Thursday 1 March 2018

श्रीरामोदन्तम्

श्रीरामोदन्तम्
अथ बालकाण्ड:

मूल श्लोक:
यातुधानास्तत: सर्वे रसातलनिवासिन: ।
दशाननं समाश्रित्य लङ्कां च सुखमावसन् ॥७॥



पदविभाग:

यातुधाना: तत: सर्वे रसातल निवासिन:
दशाननं समाश्रित्य लङ्कां च सुखम् आवसन्

अन्वय:
यातुधाना: सर्वे    रसातलनिवासिन: ।  तत: (ते) दशाननं समाश्रित्य लङ्कां च सुखम् आवसन् ।

तात्पर्यम्
राक्षसा: पाताललोके अवसन् । यदा रावण: कुबेरं जित्वा लङ्काम् अवसत् तदा ते रावणं समाश्रित्य लङ्का नगरे सुखम् अावसन् ।


व्याकरणम्
♦सन्धि:
यातुधाना: + तत: -विसर्ग सकार:
आ+अवसन् - सवर्णदीर्घसन्धि:

♦समास:
दशानन: - दश आननानि यस्य स: - व्यधिकरणबहुव्रीहि:
🏹🏹🏹🏹🏹🏹

~ ✍ शरवण:

2 comments:

  1. सुन्दरोयं प्रयासः। शुभं भूयात्।

    ReplyDelete
  2. बहूत्तमम्। श्लाघ्यमिदम्।

    ReplyDelete

Vivekachudamani (Shlokas 91 to 110)

॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥   मूलश्लोक:   बाह्येन्द्रियै: स्थूलपदार्थसेवां स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् । करो...