: एतेषु + एव - यान्तवान्तादेशसन्धि: तिष्ठति + अमुष्य - यण्सन्धि: मोक्ष: - अविद्याकल्पितात् - विसर्गउकार: पूर्वरूपसन्धि: अविद्याकल्पितात् + देहबन्धात् - जश्त्वसन्धि: मूलश्लोक: अज्ञानयोगात्परमात्मनस्तव ह्यनात्मबन्धस्तत एव संसृति: । तयोर्विवेकोदिरबोधवह्नि: अज्ञानकार्यं प्रदहेत्समूलम् ॥૪९॥ पदविभाग: अज्ञानयोगात् परमात्मन: तव हि अनात्मबन्ध: तत: एव संसृति: तयो: विवेकोदिबोधवह्नि: अज्ञानकार्यं प्रदहेत् समूलम् पदार्थ: अज्ञानयोगात् - अनाद्यविद्यासंबन्धात् परमात्मन: - परमात्मन: तव - तुभ्यम् अनात्मबन्ध: - अनात्मसु आत्मबुद्धि: संसृति: - जननमरचक्र: तयो: - आत्मानात्मयो: विवेकोदितबोधवह्नि:- विवेकेन उदित: साक्षात्काररूपाग्नि: अज्ञानकार्यं - अज्ञानस्य कार्यम् प्रदहेत् - प्रकर्षेण भस्मीकुर्यात् समूलम् - समूलम् अन्वय: परमात्मन: तव अज्ञानयोगात् हि अनात्मबन्ध: (भवति) । तत: एव संसृति: तयो: विवेकोदितबोधवह्नि: अज्ञानकार्यं समूलम् प्रदहेत् तात्पर्यम् परमात्मन: तव अज्ञानयोगात् हि अनात्मबन्ध: संसृति: च भवति । तत: आत्मानात्मविवेक- उदितबोधवह्नि: अज्ञानकार्यं समूलम् प्रदहेत् । व्याकरणम् सन्धि: परमात्मन: + तव - विसर्गसकार: हि + अनात्मबन्ध:- यण्सन्धि: अनात्मबन्ध: + तत: - विसर्गसकार: तत: + एव - विसर्गलोप: तयो: + विवेकोदितबोधवह्नि: - विसर्गरफ: विवेकोदितबोधवह्नि: + अज्ञानकार्यं - विसर्गरेफ: मूलश्लोक: शिष्य उवाच कृपया श्रूयतां स्वामिन्प्रश्नोsयं क्रियते मया । यदुत्तरमहं श्रुत्वा कृतार्थ: स्यां भवन्मुखात् ॥ पदविभाग: शिष्य: उवाच कृपया श्रूयतां स्वामिन्प्रश्न: अयं क्रियते मया यत् उत्तरम् अहं श्रुत्वा कृतार्थ: स्यां भवन्मुखात् पदार्थ: कृपया - दयया श्रूयतां - श्रूयताम् स्वामिन् - हे स्वामिन् प्रश्न: - सन्देह: अयं - अयम् क्रियते - क्रियते उत्तरम् - उत्तरम् श्रुत्वा - आकर्ण्य कृतार्थ: - सफल: स्यां - स्याम् भवन्मुखात् - भवत: मुखात् अन्वय: हे स्वामिन् ! कृपया श्रूयताम् । मया अयं प्रश्न: क्रियते । यत् उत्तरम् भवत: मुखात् अहं श्रुत्वा कृतार्थ: स्याम् ( तत् कृपया वदतु) । तात्पर्यम् शिष्य: गुरुं प्रार्थ्य एतं श्लोकं पृच्छति । हे स्वामिन् ! कृपया श्रूयताम् । मया अयं प्रश्न: क्रियते । यत् उत्तरम् भवन्मुखात् अहं श्रुत्वा कृतार्थ: स्याम् तत् उत्तरं कृपया वदतु । व्याकरणम् सन्धि: प्रश्न: + अयम् - विसर्गलोप: यत् + उत्तरम् - जश्त्वसन्धि: . नमो नम: श्रीगुरुपादुकाभ्याम् । ~ शरवण: |
