| ॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥
मूलश्लोक:
तद्वैराग्यं जुगुप्सा या दर्शनश्रवणादिभि: । देहादिब्रह्मपर्यन्ते ह्यनित्ये भोग्यवस्तुनि ॥२१॥
पदविभाग:
तत् वैराग्यं जुगुप्सा या दर्शनश्रवणादिभि: देहादिब्रह्मपर्यन्ते हि अनित्ये भोग्यवस्तुनि
पदार्थ:
वैराग्यं - विरागस्य भाव: जुगुप्सा - जुगुप्सा दर्शनश्रवणादिभि: - वस्तुदर्शन-श्रवण-आदिभि: देहादिब्रह्मपर्यन्ते - शरीरमारभ्य ब्रह्मपर्यन्ते अनित्ये - मिथ्याभूते भोग्यवस्तुनि - भोग्यवस्तुनि
अन्वय:
देहादिब्रह्मपर्यन्ते हि अनित्ये भोग्यवस्तुनि दर्शनश्रवणादिभि: या जुगुप्सा (अस्ति)तत् वैराग्यं (इति उच्यते) । तात्पर्यम्
पूर्वस्मिन् श्लोके भगवान् श्री आदिशङ्कराचार्य: विवेकस्य निर्वचनम् उक्तवान् । अस्मिन् श्लोके स: वैराग्यस्य निर्वचनं वदति ।शरीरत: ब्रह्मपर्यन्तं सर्वे अनित्यमेव इति दर्शनश्रवणादिभि: सम्यक् ज्ञात्वा कदापि ईदृशपदार्थ-सम्बन्ध: माभूदिति काकविष्ठायामिव-असह्यबुद्धि: वैराग्यं इति उच्यते ।
▶ व्याकरणम् सन्धि: तत् + वैराग्यम् - जश्त्वसन्धि:
हि+अनित्ये - यण्सन्धि:
मूलश्लोक:
विरज्य विषयव्रातात् दोषदृष्ट्या मुहुर्मुहु: । स्वलक्ष्ये नियतावस्था मनस: शम उच्यते ॥२२॥
पदविभाग:
विरज्य विषयव्रातात् दोषदृष्ट्या मुहुर्मुहु: स्वलक्ष्ये नियतावस्था मनस: शम उच्यते
पदार्थ:
विरज्य - वैराग्यं प्राप्य विषयव्रातात् - विषयग्रामात् दोषदृष्ट्या - विषयेषु दोषदृष्ट्या मुहुर्मुहु: - पुन: पुन: स्वलक्ष्ये - ब्रह्मणि नियतावस्था - नियत- अवस्था मनस: -मनस: शम: - शम: उच्यते - कथ्यते
अन्वय:
मुहु: मुहु: दोषदृष्ट्या विषयव्रातात् विरज्य मनस: स्वलक्ष्ये नियतावस्था शम: उच्यते । तात्पर्यम् पूर्वस्मिन् श्लोके भगवान् श्री आदिशङ्कराचार्य: वैराग्यस्य निर्वचनम् उक्तवान् । अस्मिन् श्लोके स: शमादिषट्कसम्पत्तिषु "शम:" गुणस्य निर्वचनम् वदति । पुन: पुन: दोषदृष्ट्या विषयग्रामात् वैराग्यं प्राप्य मनस: स्वलक्ष्ये ब्रह्मणि नियतावस्था शम: इति उच्यते ।
▶ व्याकरणम् सन्धि: मुहु: + मुहु: - विसर्गरेफ:
शम: + उच्यते - विसर्गलोप:
मूलश्लोक:
विषयेभ्य: परावर्त्य स्थापनं स्वस्वगोलके । उभयेषामिन्द्रियाणां स दम: परिकीर्तित: ॥२३॥
पदविभाग:
विषयेभ्य: परावर्त्य स्थापनं स्वस्वगोलके उभयेषाम् इन्द्रियाणां स: दम: परिकीर्तित:
पदार्थ:
विषयेभ्य: बाह्यविषयेभ्य: परावर्त्य - पराङ्मुखीकृत्य स्थापनं - स्थापनम् स्वस्वगोलके -स्वस्वस्थाने उभयेषाम् - उभयेषाम् इन्द्रियाणां - पञ्चेन्द्रियाणाम् दम: - दम: परिकीर्तित: - सम्यक् कथित:
अन्वय:
उभयेषाम् इन्द्रियाणां विषयेभ्य: परावर्त्य स्वस्वगोलके स्थापनं स: दम: परिकीर्तित: ।
