॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥
Shloka No: 81
मूलश्लोक:
आपात वैराग्यवतो मुमुक्षून् भवाब्धिपारं प्रतिपातुमुद्यतान् ।
आशागृहो मज्जयतेsन्तराले निगृह्य कण्ठे विनिवर्त्य वेगात् ॥ ८१॥
पदविभाग:
आपात वैराग्यवत: मुमुक्षून् भवाब्धिपारं प्रतिपातुम् उद्यतान्
आशागृह: मज्जयते अन्तराले निगृह्य कण्ठे विनिवर्त्य वेगात्॥
पदार्थ:
आपात-वैराग्यवत: - दृढवैराग्यरहित:
मुमुक्षून् - मुमुक्षून्
भवाब्धिपारं - संसारसागरान्तम्
प्रतिपातुम् - प्राप्तुम्
उद्यतान् - उद्युक्तान्
आशागृह: -महानक्र:
मज्जयते - मग्नान् करोति
अन्तराले - समुद्रमध्ये
निगृह्य - नितरां गृहीत्वा
कण्ठे - कण्ठे
विनिवर्त्य - विनिवर्त्य
वेगात् - वेगात्
अन्वय:
भवाब्धिपारं प्रतिपातुम् उद्यतान् मुमुक्षून् आपात वैराग्यवत: आशागृह: कण्ठे निगृह्य वेगात् विनिवर्त्य अन्तराले मज्जयते ।
तात्पर्यम्
संसारसागरान्तं प्राप्तुम् उद्यतान् मुमुक्षून् दृढवैराग्यरहिता: चेत् आशा नाम महानक्र: कण्ठे नितरां गृहीत्वा वेगात् विनिवर्त्य समुद्रमध्ये मग्नान् करोति ।
व्याकरणम्
सन्धि:
आपात वैराग्यवत: + मुमुक्षून् - विसर्गउकार:
आशागृह: + मज्जयते - विसर्गउकार:
मज्जयते + अन्तराले - पूर्वरूपसन्धि:
Shloka No: 82
मूलश्लोक:
विषयाख्यग्रहो येन सुविरक्त्यसिना हत: ।
स गच्छति भवाम्भोधे: पारं प्रत्यूहवर्जित: ॥८२॥
पदविभाग:
विषयाख्यग्रह: येन सुविरक्त्यसिना हत: स: गच्छति भवाम्भोधे: पारं प्रत्यूहवर्जित:
पदार्थ:
विषयाख्यग्रह: - विषयनामकनक्र:
येन - येनबपुरुषेण
सुविरक्त्यसिना - दृढवैराग्यम् इति खड्गेन
हत: - नाशित:
स: - स: पुमान्
गच्छति - प्राप्नोति
भवाम्भोधे: - सम्सारसमुद्रस्य
पारं -अन्तम्
प्रत्यूहवर्जित: - विघ्नशून्य:
अन्वय:
विषयाख्यग्रह: येन सुविरक्त्यसिना हत: स: प्रत्यूहवर्जित: भवाम्भोधे: पारं
गच्छति ।
तात्पर्यम्
विषयनामकनक्र: येन पुरुषेण दृढवैराग्यम् इति खड्गेन नाशित: स:
विघ्नशून्य: सम्सारसागरस्य पारं प्राप्नोति ।
व्याकरणम्
सन्धि:
विषयाख्यग्रह: + येन - विसर्सुगउकार:
स: + गच्छति - विसर्गलोप:
Shloka No: 83
मूलश्लोक:
विषमविषयमार्गे गच्छतोsनच्छबुद्धे: प्रतिपदमभिघातो मृत्युरप्येष सिद्ध: ।
हितसुजनगुरूक्त्या गच्छत: स्वस्य युक्त्या
प्रभवति फलसिद्धि: सत्यमित्येव विद्धि ॥८३॥
पदविभाग:
विषमविषयमार्गे गच्छत: अनच्छबुद्धे:
प्रतिपदम् अभिघात: मृत्यु: अपि एष: सिद्ध: हितसुजनगुरूक्त्या गच्छत: स्वस्य युक्त्या प्रभवति फलसिद्धि: सत्यम् इति एव विद्धि
पदार्थ:
विषमविषयमार्गे - बहुविधविक्षेप-विषयमार्गे
गच्छत: - गच्छत:
अनच्छबुद्धे: - अशुद्धमनस्कस्य
प्रतिपदम् -प्रतिपदम्
अभिघात: - अभिघात:
मृत्यु: - काल:
सिद्ध: -अभिमतम्
