Tuesday, 19 September 2017

Subhashitham 20.09.2017

।।मातृ देवो भव।।

पितुरप्यधिका माता   
गर्भधारणपोषणात्  ।
अतो हि त्रिषु लोकेषु 
नास्ति मातृसमो गुरुः॥

पदविभाग:
पितु: अपि अधिका माता गर्भ धारण पोषणात् अत: हि त्रिषु लोकेषु नास्ति मातृसम: गुरु:

प्रतिपदार्थ:

पितु: - तातत्
अधिका - अधिका
गर्भ - गर्भिणी
धारणपोषणात् - गर्भरक्षणात्
लोकेषु - जगत्सु
मातृसम: - अम्बायै समान
गुरु: - गुरु:

अन्वय:
गर्भधारणपोषनात् माता पितु: अपि अधिका मातृसम: गुरु: त्रिषु लोकेषु नास्ति |

तात्पर्यम्
 
गर्भ धारणं पोषणं च कृते मातु: स्थानं पितु: स्थानात् अधिकं भवति। अत: त्रिषु लोकेषु माता समान गुरु: नास्ति। माता एव प्रथम गुरु:| अत: वयं सर्वे अस्माकं मातरं नमस्कारं करिष्याम: |

No comments:

Post a Comment

Vedanta Sara By Acharya Swami Sadananda

 Namaste The Word by Word Meaning of Vedanta Sara's First Part (Topics 1 to 31) is available for download from the following Link: https...