Monday, 31 August 2020
Viveka chudamani Shlokas 41 to 50
Wednesday, 19 August 2020
Viveka Chudamani Shlokas 31 to 40
॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥
मूलश्लोक:
एतयोर्मन्दता यत्र विरक्तत्वमुमुक्षयो: ।
मरौ सलिलवत्तत्र शमादेर्भानमात्रता ।३१॥
पदविभाग:
एतयो: मन्दता यत्र विरक्तत्वमुमुक्षयो:
मरौ सलिलवत् तत्र शमादे: भानमात्रता
पदार्थ:
एतयो: - विरक्तत्वमुमुक्षयो:
मन्दता - मन्दता
यत्र - यस्मिन्पुरुषे
विरक्तत्वमुमुक्षयो: - विरक्तत्व-मुमुक्षयो:
मरौ - मरुभूमौ
सलिलवत् - जलवत्
तत्र -तस्मिन् पुरुषे
शमादे: - शमादे:
भानमात्रता - भानमात्रता
अन्वय:
विरक्तत्वमुमुक्षयो: एतयो: मन्दता यत्र (अस्ति) तत्र मरौ सलिलवत् शमादे: भानमात्रता (एव)।
तात्पर्यम्
वैराग्यम् मुमुक्षुत्वम् एतयो: मन्दता यत्र (अस्ति) तत्र मरुभूमौ जलवत् शमादे: भानमात्रता एव अस्ति।
व्याकरणम्
सन्धि:
एतयो: + मन्दता - विसर्गरेफ:
शमादे: + भानमात्रता- विसर्गरेफ:
मूलश्लोक:
मोक्षकारणसामग्रयां भक्तिरेव गरीयसी ।
स्वस्वरूपानुसंधानं भक्तिरित्यभिधीयते ॥३२॥
पदविभाग:
मोक्षकारणसामग्रयां भक्ति: एव गरीयसी स्वस्वरूपानुसंधानं भक्ति: इति अभिधीयते
पदार्थ:
मोक्षकारणसामग्रयां - मोक्षहेतुत्वसाधनेषु
भक्ति: - भक्ति:
एव - एव
गरीयसी - श्रेष्ठा
स्वस्वरूपानुसंधानं - निदिध्यासनम्
भक्ति: - भक्ति:
इति -इति
अभिधीयते - कथ्यते
अन्वय:
मोक्षकारणसामग्रयां भक्ति: एव गरीयसी । स्वस्वरूपानुसंधानं भक्ति: इति अभिधीयते ।
तात्पर्यम्
अस्मिन् श्लोके भगवान् श्री आदिशंकराचार्य: भक्ति: पदस्य निर्वचनं वदति मोक्षसाधनसमुदायमध्ये भक्ति: एव गरीयसी । स्वस्वरूपानुसंधानं भक्ति: इति अभिधीयते ।
व्याकरणम्
सन्धि:
भक्ति: + एव - विसर्गरेफ:
भक्ति: + इति - विसर्गरेफ:
इति + अभिधीयते - यण्सन्धि:
मूलश्लोक:
स्वात्मतत्त्वानुसंधानं भक्तिरित्यपरे जगु: ।
उक्तसाधनसम्पन्नस्तत्त्वजिज्ञासुरात्मन: ॥३३॥
उपसीदेद्गुरुं प्राज्ञं यस्माद्बन्धविमोक्षणम् ।
पदविभाग:
स्वात्मतत्त्वानुसंधानं भक्ति: इति अपरे जगु: उक्तसाधनसम्पन्न: तत्त्वजिज्ञासु: आत्मन: उपसीदेत् गुरुं प्राज्ञं यस्मात् बन्धविमोक्षणम्