तात्पर्यम्
पूर्वस्मिन् श्लोके भगवान् श्री आदिशङ्कराचार्य: शमादिषट्कसम्पत्तिषु शम: गुणस्य निर्वचनम् उक्तवान् । अस्मिन् श्लोके स: "दम:" गुणस्य निर्वचनम् वदति । उभयेषाम् इन्द्रियाणां इति कर्मेन्द्रियाणां ज्ञानेन्द्रियणां च विषये वदति । तेषां विषयमार्गेभ्य: पराङमुखीकृत्य स्वस्वस्थाने स्थापनं एव दम: इति उच्यते ।
▶ व्याकरणम् सन्धि:
स: + दम: - विसर्गलोप:
मूलश्लोक:
बाह्यानालम्बनं वृत्तेरेषोपरतिरुत्तमा ॥२૪॥ सहनं सर्वदु:खानां अप्रतीकारपूर्वकम् । चिन्ताविलापरहितं सा तितिक्षा निगद्यते ॥२५॥
पदविभाग:
बाह्यानालम्बनं वृत्ते: एषा उपरति: उत्तमा सहनं सर्वदु:खानां अप्रतीकारपूर्वकम् । चिन्ताविलापरहितं सा तितिक्षा निगद्यते
पदार्थ:
बाह्यानालम्बनं - बाह्यविषयविरक्तम् वृत्ते: - मनोवृत्ते: एषा - एषा उपरति: - उपरति: उत्तमा : - श्रेष्ठा सहनं - सहनम् सर्वदु:खानां - दु:खहेतुशीतोष्णादीनाम् अप्रतीकारपूर्वकम् - पूर्वे परिहारप्रयत्नरहितम् चिन्ताविलापरहितम् - चिन्ताविलापरहितं सा - सा तितिक्षा - तितिक्षा निगद्यते - उच्यते
अन्वय:
वृत्ते: बाह्यानालम्बनं एषा उत्तमा:उपरति: । अप्रतीकारपूर्वकम् चिन्ताविलापरहितं सर्वदु:खानां सहनं सा तितिक्षा निगद्यते । तात्पर्यम्
पूर्वस्मिन् श्लोके भगवान् श्री आदिशङ्कराचार्य: शमादिषट्कसम्पत्तिषु दम: गुणस्य निर्वचनम् उक्तवान् । अत्र स: उपरम: "तितिक्षा" गुणयो: निर्वचनम्व दति । वृत्ते: बाह्यविषये-अनालम्बनं एषा उत्तमा उपरति: इति उच्यते । अप्रतीकारपूर्वकम् चिन्ताविलापरहितं दु:खहेतुशीतोष्णादीनाम् सहिष्णुत्वं सा तितिक्षा इति उच्यते । ▶ व्याकरणम् सन्धि:
वृत्ते: + एषा - विसर्गरेफ:
एषा + उपरति: - गुणसन्धि:
उपरति: + उत्तमा - विसर्गरेफ:
स: + दम: - विसर्गलोप:
मूलश्लोक:
शास्त्रस्य गुरुवाक्यस्य सत्यबुद्ध्यावधारणा । सा श्रद्धा कथिता सद्भिर्यया वस्तूपलभ्यते ॥२६॥
पदविभाग:
शास्त्रस्य गुरुवाक्यस्य सत्यबुद्ध्या अवधारणा सा श्रद्धा कथिता सद्भि: यया वस्तूपलभ्यते
पदार्थ:
शास्त्रस्य -वेदान्तशास्त्रस्य गुरुवाक्यस्य - गुरूपदेशस्य सत्यबुद्ध्या - अबाधितार्थबोधकं इति बुद्ध्या अवधारणा - दृढविश्वास: सा - सा श्रद्धा - श्रद्धा कथिता - उक्ता सद्भि: - साधुभि: वस्तूपलभ्यते - वस्तु- ज्ञयते
अन्वय:
यया वस्तूपलभ्यते शास्त्रस्य गुरुवाक्यस्य सत्यबुद्ध्या अवधारणा सा श्रद्धा (इति) सद्भि: कथिता ।
तात्पर्यम्
पूर्वस्मिन् श्लोके भगवान् श्री आदिशङ्कराचार्य: शमादिषट्कसम्पत्तिषु उपरति: गुणस्य निर्वचनम् उक्तवान् । अत्र स: श्रद्धा पदस्य नित्वचनम् वदति । यया वस्तूपलभ्यते वेदान्तशास्त्रस्य गुरुवाक्यस्य सत्यबुद्ध्या दृढविश्वास: भवति सा एव श्रद्धा (इति) सद्भि: कथिता ।
