Thursday 28 December 2017

Srimath Bagavath Geetha Chapter 2 Sloka 36

Srimath Bagavath Geetha Chapter 2 Sloka 36

श्रीमद्भगवद्गीता   अथ द्वितीयोsध्याय:  साङ्ख्ययोग:
मूल श्लोकः
अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिता: ।

निनदन्तस्तव सामर्थ्यं ततो दु:खतरं नु किं ॥ 2.36॥

पदच्छेदः
अवाच्यवादान् च बहून् वदिष्यन्ति तव अहिता: निनदन्त: तव सामर्थ्यं तत: दु:खतरं नु किं 
पदपरिचयः
अवाच्यवादान् - अकार. पु. द्वि बहु

च - अव्ययम्

बहून् - उकार. पु. द्वि बहु

वदिष्यन्ति - लृट् प्रपु बहु

तव - दकार. पु. ष. एक

अहिता: - अकार. पु. प्र  बहु

निनदन्त: - दकार. पु. प्र बहु

तव - अकार. त्रि. ष. एक

सामर्थ्यं - अकार. नपु. द्वि एक

तत: - अव्ययम्

दु:खतरं - अकार. नपु. प्र एक

नु - - अव्ययम्

किं - दकार. नपु. प्र एक


पदार्थः
वाच्यवादान् - अवक्तव्यवादान् 

च - च

बहून् - अनेकप्रकारान्

वदिष्यन्ति - कथयिष्यन्ति

तव - तव

अहिता: - शत्रव:

निनदन्त: - कुत्सयन्त:

तव - तव

सामर्थ्यं - वीरम्

तत: - तत: 

दु:खतरं -  कष्ठतरम्

नु - नु

किं - किम्

अन्वयः

तव अहिता: तव सामर्थ्यं निन्दन्त: । बहून् अवाच्यवादान्  च वदिष्यन्ति । तत: दु:खतरं किं नु?

तात्पर्यम्

अयं श्लोक: श्रीमद्भगवद्गीतायां  द्वितीयोध्याये्  षट्त्रिंशत्तम: श्लोक: ।  भगवान्  श्रीकृष्ण: अर्जुनाय   एकत्रिंशत्तमात् श्लोकात् सप्तत्रिंशत्तम: श्लोकपर्यन्तं धर्माधर्मविवेकम् उपदिष्टवान् । अस्मिन् श्लोके भगवान् श्रीकृष्ण:तव शत्रव: अवक्तव्यवादान् बहून् कथयिष्यन्ति । तव सामार्थ्यं निन्दन्ति । तत: दु:खतरं किं नु ?एवम् अवदत् ।


व्याकरणम्
▶सन्धिः अवाच्यवादान् + च - सत्वसन्धि:तव + अहिता: सवर्णदीर्घसन्धि:निन्दन्त: + तव - विसर्ग सकार:तत: +दु:खतरम् - विसर्ग उकार:
▶ समासः अवाच्यवादान् - न विद्यते वाच्यवाद: येषाम् ते तान् - नञ्बहुव्रीहि:अहिता: - न विद्यते हितम् येषाम् ते नञ् बहुव्रीहि:

🌻🌹🌷💐🌻🌹🌷💐🌻🌹🌷💐🌻🌹🌷💐

श्री कृष्णार्पणमस्तु


No comments:

Post a Comment

Vivekachudamani (Shlokas 91 to 110)

॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥   मूलश्लोक:   बाह्येन्द्रियै: स्थूलपदार्थसेवां स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् । करो...