हितसुजनगुरूक्त्या - हित-सुजन-गुरु-उक्त्या
गच्छत: - गच्छत:
स्वस्य - आत्मन:
युक्त्या -युक्त्या
प्रभवति - भवति
फलसिद्धि: - फलसिद्धि:
सत्यम् - सत्यम्
विद्धि - जानीहि
अन्वय:
विषमविषयमार्गे गच्छत: अनच्छबुद्धे: प्रतिपदम् अभिघात: मृत्यु: अपि एष: सिद्ध: । हित-सुजन-गुरूक्त्या स्वस्य युक्त्या गच्छत: फलसिद्धि: प्रभवति । सत्यम् इति एव विद्धि ।
तात्पर्यम्
बहुविधविक्षेप-विषयमार्गे गच्छत: अनच्छबुद्धे: प्रतिपदम् अभिघात: मृत्यु: अपि एष: सिद्ध: । हित-सुजन-गुरूक्त्या स्वस्य युक्त्या गच्छत: फलसिद्धि: प्रकर्षेण भवति । सत्यम् इति एव विद्धि ।
व्याकरणम्
सन्धि:
गच्छत: + अनच्छबुद्धे: - विसर्गउकार: पूर्वरूपसन्धि:
अभिघात: + मृत्यु: - विसर्गउकार:
मृत्यु: + अपि विसर्गरेफ:
अपि + एष: - यणसन्धि:
इति + एव - यणसन्धि:
Shloka No: 84
मूलश्लोक:
मोक्षस्य कांक्षा यदि वै तवास्ति त्यजातिदूराद्विषयान् विषं यथा ।
पीयूषवत्तोषदयाक्षमार्जव-प्रशा न्तिदान्तीर्भजनित्यमादरात् ॥८૪॥॥
पदविभाग:
मोक्षस्य कांक्षा यदि वै तव अस्ति त्यज अतिदूरात् विषयान् विषं यथा
पीयूषवत् तोषदयाक्षमार्जव-प्रशान्तिदान् ती: भज नित्यम् आदरात्
पदार्थ:
मोक्षस्य - मोक्षस्य
कांक्षा - इच्छा
तव - तुभ्यम्
त्यज - त्यज
अतिदूरात् -अतिदूरात्
विषयान् - शब्दादीन्
विषं - हालाहलम्
पीयूषवत् - अमृतवत् तोषदयाक्षमार्जव-प्रशान्तिदान् ती: - सन्तोष:-करुणा-तितिक्षा- अकुटिलचित्तता-प्रशान्ति:-बहिरि न्द्रियनिग्रहा:
भज - सेवस्व
नित्यम् - सर्वदा
आदरात् - अत्यन्तविश्वासेन
अन्वय:
यदि तव (तुभ्यम्) मोक्षस्य कांक्षा वै अस्ति (तर्हि) विषयान् यथा विषं अतिदूरात् त्यज । पीयूषवत् तोषदयाक्षमार्जव-प्रशान्तिदान् ती: नित्यम् आदरात् भज ।
तात्पर्यम्
यदि तुभ्यम् मोक्षस्य इच्छा वै अस्ति तर्हि शब्दादीन् सर्वान् विषयान् यथा
हालाहलं विषं अतिदूरात् त्यज । पीयूषवत् सन्तोष: करुणा तितिक्षा अकुटिलचित्तता प्रशान्ति: बहिरिन्द्रियनिग्रह: एतादृशान् गुणान् नित्यम् अत्यन्तविश्वासेन सेवस्व ।
व्याकरणम्
सन्धि:
तव + अस्ति - सवर्णदीर्घसन्धि:
त्यज + अतिदूरात् - सवर्णदीर्घसन्धि:
अतिदूरात् + विषयान् - जश्त्वसन्धि:
तोषदयाक्षमार्जव-प्रशान्तिदान् ती:+ भज - विसत्गरेफ:
Shloka No: 85
मूलश्लोक:
अनुक्षणं यत्परिहृत्य कृत्यं अनाद्यविद्याकृतबन्धमोक्षणम् ।
देह: परार्थाय-ममुष्य पोषणे यस्सज्जते स स्वमनेन हन्ति ॥८५॥
पदविभाग:
अनुक्षणं यत् परिहृत्य कृत्यं अनाद्यविद्याकृत बन्धमोक्षणम्
देह: परार्थ: अयम् अमुष्य पोषणे य: सज्जते स: स्वमनेन हन्ति
पदार्थ:
अनुक्षणं - सर्वदा
परिहृत्य - परित्यज्य
कृत्यं - कर्तव्यम्
अनाद्यविद्याकृतबन्धमोक्षणम्
- अनादि-अविद्यया कृत: बन्धात् मोक्षणम्