▶ व्याकरणम् सन्धि:
सत्यबुद्ध्या + अवधारणा - सवर्णदीर्घसन्धि:
मूलश्लोक:
सम्यगास्थापनं बुद्धे: शुद्धे ब्रह्मणि सर्वदा । तत्समाधानमित्युक्तं न तु चित्तस्य लालनम् ॥२७॥
पदविभाग:
सम्यग् आस्थापनं बुद्धे: शुद्धे ब्रह्मणि सर्वदा तत् समाधानम् इति उक्तं न तु चित्तस्य लालनम्
पदार्थ:
सम्यग् - स्फुटतया आस्थापनं - दृढेन स्थापनम् बुद्धे: - आत्मिकाया: बुद्धे: शुद्धे - निर्गुणे ब्रह्मणि - ब्रह्मणि सर्वदा - नित्यम् समाधानम् - समाधानम् उक्तं - कथितम् चित्तस्य - अन्तकरणस्य लालनम् - लालनम्
अन्वय:
शुद्धे ब्रह्मणि बुद्धे: सर्वदा सम्यग् आस्थापनं तत् समाधानम् इति उक्तम् । चित्तस्य लालनम् तु न (अस्ति) ।
तात्पर्यम्
पूर्वस्मिन् श्लोके भगवान् श्री आदिशङ्कराचार्य: शमादिषट्कसम्पत्तिषु श्रद्धा गुणस्य निर्वचनम् उक्तवान् । अत्र स: उपरम: "समाधानम्" पदस्य निर्वचनम् वदति । निर्गुणे ब्रह्मणि बुद्धे: नित्यं सम्यक् स्थापनं समाधानम् इति कथितम् । अन्त:करणस्य लालनं समाधानं न भवति । भगवान् श्री आदिशङ्कराचार्य: तत्त्वबोधे समाधान पदस्य चित्तैकाग्रता इति निर्वचनम् दत्तवान् ।
▶ व्याकरणम् सन्धि:
सम्यग् + आस्थापनं - जश्त्वसन्धि:
मूलश्लोक:
अहंकारादिदेहान्तान् बन्धानज्ञानकल्पितान् । स्वस्वरूपावबोधेब मोक्तुमिच्छा मुमुक्षुता ॥२८॥
पदविभाग:
अहंकारादिदेहान्तान् बन्धान् अज्ञानकल्पितान् स्वस्वरूप- अवबोधेब मोक्तुम् इच्छा मुमुक्षुता
पदार्थ:
अहंकारादिदेहान्तान् - अहंकारमारभ्य देहपर्यन्तान् बन्धान् - बन्धान् अज्ञानकल्पितान् - अज्ञानेन कल्पितान् स्वस्वरूप- अवबोधेन - स्वस्वरूपज्ञानेन मोक्तुम् - त्यक्तुम् इच्छा - आशा मुमुक्षुता - मुमुक्षुत्वम्
अन्वय: स्वस्वरूप- अवबोधेन अज्ञानकल्पितान् अहंकारादिदेहान्तान् बन्धान् मोक्तुम् इच्छा मुमुक्षुता ।
तात्पर्यम्
एतावत् भगवान् श्री आदिशङ्कराचार्य: विवेकत: शमादिषट्कसम्पत्ति: पर्यन्तं गुणानां निर्वचनम् उक्तवान् । अस्मिन् श्लोके स: मुमुक्षा पदस्य निर्वचनं वदति । स्वस्वरूप- आत्मज्ञानेन अज्ञानेन कल्पितान् अहंकारादिदेहपर्यन्तान् बन्धान् मोक्तुम् इच्छा मुमुक्षुत्वम् इति । भगवान् श्री आदिशङ्कराचार्य: तत्त्वबोधे ममुक्षुत्वं पदाय " मोक्ष: मे भूयात् इति इच्छा मुमुक्षुत्वम्" इति निर्वचनं दत्तवान्।
मूलश्लोक:
मन्दमध्यमरूपापि वैराग्येण शमादिना । प्रसादेन गुरोस्सेयं प्रवृद्धा सूयते फलम् ॥२९॥
पदविभाग:
मन्दमध्यमरूपा अपि वैराग्येण शमादिना प्रसादेन गुरो: सा इयं प्रवृद्धा सूयते फलम्
पदार्थ:
