Monday 12 March 2018

|| श्रीरामोदन्तम् || बालकाण्ड: 1-10 ||

|| श्रीरामोदन्तम् ||  बालकाण्ड: 1-10 ||



 श्रीकान्तो मातुलो यस्य​ जननी सर्वमंगला।
जनकः शंकरो देवः तम् वन्दे कुंजराननम्॥ 

यो दण्डकारण्यनिशाचरेन्द्रान् कोदण्डलीलाविषयीचकार ।
वेतण्डशुण्डायितबाहुदण्ड: कोदण्डप‍ाणि: कुलदैवतं न: ॥

|| श्रीरामोदन्त: ||
अथ बालकाण्ड:
Sloka No: 01

मूल श्लोक:
श्रीपतिं प्रणिपत्याहं श्रीवत्साङ्कितवक्षसम् ।
श्रीरामोदन्तमाख्यास्ये श्री वाल्मीकि प्रकीर्तितम् ॥ १॥


पदविभाग:

श्रीपतिं प्रणिपत्य अहं श्रीवत्साङ्कितवक्षसम् 
श्रीरामोदन्तम् आख्यास्ये श्री वाल्मीकि प्रकीर्तितम् 

अन्वय:
 अहं श्रीवत्स अङ्कित वक्षसम्    श्रीपतिं प्रणिपत्य श्री वाल्मीकि प्रकीर्तितम् 
श्रीरामोदन्तम् आख्यास्ये ।

तात्पर्यम्

अहं श्रीवत्स अङ्कित वक्षसम्    श्रीपतिं विष्णुं नमस्कृत्य श्री वाल्मीकिना पूर्वं उक्तं श्रीरामोदन्तं नाम कथां वदिष्यामि ।

व्याकरणम्
♦सन्धि:
श्रीवत्स + अङ्कित - सवर्णदीर्घसन्धि:

♦समास:
श्रीपति - श्रिय: पति : षष्ठीतत्पुरुष:

आख्यास्ये - लृट् लकार: उपु. एक
आत्मनेपदि धातु: 
आख्यास्ये - आख्यास्यावहे - आख्यास्यामहे


Sloka No: 02

मूल श्लोक:

पुरा विश्रवस: पुत्रो रावणो नाम राक्षस: ।
आसीदस्यानुजौ चास्तां कुम्भकर्णविभिषणौ ॥ २॥


पदविभाग:

पुरा विश्रवस: पुत्र: रावण: नाम राक्षस: आसीत् अस्य अनुजौ च आस्तां कुम्भकर्ण: विभिषण:

अन्वय:
पुरा विश्रवस: पुत्र: रावण: नाम राक्षस: आसीत् तस्य  कुम्भकर्ण: विभिषण: (नाम) अनुजौ च आस्ताम् ।

तात्पर्यम्
पूर्वं विश्रवस: नाम मुनि: आसीत् । स: पुलसत्यस्य पुत्र: । 
विश्रवस: मुनये कलत्रद्वयमासीत् । ते नाम कैकसी इडाविडा । रावण: कुम्भकर्ण: विभिषण:  च कैकेसीया:  पुत्रा: । सूर्पनखा तेषाम् सहोदरी । कुबेर: इडाविडाया: पुत्र: आसीत् ।

व्याकरणम्
♦सन्धि:
पुत्र: + रावण: विसर्ग उकार:
रावण: + नाम - 
विसर्ग उकार:
च + आस्ताम् - सवर्णदीर्घसन्धि:

Sloka No: 03

मूल श्लोक:
ते तु तीव्रण तपसा प्रत्यक्षीकृत्य वेधसम् ।
वव्रिरे च वरानिष्टान् अस्मादाश्रितवध्सलात् ॥३॥

पदविभाग:

ते तु तीव्रण तपसा प्रत्यक्षीकृत्य वेधसम् वव्रिरे च वरान् इष्टान् अस्मात् ‌आश्रितवध्सलात्

अन्वय:

ते  तीव्रण तपसा     प्रत्यक्षीकृत्य अस्मात् आश्रितवध्सलात् वेधसम्    इष्टान्  वरान् च वव्रिरे ।

तात्पर्यम्
रावण: तस्य अनुजौ सह तपस् आश्रितवान् । अत: तेषां मधये ब्रह्मा प्रत्यक्षीकृतवान् । तत: ते इष्टान् वरान् वव्रिरे ।


व्याकरणम्
♦सन्धि:

अस्मात् +  आश्रितवध्सलात् - जश्त्वसन्धि:

♦वव्रिरे - वृ धातु: आत्मनेपदि लिट् लकार: प्रथमपुरुष:
वव्रे - वव्राते - वव्रिरे

प्रत्यक्षीकृत्य - प्रति + अक्षि: + कृत्य


Sloka No: 04

मूल श्लोक:

रावणो मानुषादन्यै: अवध्यत्वं तथाsनुज: ।
निर्देवत्वेच्छया निद्रां कुम्भकर्णोsवृणीत च ॥૪॥


पदविभाग:

रावण: मानुषादन्यै: अवध्यत्वं अवृणीत तथा अनुज: च
निर्देवत्व इच्छया निद्रां कुम्भकर्ण: 

अन्वय:
रावण: मानुषादन्यै: अवध्यत्वं अवृणीत तथा अनुज: कुम्भकर्ण: च
निर्देवत्व इच्छया निद्रां  (अवृणीत)।

तात्पर्यम्
रावण: मानुषादन्यै: अवध्यत्वं वरं प्रापतवान् । तस्य सहोदर: कुम्भकर्ण: 
निर्देवत्व भावं इच्छया स: निद्रावत्वं वरं प्राप्तवान् । अत: स: सर्वदा निद्रां कृतव‍ान् ।

व्याकरणम्
♦सन्धि:
रावण: + मानुषादन्यै: - विसर्ग उकार:
कुम्भकर्ण: + अवृणीत - विसर्ग उकार:

अवध्यत्वं - अवध्यस्य भाव:
निष्क्रान्त: देवेभ्य: - निर्देव: - निर्देवस्य भाव: निर्देवत्वम्

अवृणीत - अात्मनेपदि *वृ* धातु लङ् लकार प्रथमपुरुष: एकवचनम्
अवृणीत-अवृणाताम्-अवृणत



Sloka No: 05

मूल श्लोक:

विभीषणो विष्णुभक्तिं वव्रे सत्वगुणान्वित: ।
तेभ्य एतान् वरान् दत्वा तत्रैवान्तर्दधे प्रभु: ॥५॥


पदविभाग:

विभीषण: विष्णुभक्तिं वव्रे सत्वगुणान्वित: तेभ्य: एतान् वरान् दत्वा तत्रैव अन्तर्दधे प्रभु: 

अन्वय:
 सत्वगुणान्वित:      विभीषण: विष्णुभक्तिं वव्रे । तेभ्य: एतान् वरान् दत्वा प्रभु: तत्रैव अन्तर्दधे  ।

तात्पर्यम्

रावणस्य सहोदर: विभीषण: स: सत्वगुण सम्पन्न: आसीत् । स: विष्णुभक्तिं प्रार्थीतवान् । तेभ्य: (रावण: कुम्भकर्ण: विभीषण: )एतान् वरान् दत्वा ब्रह्मा तत्रैव अन्तर्दधे ।

व्याकरणम्
♦सन्धि:
विभीषण: + विष्णुभक्तिं - विसर्ग उकार:

अन्तर्दधे - अन्त: + दधे - विसर्गरेफ:

तेभ्य: + एतान् - विसर्गलोप:

♦समास:
सत्वगुणै: अन्वित: - तृतीयातत्पुरुष:

 दधे - *धा* आत्मनेपदि धातु:
लिट् लकार: प्रथमपुरुष: 
दधे-दधाते- दधिरे

वव्रिरे - *वृ* धातु: आत्मनेपदि लिट् लकार: प्रथमपुरुष:
वव्रे - वव्राते - वव्रिरे




Sloka No: 06

मूल श्लोक:

रावणस्तु ततो गत्वा रणे जित्वा धनाधिपम् ।
लङ्कापुरीं पुष्पकं च हत्वा तत्रावसत् सुखम् ॥ ६॥


पदविभाग:

रावण: तु तत:  गत्वा रणे जित्वा धनाधिपम् 
लङ्कापुरीं पुष्पकं च हत्वा तत्र अवसत् सुखम् 

अन्वय:
तत:   रावण: लङ्कापुरीं गत्वा धनाधिपम्  रणे जित्वा  पुष्पकं च हत्वा तत्र 
सुखम् अवसत्  ।

तात्पर्यम्
रावण: वरं प्राप्तान् । तदनन्दरं स: लङ्क‍ापुरीं गतवान् । तत्र स: धनाधिपतिं जित्व‍ा पुष्पकविमानं च हत्वा तत्रैव सुखम् अवसत् ।


व्याकरणम्
♦सन्धि:
रावण: + तु - विसर्ग सकार:
तत: + गत्वा - विसर्ग उकार:
तत्र + अवसत् - सवर्णदीर्घसन्धि:

♦समास:
धनाधिपम् - धनस्य अधिपति: - तम् षष्ठितत्पुरुष:



Sloka No: 07


मूल श्लोक:

मन्दोदरीं मयसुतां परिणीय दशानन: ।
तस्यासुत्पादयामास मेघनादाह्वयं सुतम् ॥८॥

पदविभाग:
मन्दोदरीं मयसुतां परिणीय दशानन: 
तस्या: उत्पादयामास मेघनाद आह्वयं सुतम् 

अन्वय:
दशानन: मयसुतां
मन्दोदरीं  परिणीय 
तस्या: मेघनाद आह्वयं सुतम् उत्पादयामास ।