पदार्थ:
स्वात्मतत्त्वानुसंधानं - स्वस्य जीवस्य तत्त्वविचार अनुसंधानम्
भक्ति: - भक्ति:
इति - एवम्
अपरे - अन्ये
जगु: - वदन्ति
उक्तसाधनसम्पन्न: - पूर्वोक्त-विचारसाधनयुक्त:
तत्त्वजिज्ञासु: - तत्त्वं ज्ञातुमिच्छु:
आत्मन: - स्वस्य
उपसीदेत् - शरणं गच्छेत्
गुरुं - सद्गुरुम
प्राज्ञं - ब्रह्मसाक्षात्कारम्
यस्मात् - यादृशगुरो: सकाशात्
बन्धविमोक्षणम् - बन्धविमोक्षणम्
अन्वय:
स्वात्मतत्त्वानुसंधानं भक्ति: इति अपरे जगु: । उक्तसाधनसम्पन्न: आत्मन: तत्त्वजिज्ञासु: यस्मात् बन्धविमोक्षणम् (भवति) प्राज्ञं गुरुं उपसीदेत् ।
तात्पर्यम्
स्वस्य जीवस्य तत्त्वविचारमेव भक्ति: इति अन्ये आहु: । पूर्वोक्त-विचारसाधनयुक्त: आत्मन: तत्त्वं ज्ञातुमिच्छु: यादृशगुरो: सकाशात् संसारबन्धविमोक्षणम् भवति तादृशब्रह्मसाक्षात्कारप्राप्तगुरुं शरणं गच्छेत्।
व्याकरणम्
सन्धि:
भक्ति: + इति - विसर्गरेफ:
इति + अपरे - यण्सन्धि:.
उक्तसाधनसम्पन्न: + तत्त्वजिज्ञासु:- विसर्गसकार:
तत्त्वजिज्ञासु: + आत्मन: - विसर्गरेफ:
उपसीदेत् + गुरुं - जश्त्वसन्धि:
यस्मात् + बन्धविमोक्षणम् - जश्त्वसन्धि:
मूलश्लोक:
श्रोत्रियोsवृजुनोकामहतो यो ब्रह्मचित्तम: ॥३૪ ॥
ब्रह्मण्युपरत: शान्तो निरिन्धन इवानल: ।
अहेतुजदयासिन्धुर्बन्धुरानमतां सताम् ॥३५।
पदविभाग:
श्रोत्रिय: अवृजिन: अकामहत: य: ब्रह्मचित्तम: ब्रह्मणि उपरत: शान्त: निरिन्धन इव अनल: अहेतुकदयासिन्धु: बन्धु: आनमतां सताम्
पदार्थ:
श्रोत्रिय: - वेदज्ञ:
अवृजिन: - निष्पाप:
अकामहत: - अभासितस्वस्वरूप:
य: - य:
ब्रह्मचित्तम: - ब्रह्मज्ञानिनां श्रेष्ठ:
ब्रह्मणि - ब्रह्मनिष्ठायाम्
उपरत: -उपरत:
शान्त: - शान्तस्वरूप:
निरिन्धन इव अनल: -विलीनमनस्क: अहेतुकदयासिन्धु: - करुणासिन्धु: बन्धु: - दु:खकारक:
आनमतां - आनमतां
सताम् - सज्जनान्
अन्वय:
य: श्रोत्रिय: अवृजिन: अकामहत: ब्रह्मचित्तम: ब्रह्मणि उपरत: निरिन्धन इव अनल: शान्त: अहेतुकदयासिन्धु: आनमतां सताम् बन्धु: (स: एव गुरु:) ।
तात्पर्यम्
भगवान् श्री आदिशंकराचार्य: अस्मिन् श्लोके गुरुलक्षणम् वदति । य: वेदवेदान्तशास्त्रज्ञ: पापरहित: कामवर्जित: ब्रह्मज्ञानिनां श्रेष्ठ: ब्रह्मणि उपरत: निरिन्धन इव अनल: विलीनमनस्क: शान्तस्वरूप: अहेतुककरुणासिन्धु: आनमतां सताम् बन्धु: भवति स: एव गुरु: ।
व्याकरणम्
सन्धि:
श्रोत्रिय: + अवृजुन: - विसर्गउकार: पूर्वरूपसन्धि:
अवृजिन: + अकामहतो - विसर्गउकार: पूर्वरूपसन्धि:
य: + ब्रह्मचित्तम: - विसर्गउकार:
ब्रह्मणि + उपरत: - यण्सन्धि:
उपरत: + शान्त: - विसर्गसकार:
शान्त: + निरिन्धन - विसर्गउकार:
इव + अनल: - सवर्णदीर्घसन्धि:
अहेतुजदयासिन्धु: + बन्धु: - विसर्गरेफ:
बन्धु:+ आनमतां - विसर्गरेफ:
मूलश्लोक:
तमाराध्य गुरुं भक्त्या प्रह्व: प्रश्रयसेवनै: ।
प्रसन्नं तमनुप्राप्य पृच्छेज्ज्ञातव्यमात्मन: ॥ ३६॥
पदविभाग:
तम् आराध्य गुरुं भक्त्या प्रह्व: प्रश्रयसेवनै: प्रसन्नं तम् अनुप्राप्य पृच्छेत् ज्ञातव्यम् आत्मन:
पदार्थ:
तम् - तम् गुरुम्
आराध्य - संसेव्य
गुरुं - सद्गुरुम्
भक्त्या
प्रह्व: प्रश्रयसेवनै: - मनसा वचसा कायेन सेवां कृत्वा
प्रसन्नं - स्वाभिमुखम्
तम् - तम्
अनुप्राप्य - समीपे गत्वा
पृच्छेत् - पृच्छेत्
ज्ञातव्यम् - अवगन्तव्यम्
आत्मन: - आत्मन:
अन्वय:
(शिष्य:) तम् गुरुं भक्त्या प्रह्व: प्रश्रयसेवनै: आराध्य प्रसन्नं तम् अनुप्राप्य आत्मन:
ज्ञातव्यम् पृच्छेत् ।
तात्पर्यम्
शिष्य: तम् सद्गुरुं भक्त्या मनसा वचसा कायेन नमस्कारं कृत्वा आराध्य प्रसन्नं तम् समीपं गत्वा यत् आत्मन: विषये जिज्ञासितव्यं तत् पृच्छेत् ।भगवान् श्री कृष्ण: अपि भगवद्गीतायां
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया । इति उक्तवान् ।
व्याकरणम्
सन्धि:
पृच्छेत् + ज्ञातव्यम् - श्चुत्वसन्धि: जश्त्वसन्धि:
मूलश्लोक:
स्वामिन्नमस्ते नतलोकबन्धो कारुण्यसिन्धो पतितं भवाब्धौ।
मामुद्धरात्मीयकटाक्षदृष्ट्या ऋज्व्यातिकारुण्यसुधाभिवृष्ट्या ॥३७॥
पदविभाग:
स्वामिन् नमस्ते नतलोकबन्धो कारुण्यसिन्धो पतितं भवाब्धौ
माम् उद्धर आत्मीयकटाक्षदृष्ट्या ऋज्व्या अतिकारुण्यसुधाभिवृष्ट्या ॥
पदार्थ:
स्वामिन् - हे भगवन्
नमस्ते - ते नमस्कार:
नतलोकबन्धो - नतानां जनानां वन्धु:
कारुण्यसिन्धो - हे अहेरुक दयासिन्धो
पतितं - पतितम्
भवाब्धौ - भवसागरे
माम् - माम्
उद्धर - जन्मादि बन्धनिर्मुक्तं कुर्वित
आत्मीयकटाक्षदृष्ट्या - तव कटाक्षदृष्ट्या
ऋज्व्या - स्वभावसरलया
अतिकारुण्यसुधाभिवृष्ट्या - अतिकारुण्यसुधाभिवृष्ट्या
अन्वय:
हे स्वामिन् ! हे नतलोकबन्धो ! हे कारुण्यसिन्धो ! ते (तुभ्यम्) नम: (अस्तु) । भवाब्धौ पतितं माम् ऋज्व्या अतिकारुण्यसुधाभिवृष्ट्या आत्मीयकटाक्षदृष्ट्या उद्धर ।