मन्दमध्यमरूपा - मन्द-मध्यम-रूपा वैराग्येण -दृढवैराग्येण शमादिना - शमादिषट्कसम्पत्तिनाम् प्रसादेन - अनुगृहेण सा - मुमुक्षुता प्रवृद्धा -सम्यक् वृद्धिं प्राप्य सूयते - ददाति फलम् - प्रयोजनम्
अन्वय:
सा (मुमुक्षुता) मन्दमध्यमरूपा अपि वैराग्येण शमादिना गुरो:प्रसादेन इयं प्रवृद्धा फलम् सूयते ।
तात्पर्यम्
एतावत् भगवान् श्री आदिशङ्कराचार्य: साधनचतुष्टयस्य निर्वचनम् उक्तवान् । अत्र स: मुमुक्षा त्रिविधा - मन्दा , मध्यमा, प्रवृद्धा च इति वदति । सा (मुमुक्षुता) मन्दमध्यमरूपा अपि दृढवैराग्येण शमादिषट्कसम्पत्तिभि: गुरो: अनुगृहेण प्रवृद्धा फलम् ददाति ।
व्याकरणम् सन्धि:
मन्दमध्यमरूपा + अपि - सवर्णदीर्घसन्धि:
सा + इयम् - गुणसन्धि:
मूलश्लोक:
वैराग्यं च मुमुक्षुत्वं तीव्रं यस्य तु विद्यते । तस्मिन्नेवार्थवन्त: स्यु: फलवन्त: शमादय: ॥३०॥
पदविभाग:
वैराग्यं च मुमुक्षुत्वं तीव्रं यस्य तु विद्यते तस्मिन् एव अर्थवन्त: स्यु: फलवन्त: शमादय:
पदार्थ:
वैराग्यं - वैराग्यम् मुमुक्षुत्वं - मुमुक्षुत्वं तीव्रं - तीव्रत्वम् यस्य - यस्य नरस्य विद्यते - अस्ति तस्मिन् - तस्मिन् पुरुषे अर्थवन्त: - अर्थान्तर्गत: स्यु: -स्यु: फलवन्त: - फलं प्राप्तवन्त: शमादय: - शमादिषट्कसम्पत्ति:
अन्वय:
यस्य वैराग्यं च मुमुक्षुत्वं तीव्रं तु विद्यते तस्मिन् एव शमादय: अर्थवन्त: फलवन्त: स्यु: ।
तात्पर्यम्
एतावत् भगवान् श्री आदिशङ्कराचार्य: साधनचतुष्टयस्य निर्वचनम् उक्तवान् । अत्र स: यस्य नरस्य वैराग्यं मुमुक्षुत्वं च तीव्रं अस्ति तस्मिन् एव शमादय: अर्थवन्त: फलवन्त: च स्यु: । शमादिषट्कस्य साधनं दृठवैराग्यम् । शमादिषट्कस्य फलम् तीव्रमुमुक्षुत्वम् । अत: यस्य समीपे तीव्रवैराग्यं तीव्रमुमुक्षुत्वं च स्त: तस्य शमादय: एव अर्थवन्त: फलवन्त: च स्यु: ।
व्याकरणम् सन्धि:
तस्मिन् + एव - अनुनासिकासन्धि:
एव + अर्थवन्त: - सवर्णदीर्घसन्धि:
नमो नम: श्रीगुरुपादुकाभ्याम् ।
~ शरवण: | |
*मूलश्लोक:*
*तद्वैराग्यं जुगुप्सा या दर्शनश्रवणादिभि: ।*
*देहादिब्रह्मपर्यन्ते ह्यनित्ये भोग्यवस्तुनि ॥२१॥*
*पदविभाग:*
तत् वैराग्यं जुगुप्सा या दर्शनश्रवणादिभि:
देहादिब्रह्मपर्यन्ते हि अनित्ये भोग्यवस्तुनि
*पदार्थ:*
वैराग्यं - विरागस्य भाव:
जुगुप्सा - जुगुप्सा
दर्शनश्रवणादिभि: - वस्तुदर्शन-श्रवण-आदिभि:
देहादिब्रह्मपर्यन्ते - शरीरमारभ्य ब्रह्मपर्यन्ते
अनित्ये - मिथ्याभूते
भोग्यवस्तुनि - भोग्यवस्तुनि
*अन्वय:*
देहादिब्रह्मपर्यन्ते हि अनित्ये भोग्यवस्तुनि दर्शनश्रवणादिभि:
या जुगुप्सा (अस्ति)तत् वैराग्यं (इति उच्यते) ।
*तात्पर्यम्*
पूर्वस्मिन् श्लोके भगवान् श्री आदिशङ्कराचार्य: विवेकस्य निर्वचनम् उक्तवान् । अस्मिन् श्लोके स: वैराग्यस्य निर्वचनं वदति ।
