॥ श्रीरामोदन्त: ॥
अथ बालकाण्ड: || 11-20 ||
Sloka No: 11
मूल श्लोक:
तदीयतरुरत्नानि पुनरानाय्य किङ्करै: ।
स्थापयित्वा तु लङ्कायाम् अवसच्च चिराय स: ॥११॥
पदविभाग:
तदीय तरुरत्नानि पुन: आनाय्य किङ्करै:
स्थापयित्वा तु लङ्कायाम् अवसत् च चिराय स:
अन्वय:
तदीय किङ्करै:तरुरत्नानि पुन: आनाय्य : स्थापयित्वा च तु स: लङ्कायाम् चिराय अवसत् ।
तात्पर्यम्
रावण: तस्य किङ्करै: कल्पकवृक्ष: पुन: आनाय्य स्थापितवान् । अत: स: लङ्कायां बहुकालम् अवसत् ।
व्याकरणम्
♦सन्धि:
पुन: + आनाय्य - विसर्ग रेफ:
अवसत् + च - श्चुत्वसन्धि:
Sloka No: 12
मूल श्लोक:
ततस्तस्मिन्नवसरे विधातारं दिवौकस: ।
उपगम्योचिरे सर्वं रावणस्य विचेष्टितम् ॥१२॥
पदविभाग:
तत: तस्मिन् अवसरे विधातारं दिवौकस:
उपगम्य उचिरे सर्वं रावणस्य विचेष्टितम्
अन्वय:
तत: तस्मिन् अवसरे विधातारं दिवौकस: उपगम्य रावणस्य विचेष्टितम् सर्वं उचिरे ।
तात्पर्यम्
पश्चात् तस्मिन समये देवा: ब्रह्मा समीपे गत्वा रावणस्य विचेष्टितम् सर्वं उक्तवन्त: ।
व्याकरणम्
♦सन्धि:
तत: + तस्मिन् - विसर्ग सकार:
तस्मिन् + अवसरे - ङमुडागमन सन्धि:
उपगम्य + उचिरे - गुणसन्धि:
♦समास:
दिवौकस: - द्यो: ओक: येषाम् ते बहुव्रीहि:
ऊचिरे - ब्रू आत्मनेपदि धातु: लिट् लकार: प्रथमपुरुष:
ऊचे-ऊचाते-ऊचिरे
Sloka No 13
मूल श्लोक:
तदाकर्ण्य सुरै: साकं प्राप्य दुग्धोदधेस्तटम् ।
तुष्टाव च हृषीकेशं विधाता विविधै: स्तवै: ॥१३॥
पदविभाग:
तदा आकर्ण्य सुरै: साकं प्राप्य दुग्धोदधे: तटम् तुष्टाव च हृषीकेशं विधाता विविधै: स्तवै:
अन्वय:
तदा आकर्ण्य विधाता सुरै: साकं दुग्धोदधे: तटम् प्राप्य च हृषीकेशं विविधै: स्तवै: तुष्टाव ।
तात्पर्यम्
यदा देवा: विधातारम् उक्तवन्त: तदा स: तत् श्रृत्वा सुरै: सह दुग्धोदधे: तटम् प्राप्य श्रीमहाविष्णुम् नानाविध स्तवै: सन्तुष्टवान् ।
व्याकरणम्
♦सन्धि:
तदा + आकर्ण्य - सवर्णदीर्घसन्धि:
दुग्धिदधे: + तटम् - विसर्ग सकार:
हृषीकेश: - हृषीकानाम् ईश: षष्ठीतत्पुरुष:
तुष्टाव - स्तु धातु: परस्मैपदि धातु: लिट् लकार: प्रथमपुरुष:
तुष्टाव-तुष्टुवतु:-तुष्टुवु:
Sloka No : 14
मूल श्लोक:
आविर्भूयाथ दैत्यारि: पप्रच्छ च पितामहम् ।
किमर्थमागतोसि त्वं साकं देवगणैरिति ॥ १૪॥
पदविभाग:
आविर्भूय अथ दैत्यारि: पप्रच्छ च पितामहम्
किमर्थम् अागत: आसि त्वं साकं देवगणै: इति
अन्वय:
अथ आविर्भूय दैत्यारि: पितामहम् किमर्थम् त्वं देवगणै: साकं च अागत: आसि इति पप्रच्छ ।
तात्पर्यम्