देह: - शरीरम्
परार्थ: - परानां र्अथ:
अमुष्य - अमुष्य
पोषणे - पोषणे
सज्जते - सज्जते
स्वमनेन - संवात्मना
हन्ति - हिनस्ति
अन्वय:
अनाद्यविद्याकृतबन्धमोक्षणम्
यत्अनुक्षणं कृत्यम् परिहृत्य
परार्थ: अयं देह: अमुष्य पोषणे य: सज्जते स: स्वमनेन हन्ति ।
तात्पर्यम्
अनाद्यविद्याकृतबन्धात् मोक्षणम्
यत् सर्वदा कर्तव्यं तत् परित्यज्य
परार्थाय अस्य देहस्य पोषणे य: अभिमानं करोति स: स्वमनेन हन्ति ।
व्याकरणम्
सन्धि:
य: + सज्जते - विर्सगसकार:
Shloka No: 86
मूलश्लोक:
शरीरपोषणार्थी सन् य आत्मानं दिदृक्षते ।
ग्राहं दारुधिया धृत्वा नदीं तर्तुं स इच्छति ॥८६॥
पदविभाग:
शरीरपोषणार्थी सन् य: आत्मानं दिदृक्षते ग्राहं दारुधिया धृत्वा नदीं तर्तुं स: इच्छति
पदार्थ:
शरीरपोषणार्थी - शरीरस्य पोषणं अर्थयितुं शीलं अस्य इति
आत्मानं - स्वस्वरूपम्
दिदृक्षते - दृष्टुमिच्छति
ग्राहं - ग्राहम्
दारुधिया - दारुधिया
धृत्वा - धृत्वा
नदीं - नदीम्
तर्तुं - तरणम् कर्तुम्
स: - स:
इच्छति - इच्छति
अन्वय:
शरीरपोषणार्थी सन् य: आत्मानं दिदृक्षते स: ग्राहं दारुधिया (इति) धृत्वा
नदीं तर्तुं इच्छति ।
तात्पर्यम्
शरीरपोषणार्थी सन् य: नर: स्वस्वरूपं साक्षात्कर्तुमिच्छति तस्य आत्मदर्शनं दारुधिया धृतग्राहस्य नदी तरणमिव असम्भावितम् इति आह ।
व्याकरणम्
सन्धि:
य: + आत्मानम् - विर्सगलोप:
स: + इच्छति - - विर्सगलोप:
Shloka No: 87
मूलश्लोक:
मोह एव महामृत्यु: मुमुक्षोर्वपुरादिषु ।
मोहो विनिर्जितो येन स मुक्तिपदमर्हति ॥८७॥
पदविभाग:
मोह: एव महामृत्यु: मुमुक्षो: वपुरादिषु
मोह: विनिर्जित: येन स मुक्तिपदम् अर्हति
पदार्थ:
मोह: - अहं - ममभाव:
महामृत्यु: - महामृत्यु:
मुमुक्षो: मोक्तुमिच्छो:
वपुरादिषु - शरीर-कलत्र-पुत्रादिषु
मोह: - अहं - ममभाव:॥
विनिर्जित: - परित्यक्त:
मुक्तिपदम् - मुक्तिमार्र्गम्
अर्हति - अर्हति
अन्वय:
वपुरादिषु मोह: एव मुमुक्षो: महामृत्यु:(भवति) । येन मोह: विनिर्जित: स: मुक्तिपदम् अर्हति ।
तात्पर्यम्
शरीर-कलत्र-पुत्रादिषु अहं - मम-भाव: एव मोक्तुमिच्छो: महामृत्यु: भवति । येन मनुष्येन अहंममाभिमानं विनिर्जित: स: एव मुच्यते ।
व्याकरणम्
सन्धि:
मोह: + एव - विसर्गलोप:
मुमुक्षो: + वपुरादिषु - विसर्गरेफ:
मोह: + विनिर्जित: - विसर्गउकार:
विनिर्जित: + येन - विसर्गउकार:
स: +मुक्तिपदम् - विसर्गलोप:
Shloka No: 88
मूलश्लोक:
मोहं जहि महामृत्युं देहदारसुतादिषु ।
यं जित्वा मुनयो यान्ति तद्विष्णो: परमं पदम् ॥८८॥
पदविभाग:
मोहं जहि महामृत्युं देहदारसुतादिषु
यं जित्वा मुनय: यान्ति तत् विष्णो: परमं पदम्
पदार्थ:
मोहं - तदात्म्याभिमानम्
जहि - जहि
महामृत्युं - महामृत्युं