शरीरत: ब्रह्मपर्यन्तं सर्वे अनित्यमेव इति दर्शनश्रवणादिभि:
सम्यक् ज्ञात्वा कदापि ईदृशपदार्थ-सम्बन्ध: माभूदिति काकविष्ठायामिव-असह्यबुद्धि: वैराग्यं इति उच्यते ।
▶ *व्याकरणम्*
_सन्धि:_
तत् + वैराग्यम् - जश्त्वसन्धि:
हि+अनित्ये - यण्सन्धि:
*नमो नम: श्रीगुरुपादुकाभ्याम् ।*
~ *शरवण:*
28.07.2020
[29/07, 05:47] शरवण:: *॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥*
*मूलश्लोक:*
*विरज्य विषयव्रातात् दोषदृष्ट्या मुहुर्मुहु: ।*
*स्वलक्ष्ये नियतावस्था मनस: शम उच्यते ॥२२॥*
*पदविभाग:*
विरज्य विषयव्रातात् दोषदृष्ट्या मुहुर्मुहु: स्वलक्ष्ये नियतावस्था मनस: शम उच्यते
*पदार्थ:*
विरज्य - वैराग्यं प्राप्य
विषयव्रातात् - विषयग्रामात्
दोषदृष्ट्या - विषयेषु दोषदृष्ट्या
मुहुर्मुहु: - पुन: पुन:
स्वलक्ष्ये - ब्रह्मणि
नियतावस्था - नियत- अवस्था
मनस: -मनस:
शम: - शम:
उच्यते - कथ्यते
*अन्वय:*
मुहु: मुहु: दोषदृष्ट्या विषयव्रातात्
विरज्य मनस: स्वलक्ष्ये नियतावस्था शम: उच्यते ।
*तात्पर्यम्*
पूर्वस्मिन् श्लोके भगवान् श्री आदिशङ्कराचार्य: वैराग्यस्य निर्वचनम् उक्तवान् । अस्मिन् श्लोके स: शमादिषट्कसम्पत्तिषु "शम:" गुणस्य निर्वचनम् वदति । पुन: पुन: दोषदृष्ट्या विषयग्रामात् वैराग्यं प्राप्य मनस: स्वलक्ष्ये ब्रह्मणि नियतावस्था शम: इति उच्यते ।
▶ *व्याकरणम्*
_सन्धि:_
मुहु: + मुहु: - विसर्गरेफ:
शम: + उच्यते - विसर्गलोप:
*नमो नम: श्रीगुरुपादुकाभ्याम् ।*
~ *शरवण:*
29.07.2020
[30/07, 04:56] शरवण:: *॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥*
*मूलश्लोक:*
*विषयेभ्य: परावर्त्य स्थापनं स्वस्वगोलके ।*
*उभयेषामिन्द्रियाणां स दम: परिकीर्तित: ॥२३॥*
*पदविभाग:*
विषयेभ्य: परावर्त्य स्थापनं स्वस्वगोलके उभयेषाम् इन्द्रियाणां स: दम: परिकीर्तित:
*पदार्थ:*
विषयेभ्य: बाह्यविषयेभ्य:
परावर्त्य - पराङ्मुखीकृत्य
स्थापनं - स्थापनम्
स्वस्वगोलके -स्वस्वस्थाने
उभयेषाम् - उभयेषाम्
इन्द्रियाणां - पञ्चेन्द्रियाणाम्
दम: - दम:
परिकीर्तित: - सम्यक् कथित:
*अन्वय:*
उभयेषाम् इन्द्रियाणां विषयेभ्य: परावर्त्य स्वस्वगोलके स्थापनं स: दम: परिकीर्तित: ।
*तात्पर्यम्*
पूर्वस्मिन् श्लोके भगवान् श्री आदिशङ्कराचार्य: शमादिषट्कसम्पत्तिषु शम: गुणस्य निर्वचनम् उक्तवान् । अस्मिन् श्लोके स: "दम:" गुणस्य निर्वचनम् वदति । उभयेषाम् इन्द्रियाणां इति कर्मेन्द्रियाणां ज्ञानेन्द्रियणां च विषये वदति । तेषां विषयमार्गेभ्य: पराङमुखीकृत्य स्वस्वस्थाने स्थापनं एव दम: इति उच्यते ।
▶ *व्याकरणम्*