तात्पर्यम्
अस्मिन् श्लोके भगवान् श्री आदिशंकराचार्य: अचार्य: कथं प्रार्थनीय: इति वदति । शिष्य: गरो: समीपं गत्वा हे स्वामिन् ! हे नतलोकबन्धो ! हे कारुण्यसिन्धो ! तुभ्यं मम नमस्कार: अस्तु । सम्सारसागरे पतितं माम् अतिकारुण्यसुधाभिवृष्ट्या सरलतया तव कटाक्षदृष्ट्या उद्धर ।
व्याकरणम्
सन्धि:
स्वामिन् + नमस्ते - अनुनासिकासन्धि:
उद्धर + आत्मीयकटाक्षदृष्ट्या - सवर्णदीर्घसन्धि:
ऋज्व्या + अतिकारुण्यसुधाभिवृष्ट्या - सवर्णदीर्घसन्धि:
मूलश्लोक:
दुर्वारसंसारदवाग्नितप्तं दोधूयमानं दुरदृष्टवातै: ।
भीतं प्रपन्नं परिपाहि मृत्यो: शरण्यमन्यंयदहं न जाने ॥ ३८॥
पदविभाग:
दुर्वारसंसारदवाग्नितप्तं दोधूयमानं दुरदृष्टवातै: भीतं प्रपन्नं परिपाहि मृत्यो: शरण्यम् अन्यं यत् अहं न जाने
पदार्थ:
दुर्वारसंसारदवाग्नितप्तं -दुर्वार-संसारदवाग्निना दग्धम्
दोधूयमानं - मुहुर्मुहु: कम्प्यमानम्
दुरदृष्टवातै: - दुरदृष्टपवनै:
भीतं - मृत्यो: भीतम्
प्रपन्नं - शरणागतम्
परिपाहि - परिपाहि
मृत्यो: - मरणात्
शरण्यम् - शरण्यम्
अन्यं - इतरस्थलम्
यत् - यत्
अहं - अहम्
न - न
जाने - जानामि
अन्वय:
दुर्वार-संसार-दवाग्नि-तप्तं दुरदृष्टवातै: दोधूयमानं भीतं प्रपन्नं अन्यं शरण्यम्
यत् अहं न जाने मृत्यो: परिपाहि ।
तात्पर्यम्
शिष्य: प्रसन्नं गुरुसमीपं गत्वा संसारसागरे निमग्नस्य स्वस्य उद्धरणार्थं प्रार्थितवान् । हे गुरु ! दुर्वार संसार दवाग्निना दग्धमिव अहमस्मि ।दुरदृष्टवातै: मुहुर्मुहु: कम्प्यमानेन भीत्या अनन्यं शरण्यं भवन्तं प्रपन्नं मां कृपया मृत्यो: परिपाहि ।
व्याकरणम्
सन्धि:
यत् + अहं - जश्त्वसन्धि:
मूलश्लोक:
शान्ता महान्तो निवसन्ति सन्तो वसन्तवल्लोकहितं चरन्त: ।
तीर्णा: स्वयं भीमभवार्णवं जना नहेतुनान्यानपि तारयन्त: ॥३९॥
पदविभाग:
शान्ता: महान्त: निवसन्ति सन्त: वसन्तवत् लोकहितं चरन्त:
तीर्णा: स्वयं भीमभवार्णवं जनान् अहेतुना अन्यान् अपि तारयन्त:
पदार्थ:
शान्ता: - शान्ता:
महान्त: - निर्विकारमनस्का:
निवसन्ति - लोके वसन्ति
सन्त: - अपरिच्छिन्नब्रह्मसाक्षात्कारवन्त:
वसन्तवत् - वसन्तकाल: इव
लोकहितं - लोकहितं
चरन्त: - कुर्वाण:
तीर्णा: - असंसारिण:
स्वयं - स्वयम्
भीमभवार्णवं - घोरसंसारसागरम्
जनान् - नरान्
अहेतुना - हेतुं विना
अन्यान् - इतरान्
अपि - अपि