तात्पर्यम्
मय नाम एक: राक्षस: आसीत् । स: असुराणां नायक: । तस्य पुत्री मन्दोदरी । दशानन: रावण: ताम् विवाहं कृतवान् । पश्चात् मेघनाद नाम सुतं उत्पादयामास ।


व्याकरणम्
♦सन्धि:
तस्या: + उत्पादयामास - विसर्ग सकार:
मेघनाद + आह्वयम् - सवर्णदीर्घसन्धि:

♦समास:
मन्दोदरी - मन्दम् उदरं यस्या: सा - मन्दोदरी - समानाधिकरण बहुव्रीहि:
मेघस्य नाद इव नाद: यस्य स: - मेघनाद: - बहुव्रीहि:
परिणीय - परि +नीत्वा



Sloka No: 08

मूल श्लोक:
मन्दोदरीं मयसुतां परिणीय दशानन: ।
तस्यासुत्पादयामास मेघनादाह्वयं सुतम् ॥८॥

पदविभाग:
मन्दोदरीं मयसुतां परिणीय दशानन:
तस्या: उत्पादयामास मेघनाद आह्वयं सुतम्

अन्वय:
दशानन: मयसुतां
मन्दोदरीं  परिणीय
तस्या: मेघनाद आह्वयं सुतम् उत्पादयामास ।

तात्पर्यम्
मय नाम एक: राक्षस: आसीत् । स: असुराणां नायक: । तस्य पुत्री मन्दोदरी । दशानन: रावण: ताम् विवाहं कृतवान् । पश्चात् मेघनाद नाम सुतं उत्पादयामास ।


व्याकरणम्
♦सन्धि:
तस्या: + उत्पादयामास - विसर्ग सकार:
मेघनाद + आह्वयम् - सवर्णदीर्घसन्धि:

♦समास:
मन्दोदरी - मन्दम् उदरं यस्या: सा - मन्दोदरी - समानाधिकरण बहुव्रीहि:
मेघस्य नाद इव नाद: यस्य स: - मेघनाद: - बहुव्रीहि:

परिणीय - परि +नीत्वा



Sloka No: 09


मूल श्लोक:
रसां रसतलं चैव विजित्य स तु रावण:।
लोकानाक्रमयन् सर्वान् जहार च विलासिनी: ॥९॥


पदविभाग:
रसां रसतलं च एव विजित्य स: तु रावण:
लोकान् आक्रमयन् सर्वान् जहार च विलासिनी:

अन्वय:
स: रावण: रसां रसतलं च एव विजित्य सर्वान्
लोकान् आक्रमयन् विलासिनी: च जहार ।

तात्पर्यम्

लङ्गा नृप: रावण: रसां पातालं च जीतवान् । पश्चात् स: सर्वान् लोकान् आक्रमयन् महिला: च अपहरितवान् ।

व्याकरणम्
♦सन्धि:
च + एव - वृद्धिसन्धि:
स: + तु - विसर्गलोप:

विजित्य - वि + जि + ल्यप्
जहार - हृ धातु: आत्मनेपदि लिट् लकार: प्रथमपुरुष:
जहार - जह्रतु: जह्रु:


Sloka No: 10
मूल श्लोक:

दूषयन् वैदिकं कर्म द्विजानर्दयति स्म स:।
आत्मजेन ततो युद्धे वासवं चाप्यपीडयेत् ॥ १०॥


पदविभाग:
दूषयन् वैदिकं कर्म द्विजान् अर्दयति स्म स:
आत्मजेन तत: युद्धे वासवं च अपि अपीडयत् 


अन्वय:
स:  वैदिकं कर्म दूषयन्
द्विजान् अर्दयति स्म ।
 तत: (तस्य)  आत्मजेन
 युद्धे वासवं च अपि अपीडयत् ।

तात्पर्यम्
रावण: वैदिककर्मं दूषितवान् । द्विजान् अर्दयति स्म । पश्चात् तस्य पुत्रेण युद्धे इन्द्रम् अपि अपीडयत् ।


व्याकरणम्
♦सन्धि:
तत: + युद्धे - विसर्ग उकार:
च + अपि - सवर्णदीर्घसन्धि:
अपि + अपीडयत् - यण्सन्धि:

♦समास:
द्वि: जायन्ते इति द्विजा: बहुव्रीहि:

~ ✍ शरवण:

No comments:

Post a Comment

Vivekachudamani (Shlokas 91 to 110)

॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥   मूलश्लोक:   बाह्येन्द्रियै: स्थूलपदार्थसेवां स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् । करो...