_सन्धि:_
स: + दम: - विसर्गलोप:
*नमो नम: श्रीगुरुपादुकाभ्याम् ।*
~ *शरवण:*
30.07.2020
[03/08, 07:32] शरवण:: *॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥*
*मूलश्लोक:*
*बाह्यानालम्बनं वृत्तेरेषोपरतिरुत्तमा ॥२૪॥*
*सहनं सर्वदु:खानां अप्रतीकारपूर्वकम् ।*
*चिन्ताविलापरहितं सा तितिक्षा निगद्यते ॥२५॥*
*पदविभाग:*
बाह्यानालम्बनं वृत्ते: एषा उपरति: उत्तमा
सहनं सर्वदु:खानां अप्रतीकारपूर्वकम् ।
चिन्ताविलापरहितं सा तितिक्षा निगद्यते
*पदार्थ:*
बाह्यानालम्बनं - बाह्यविषयविरक्तम्
वृत्ते: - मनोवृत्ते:
एषा - एषा
उपरति: - उपरति:
उत्तमा : - श्रेष्ठा
सहनं - सहनम्
सर्वदु:खानां - दु:खहेतुशीतोष्णादीनाम्
अप्रतीकारपूर्वकम् - पूर्वे परिहारप्रयत्नरहितम् चिन्ताविलापरहितम् -
चिन्ताविलापरहितं
सा - सा
तितिक्षा - तितिक्षा
निगद्यते - उच्यते
*अन्वय:*
वृत्ते: बाह्यानालम्बनं एषा उत्तमा:
उपरति: । अप्रतीकारपूर्वकम्
चिन्ताविलापरहितं सर्वदु:खानां
सहनं सा तितिक्षा निगद्यते ।
*तात्पर्यम्*
पूर्वस्मिन् श्लोके भगवान् श्री आदिशङ्कराचार्य: शमादिषट्कसम्पत्तिषु दम: गुणस्य निर्वचनम् उक्तवान् । अत्र स: उपरम: "तितिक्षा" गुणयो: निर्वचनम् वदति । वृत्ते: बाह्यविषये-अनालम्बनं एषा उत्तमा उपरति: इति उच्यते । अप्रतीकारपूर्वकम्
चिन्ताविलापरहितं दु:खहेतुशीतोष्णादीनाम्
सहिष्णुत्वं सा तितिक्षा इति उच्यते ।
▶ *व्याकरणम्*
_सन्धि:_
वृत्ते: + एषा - विसर्गरेफ:
एषा + उपरति: - गुणसन्धि:
उपरति: + उत्तमा - विसर्गरेफ:
स: + दम: - विसर्गलोप:
*नमो नम: श्रीगुरुपादुकाभ्याम् ।*
~ *शरवण:*
03.08.2020
[04/08, 07:44] शरवण:: *॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥*
*मूलश्लोक:*
*शास्त्रस्य गुरुवाक्यस्य सत्यबुद्ध्यावधारणा ।*
*सा श्रद्धा कथिता सद्भिर्यया वस्तूपलभ्यते ॥२६॥*
*पदविभाग:*
शास्त्रस्य गुरुवाक्यस्य सत्यबुद्ध्या अवधारणा सा श्रद्धा कथिता सद्भि: यया वस्तूपलभ्यते
*पदार्थ:*
शास्त्रस्य -वेदान्तशास्त्रस्य
गुरुवाक्यस्य - गुरूपदेशस्य
सत्यबुद्ध्या - अबाधितार्थबोधकं इति बुद्ध्या
अवधारणा - दृढविश्वास:
सा - सा
श्रद्धा - श्रद्धा
कथिता - उक्ता
सद्भि: - साधुभि:
वस्तूपलभ्यते - वस्तु- ज्ञयते
*अन्वय:*
यया वस्तूपलभ्यते शास्त्रस्य गुरुवाक्यस्य सत्यबुद्ध्या अवधारणा सा श्रद्धा (इति) सद्भि: कथिता ।
*तात्पर्यम्*
पूर्वस्मिन् श्लोके भगवान् श्री आदिशङ्कराचार्य: शमादिषट्कसम्पत्तिषु उपरति: गुणस्य निर्वचनम् उक्तवान् । अत्र स: श्रद्धा पदस्य नित्वचनम् वदति । यया वस्तूपलभ्यते वेदान्तशास्त्रस्य गुरुवाक्यस्य सत्यबुद्ध्या दृढविश्वास: भवति सा एव श्रद्धा (इति) सद्भि: कथिता ।