तारयन्त: -तारयन्त:
अन्वय:
शान्ता: महान्त: वसन्तवत् लोकहितं चरन्त: भीमभवार्णवं स्वयं तीर्णा: अन्यान् जनान् अहेतुना तारयन्त:
सन्त: निवसन्ति ।
तात्पर्यम्
शान्ता: निर्विकारमनस्का: वसन्तवत् लोकहितं चरन्त: घोरसंसारसागरं स्वयं तीर्णा: अन्यान् जनान् अपिअहेतुना तारयन्त: सन्त: अत्र निवसन्ति ।
व्याकरणम्
सन्धि:
शान्ता: + महान्त: - विसर्गलोप:
महन्त: + निवसन्ति - विसर्गउकार:
सन्त: + वसन्तवत् - विसर्गउकार:
वसन्तवत् +लोकहितं - परसवर्णसन्धि:
अहेतुना + अन्यान् - सवर्णदीर्घसन्धि:
मूलश्लोक:
अयं स्वभावस्स्वत एव यत्परश्रमापनिदप्रवणं महात्मानम् ।
सुधांशुरेष स्वयमर्ककर्कशप्रभाभितप्तामवति क्षितिं किल ॥ ૪०॥
पदविभाग:
अयं स्वभाव: स्वत: एव यत्परश्रमापनिदप्रवणं महात्मानम्
सुधांशु: एष: स्वयम् अर्ककर्कशप्रभाभितप्ताम् अवति क्षितिं किल
पदार्थ:
अयं - अयम्
स्वभाव: - स्वभाव:
स्वत: एव - स्वयमेव
परश्रमापनिदप्रवणं - परान् दु:खं परिहर्तुं प्रयत्न:
महात्मानम् - सत्पुरुषानाम्
सुधांशु: - चन्द्र:
स्वयम् - स्वयम्
अर्ककर्कशप्रभाभितप्ताम् - सूर्यस्य प्रकाशेन तप्तम्
अवति - रक्षति
क्षितिं - भूमिम्
किल - खलु
अन्वय:
महात्मानम् स्वत: एव परश्रमापनिदप्रवणं यत् (अस्ति) अयं स्वभाव: अर्ककर्कशप्रभाभितप्ताम् क्षितिं एष: सुधांशु: स्वयम् अवति किल ?
तात्पर्यम्
सत्पुरुषा: स्वयमेव पराजनदु:खान् परिहर्तुं प्रयत्नं कुर्वन्ति ।अयं तेषां स्वभाव: । सूर्यस्य तीक्ष्णप्रकाशेन तप्तां भूमिं एष: अमृतकिरणचन्द्र: स्वयमेव रक्षति किल ? ।
व्याकरणम्
सन्धि:
स्वभाव: + स्वत: - विसर्गसकार:
स्वत: + एव - विसर्गलोप:
सुधांशु: + एष: -विसर्गरेफ:
नमो नम: श्रीगुरुपादुकाभ्याम् ।
~ शरवण:
Subscribe to:
Posts (Atom)
Vivekachudamani (Shlokas 91 to 110)
॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥ मूलश्लोक: बाह्येन्द्रियै: स्थूलपदार्थसेवां स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् । करो...
-
Sri Ramodantam - Grammatical Analysis (2 Parts) Namaskarams Sri Ramodantam Was written by Sri Parameshwarakavi in 16th Century. In 200 ...
-
प्रथमवयसि पीतं तोयमल्पं स्मरन्तः शिरसि निहितभाराः नारिकेलाः नराणाम् । ददति जलमतल्पास्वादमाजीवितान्तं न हि कृतमुपकारं साधवो विस्मरन्ति ॥ ...