देहदारसुतादिषु - शरीर-कलत्र-पुत्रादिषु
जित्वा - जित्वा
मुनय: - मननशील:
यान्ति - प्राप्नुवन्ति
विष्णो: - विष्णो:
परमं - श्रेष्ठम्
पदम् - पदम्
अन्वय:
देहदारसुतादिषु महामृत्युं मोहं जहि ।
यं जित्वा मुनय: विष्णो: परमं पदम् तत् यान्ति ।
तात्पर्यम्
शरीर-कलत्र-पुत्रादिषु महामृत्युं मोहं जहि । यं मोहं जित्वा मननशीला: तत्
विष्णो: परमं पदम् यान्ति ।
व्याकरणम्
सन्धि:
मुनय: + यान्ति - विसर्गउकार:
तत् + विष्णो: - जश्त्वसन्धि:
Shloka No: 89
मूलश्लोक:
त्वङ्मांसरुधिरस्नायुमेदो-मज् जा स्थिसंकुलम् ।
पूर्णं मूत्रपुरीषाभ्यां स्थूलं निन्द्यमिदं वपु: ॥८९॥
पदविभाग:
त्वङ्मांसरुधिरस्नायुमेदो-मज्जा स्थिसंकुलम् पूर्णं मूत्रपुरीषाभ्यां स्थूलं निन्द्यम् इदं वपु:
पदार्थ:
त्वङ्मांसरुधिरस्नायुमेदो-मज्जा स्थिसंकुलम् - त्वक्-माम्स-रक्त:-नाड्य:-मेद:- मज्जा-अस्थि-एतेषां गण:
पूर्णं - सम्पूर्णम्
मूत्रपुरीषाभ्यां - मलमूत्रभाण्डम्
स्थूलं - स्थूलम्
निन्द्यम् - निन्द्यम्
वपु: - शरीरम्
अन्वय:
त्वङ्मांसरुधिरस्नायुमेदो-मज्जा स्थिसंकुलम् मूत्रपुरीषाभ्यां पूर्णं निन्द्यम् इदं वपु: स्थूलम् ( इत्युच्यते) ।
तात्पर्यम्
त्वक्-माम्स-रक्त:-नाड्य:-मेद:- मज्जा-अस्थि-एतेषां गण: मूत्रपुरीषाभ्यां पूर्णं निन्द्यम् इदं वपु: स्थूलशरीरम् इत्युच्यते ।
Shloka No: 90
मूलश्लोक:
पञ्चीकृतेभ्यो भूतेभ्य: स्थूलेभ्य: पूर्वकर्मणा ।
समुत्पन्नमिदं स्थूलं भोगायतनमात्मन: ॥
अवस्था जागरस्तस्य स्थूलार्थानुभवो यत: ॥९०॥
पदविभाग:
पञ्चीकृतेभ्य: भूतेभ्य: स्थूलेभ्य: पूर्वकर्मणा समुत्पन्नम् इदं स्थूलं भोगायतनम् आत्मन: अवस्था जागर: तस्य स्थूलार्थानुभव: यत:
पदार्थ:
पञ्चीकृतेभ्य: - पञ्चीकरणं कृतेभ्य:
भूतेभ्य: - भूतेभ्य:
स्थूलेभ्य: - पृथिवीत्यादिव्यवहारयोग्येभ्य:
पूर्वकर्मणा - पुण्यपापमिश्रानुसारेण
समुत्पन्नम् - सम्यक् जातम्
स्थूलं - स्थूलम्
भोगायतनम् -सुखदु:ख-भोग-आयतनम्
आत्मन: - आत्मन:
अवस्था - स्थिति:
जागर: -जागर:
स्थूलार्थानुभव:- स्थूल-अर्थ-अनुभव:
अन्वय:
पञ्चीकृतेभ्य: स्थूलेभ्य: भूतेभ्य:
पूर्वकर्मणा समुत्पन्नम् इदं स्थूलं (शरीरम्) आत्मन: भोगायतनम् । यत:
स्थूलार्थानुभव: तस्य जागर: अवस्था
।
तात्पर्यम्
पञ्चीकरणं कृतेभ्य: स्थूलेभ्य: भूतेभ्य:
पुण्यपापमिश्रानुसारेण समुत्पन्नम् इदं स्थूलं शरीरम् आत्मन: सुखदु:ख-भोग-आयतनम् । यत:
स्थूलार्थानुभव: तस्य जागर: अवस्था इत्यर्थ: । पञ्चीकरणविषये षट्सप्ततितम: श्लोके विवरणं दत्तम् अस्ति ।
व्याकरणम्
सन्धि:
पञ्चीकृतेभ्य: + भूतेभ्य: -
विसर्गउकार:
जागर: + तस्य - विसर्गसकार:
स्थूलार्थानुभव: + यत: - विसर्गउकार:
नमो नम: श्रीगुरुपादुकाभ्याम् ।
~ शरवण:
17.10.2020