▶ *व्याकरणम्*
_सन्धि:_
सत्यबुद्ध्या + अवधारणा - सवर्णदीर्घसन्धि:
*नमो नम: श्रीगुरुपादुकाभ्याम् ।*
~ *शरवण:*
04.08.2020
[05/08, 03:56] शरवण:: *॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥*
*मूलश्लोक:*
*सम्यगास्थापनं बुद्धे: शुद्धे ब्रह्मणि सर्वदा ।*
*तत्समाधानमित्युक्तं न तु चित्तस्य लालनम् ॥२७॥*
*पदविभाग:*
सम्यग् आस्थापनं बुद्धे: शुद्धे ब्रह्मणि सर्वदा तत् समाधानम् इति उक्तं न तु चित्तस्य लालनम्
*पदार्थ:*
सम्यग् - स्फुटतया
आस्थापनं - दृढेन स्थापनम्
बुद्धे: - आत्मिकाया: बुद्धे:
शुद्धे - निर्गुणे
ब्रह्मणि - ब्रह्मणि
सर्वदा - नित्यम्
समाधानम् - समाधानम्
उक्तं - कथितम्
चित्तस्य - अन्तकरणस्य
लालनम् - लालनम्
*अन्वय:*
शुद्धे ब्रह्मणि बुद्धे: सर्वदा सम्यग् आस्थापनं तत् समाधानम् इति उक्तम् । चित्तस्य लालनम् तु न (अस्ति) ।
*तात्पर्यम्*
पूर्वस्मिन् श्लोके भगवान् श्री आदिशङ्कराचार्य: शमादिषट्कसम्पत्तिषु श्रद्धा गुणस्य निर्वचनम् उक्तवान् । अत्र स: उपरम: "समाधानम्" पदस्य निर्वचनम् वदति । निर्गुणे ब्रह्मणि बुद्धे: नित्यं सम्यक् स्थापनं समाधानम् इति कथितम् । अन्त:करणस्य लालनं समाधानं न भवति । भगवान् श्री आदिशङ्कराचार्य: तत्त्वबोधे समाधान पदस्य चित्तैकाग्रता इति निर्वचनम् दत्तवान् ।
▶ *व्याकरणम्*
_सन्धि:_
सम्यग् + आस्थापनं - जश्त्वसन्धि:
*नमो नम: श्रीगुरुपादुकाभ्याम् ।*
~ *शरवण:*
05.08.2020
[06/08, 06:24] शरवण:: *॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥*
*मूलश्लोक:*
*अहंकारादिदेहान्तान् बन्धानज्ञानकल्पितान् ।*
*स्वस्वरूपावबोधेब मोक्तुमिच्छा मुमुक्षुता ॥२८॥*
*पदविभाग:*
अहंकारादिदेहान्तान् बन्धान् अज्ञानकल्पितान् ।
स्वस्वरूप- अवबोधेब मोक्तुम् इच्छा मुमुक्षुता
*पदार्थ:*
अहंकारादिदेहान्तान् - अहंकारमारभ्य देहपर्यन्तान्
बन्धान् - बन्धान्
अज्ञानकल्पितान् - अज्ञानेन कल्पितान्
स्वस्वरूप- अवबोधेन - सवस्वरूपज्ञानेन
मोक्तुम् - त्यक्तुम्
इच्छा - आशा
मुमुक्षुता - मुमुक्षुत्वम्
*अन्वय:*
स्वस्वरूप- अवबोधेन
अज्ञानकल्पितान् अहंकारादिदेहान्तान् बन्धान् मोक्तुम् इच्छा मुमुक्षुता ।
*तात्पर्यम्*
एतावत् भगवान् श्री आदिशङ्कराचार्य: विवेकत: शमादिषट्कसम्पत्ति: पर्यन्तं गुणानां निर्वचनम् उक्तवान् । अस्मिन् श्लोके स: मुमुक्षा पदस्य निर्वचनं वदति । स्वस्वरूप- आत्मज्ञानेन अज्ञानेन कल्पितान् अहंकारादिदेहपर्यन्तान् बन्धान् मोक्तुम् इच्छा मुमुक्षुत्वम् इति । भगवान् श्री आदिशङ्कराचार्य: तत्त्वबोधे ममुक्षुत्वं पदाय " मोक्ष: मे भूयात् इति इच्छा मुमुक्षुत्वम्" इति निर्वचनं दत्तवान्।
