Saturday 16 September 2017

Subhashitham 17.09.2017

तिलकं विप्र हस्तेन, मातृ हस्तेन भोजनम्।
पिण्डं पुत्र हस्तेन ,न भविष्यति पुनः पुनः ।।

पदविभाग: / प्रतिपदार्थ:

तिलकं - श्रेष्ठंअङ्गीकरणं 
विप्र: - पण्डित:
हस्तेन - करेण
मातृ - अम्बा
भोजनम् - भोजनम्
पिण्डम् - पिण्डम्
पुत्र: - सुत:
न भविष्यति - न प्राप्नोति
पुन: - अव्ययम्

अन्वय:

 विप्र हस्तेन तिलकं, मातृ हस्तेन भोजनम्, पुत्र हस्तेन पिण्डं पुनः पुनः न भविष्यति |

तात्पर्यम्

मनुष्य जन्म: बहु दुर्लभम् | भगवत् आशीर्वादेन वयं नर जन्मं प्राप्तवन्त: | अस्माकं जीवने विप्र हस्तेब श्रेष्टं अङ्गीकरणं माता हसतेन भोजनम् पुत्र हस्तेन पिण्डम् च बहु दुर्लभम् | एतत् भाग्यम् पुन: पुन: न भविष्यति इति सुभाषितकार: मनुष्यजन्मस्य महत्वम् उक्तवान् |

No comments:

Post a Comment

Vivekachudamani (Shlokas 91 to 110)

॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥   मूलश्लोक:   बाह्येन्द्रियै: स्थूलपदार्थसेवां स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् । करो...