ब्रह्मा देवगणै: सह महाविष्णुम् मेलितुम् गतवान् । अत्र महाविष्णु: तेषां मध्ये आविर्भूय *"पितामह ! त्वं किमर्थम् देवगणै: सह अत्र अगत:"* इति पृष्टवान् ।
व्याकरणम्
♦सन्धि:
आविर्भूय + अथ - सवर्णदीर्घसन्धि:
अगत: + असि - विसर्ग उकार: पूर्वरूपसन्धि:
देवगणै: + इति - विसर्ग रेफ:
♦समास:
दैत्यारि: - दैत्यानाम् अरि: - षष्ठीतत्पुरुष:
Sloka No: 15
मूल श्लोक:
ततो दशाननात् पीडाम् अजस्तस्मै न्यवेदयत् ।
तच्छ्रुत्वोवाच धातारं हर्षयन् विष्टरश्रवा: ॥१५॥
पदविभाग:
तत: दशाननात् पीडाम् अज: तस्मै न्यवेदयत् तत् श्रृत्वा उवाच धातारं हर्षयन् विष्टरश्रवा:
अन्वय:
तत: अज: दशाननात् पीडाम् तस्मै न्यवेदयत् ।
तत् श्रृत्वा विष्टरश्रवा: हर्षयन् धातारं उवाच ।
तात्पर्यम्
पश्चात् ब्रह्मा रावणात् पीडाम् अवदत् । तत् श्रृत्वा श्रीविष्णु: हर्षयन् धातारम् अवदत् ।
व्याकरणम्
♦सन्धि:
तत: + दशाननात् - विसर्ग उकार:
अज: + तस्मै - विसर्गसकार:
तत् + श्रृत्वा - छत्वसन्धि:
श्रृत्वा + उवाच - गुणसन्धि:
न जायते इति अज: (ब्रह्मा)
विष्टरश्रवा: - महाविष्णु:
उवाच - ब्रू परस्मैपदि धातु: लिट् लकार प्रथमपुरुष:
उवाच-ऊचतु:-ऊचु:
Sloka No: 16
मूल श्लोक:
अलं भयेनात्मयोने ! गच्छ देवगणै: सह ।
अहं दाशरथिर्भूत्वा हनिष्यामि दशाननम् ॥१६॥
पदविभाग:
अलं भयेन आत्मयोने ! गच्छ देवगणै: सह अहं दाशरथि: भूत्वा हनिष्यामि दशाननम्
अन्वय:
हे आत्मयोने ! अलं भयेन। (त्वम् ) देवगणै: सह गच्छ । अहं दाशरथि: भूत्वा दशाननम् हनिष्यामि ।
तात्पर्यम्
हे अज! भयम् मास्तु । त्वं देवगणै: सह गच्छ । अहं दशरथस्य पुत्ररूपेण जनित्वा दशाननं हनिष्यामि ।
व्याकरणम्
♦सन्धि:
भयेन + आत्मयोने - सवर्णदीर्घसन्धि:
दाशरथि: + भूत्वा - विसर्ग रेफ:
दशरथस्य अपत्यं पुमान् दाशरथि::
Sloka No: 17
मूल श्लोक:
आत्मांशैश्च सुरा: सर्वे भूमौ वानररूपिण: ।
जायेरन् मम साहाय्यं कर्तुं रावणनिग्रहे ॥१७॥
पदविभाग:
आत्मांशै: च सुरा: सर्वे भूमौ वानररूपिण: जायेरन् मम साहाय्यं कर्तुं रावणनिग्रहे
अन्वय:
रावणनिग्रहे मम साहाय्यं कर्तुं सुरा: सर्वे आत्मांशै: च भूमौ वानररूपिण: जायेरन् ।
तात्पर्यम्
सर्वे देवा: अपि आत्मांशै: च भूमौ रावणनिग्रहे मम साहाय्यं कर्तुं वानररूपिण: (इव) जायेरन् ।
व्याकरणम्
♦सन्धि:
आत्मांशै: + च - विसर्गसकार:
जायरेन् - जन् आत्मनेपदि धातु:
विधिलिङ् प्रथमपुरुष:
जायेत-जायेयाताम् -जायेरन्
Sloka No: 18
मूल श्लोक:
एवमुक्त्वा विधातारं तत्रैवान्तर्दधे प्रभुः ।
पद्मयोनिस्तु गीर्वाणैः समं प्रायात्प्रहृष्टधीः ॥१८॥
पदविभाग:
एवम् उक्त्वा विधातारं तत्र एव अन्तर्दधे प्रभुः पद्मयोनिः तु गीर्वाणैः समं प्रायात् प्रहृष्टधीः
अन्वय:
एवम् विधातारं उक्त्वा प्रभुः तत्र एव अन्तर्दधे । पद्मयोनिः तु प्रहृष्टधीः गीर्वाणैः समं प्रायात् ।
तात्पर्यम्
महाविष्णु: एवं समाधान वाक्यम उक्तवा तत्र एव अन्तर्गत: । महाविष्णो: वाक्येन सन्तुष्ट ब्रह्मा सन्तोषेण देवा: सह प्रायात् ।
व्याकरणम्
♦सन्धि:
पद्मयोनिः + तु - विसर्गसकार:
♦समास:
पद्मयोनिः - पद्मं योनि: यस्य स: बहुव्रीहि:
प्रायात् - या धातु: परस्मैपदि लङ लकार: प्रथमपुरुष:
अयात्- अयाताम्- अयान्/अयु:
प्र + अयात् = प्रायात्
Sloka No: 19
मूल श्लोक:
अजीजनत्ततः शक्रो वालिनं नाम वानरम् ।
सुग्रीवमपि मार्ताण्डो हनुमन्तं च मारुतः ॥१९॥
पदविभाग:
अजीजनत् ततः शक्रः वालिनं नाम वानरम् सुग्रीवम् अपि मार्ताण्डः हनुमन्तं च मारुतः
अन्वय:
ततः शक्रः वालिनं नाम वानरम् (अजीजनत्), मार्ताण्डः सुग्रीवम् अपि अजीजनत् । मारुतः हनुमन्तं च (अजीजनत्) ।
तात्पर्यम्
पश्चात् इन्द्र: वालिनं नाम वानरम् अजीजनत् । सूर्य: सुग्रीवम् नाम अजीजनत् । वायु: हनुमन्तं च नाम अजीजनत् ।
व्याकरणम्
♦सन्धि:
मार्ताण्ड: + हनुमन्तम् - विसर्ग उकार:
Sloka No: 20
मूल श्लोक:
पुरैव जनयामास जाम्बवन्तं च पद्मजः ।
एवमन्ये च विबुधाः कपीनजनयन्बहून् ॥२०॥
पदविभाग:
पुरा एव जनयामास जाम्बवन्तं च पद्मजः । एवम् अन्ये च विबुधाः कपीन् अजनयन् बहून् ॥
अन्वय:
पद्मजः पुरा एव जाम्बवन्तं च जनयामास । एवम् अन्ये च विबुधाः कपीन् बहून् अजनयन् ।
तात्पर्यम्
ब्रह्मा पुरा एव जाम्बवन्त च जनयामास । इत्थम् अन्ये च देवा: बहून् कपिन च अजनयन् ।
व्याकरणम्
♦सन्धि:
पुरा + एव - वृद्धिसन्धि:
जनयामास - जन् धातु: परस्मैपदि लिट् लकार: प्रथमपुरुष: एकवचनम्
|
Wednesday, 21 March 2018
॥ श्रीरामोदन्त: ॥ बालकाण्ड: || 11-20 ||
Subscribe to:
Post Comments (Atom)
Vivekachudamani (Shlokas 91 to 110)
॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥ मूलश्लोक: बाह्येन्द्रियै: स्थूलपदार्थसेवां स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् । करो...
-
Sri Ramodantam - Grammatical Analysis (2 Parts) Namaskarams Sri Ramodantam Was written by Sri Parameshwarakavi in 16th Century. In 200 ...
-
प्रथमवयसि पीतं तोयमल्पं स्मरन्तः शिरसि निहितभाराः नारिकेलाः नराणाम् । ददति जलमतल्पास्वादमाजीवितान्तं न हि कृतमुपकारं साधवो विस्मरन्ति ॥ ...
No comments:
Post a Comment