*नमो नम: श्रीगुरुपादुकाभ्याम् ।*
~ *शरवण:*
06.08.2020
[07/08, 06:08] शरवण:: *॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥*
*मूलश्लोक:*
*मन्दमध्यमरूपापि वैराग्येण शमादिना ।*
*प्रसादेन गुरोस्सेयं प्रवृद्धा सूयते फलम् ॥२९॥*
*पदविभाग:*
मन्दमध्यमरूपा अपि वैराग्येण शमादिना
प्रसादेन गुरो: सा इयं प्रवृद्धा सूयते फलम्
*पदार्थ:*
मन्दमध्यमरूपा - मन्द-मध्यम-रूपा
वैराग्येण -दृढवैराग्येण
शमादिना - सामादिषट्कसम्पत्तिनाम्
प्रसादेन - अनुगृहेण
सा - मुमुक्षुता
प्रवृद्धा -सम्यक् वृद्धिं प्राप्य
सूयते - ददाति
फलम् - प्रयोजनम्
*अन्वय:*
सा (मुमुक्षुता) मन्दमध्यमरूपा अपि वैराग्येण शमादिना गुरो:प्रसादेन इयं प्रवृद्धा फलम् सूयते ।
*तात्पर्यम्*
एतावत् भगवान् श्री आदिशङ्कराचार्य: साधनचतुष्टयस्य निर्वचनम् उक्तवान् । अत्र स: मुमुक्षा त्रिविधा - मन्दा , मध्यमा, प्रवृद्धा च इति वदति । सा (मुमुक्षुता) मन्दमध्यमरूपा अपि दृढवैराग्येण शमादिषट्कसम्पत्तिभि: गुरो: अनुगृहेण प्रवृद्धा फलम् ददाति ।
*व्याकरणम्*
_सन्धि:_
मन्दमध्यमरूपा + अपि - सवर्णदीर्घसन्धि:
सा + इयम् - गुणसन्धि:
*नमो नम: श्रीगुरुपादुकाभ्याम् ।*
~ *शरवण:*
07.08.2020
[08/08, 03:27] शरवण:: *॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥*
*मूलश्लोक:*
*वैराग्यं च मुमुक्षुत्वं तीव्रं यस्य तु विद्यते ।*
*तस्मिन्नेवार्थवन्त: स्यु: फलवन्त: शमादय: ॥३०॥*
*पदविभाग:*
वैराग्यं च मुमुक्षुत्वं तीव्रं यस्य तु विद्यते
तस्मिन् एव अर्थवन्त: स्यु: फलवन्त: शमादय:
*पदार्थ:*
वैराग्यं - वैराग्यम्
मुमुक्षुत्वं - मुमुक्षुत्वं
तीव्रं - तीव्रत्वम्
यस्य - यस्य नरस्य
विद्यते - अस्ति
तस्मिन् - तस्मिन् पुरुषे
अर्थवन्त: - अर्थान्तर्गत:
स्यु: -स्यु:
फलवन्त: - फलं प्राप्तवन्त:
शमादय: - शमादिषट्कसम्पत्ति:
*अन्वय:*
यस्य वैराग्यं च मुमुक्षुत्वं तीव्रं तु विद्यते
तस्मिन् एव शमादय: अर्थवन्त: फलवन्त: स्यु: ।
*तात्पर्यम्*
एतावत् भगवान् श्री आदिशङ्कराचार्य: साधनचतुष्टयस्य निर्वचनम् उक्तवान् । अत्र स: यस्य नरस्य वैराग्यं मुमुक्षुत्वं च तीव्रं अस्ति
तस्मिन् एव शमादय: अर्थवन्त: फलवन्त: च स्यु: । शमादिषट्कस्य साधनं दृठवैराग्यम् । शमादिषट्कस्य फलम् तीव्रमुमुक्षुत्वम् । अत: यस्य समीपे तीव्रवैराग्यं तीव्रमुमुक्षुत्वं च स्त: तस्य शमादय: एव अर्थवन्त: फलवन्त: च स्यु: ।
*व्याकरणम्*
_सन्धि:_
तस्मिन् + एव - अनुनासिकासन्धि:
एव + अर्थवन्त: - सवर्णदीर्घसन्धि:
*नमो नम: श्रीगुरुपादुकाभ्याम् ।*
~ *शरवण:*
08.08.2020
No comments:
Post a Comment