Friday, 16 October 2020

Viveka Chudamani Shlokas 81 to 90

 ॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥

Shloka No: 81
मूलश्लोक:

आपात वैराग्यवतो मुमुक्षून् भवाब्धिपारं प्रतिपातुमुद्यतान् ।
आशागृहो मज्जयतेsन्तराले निगृह्य कण्ठे विनिवर्त्य वेगात् ॥ ८१॥

पदविभाग:

आपात वैराग्यवत: मुमुक्षून् भवाब्धिपारं प्रतिपातुम् उद्यतान् 
आशागृह: मज्जयते अन्तराले निगृह्य कण्ठे विनिवर्त्य वेगात्॥ 

पदार्थ:

 आपात-वैराग्यवत: - दृढवैराग्यरहित:
मुमुक्षून् - मुमुक्षून्
भवाब्धिपारं - संसारसागरान्तम्
प्रतिपातुम् - प्राप्तुम्
उद्यतान् - उद्युक्तान्
आशागृह: -महानक्र:
मज्जयते - मग्नान् करोति
अन्तराले - समुद्रमध्ये
निगृह्य - नितरां गृहीत्वा
कण्ठे -  कण्ठे
विनिवर्त्य -  विनिवर्त्य
वेगात् - वेगात्

अन्वय:

भवाब्धिपारं प्रतिपातुम् उद्यतान् मुमुक्षून् आपात वैराग्यवत: आशागृह: कण्ठे निगृह्य वेगात् विनिवर्त्य अन्तराले मज्जयते  ।

तात्पर्यम्
संसारसागरान्तं प्राप्तुम् उद्यतान् मुमुक्षून् दृढवैराग्यरहिता: चेत्  आशा नाम महानक्र:  कण्ठे नितरां गृहीत्वा वेगात् विनिवर्त्य समुद्रमध्ये  मग्न‍ान् करोति   ।
  
व्याकरणम्
सन्धि:
 
आपात वैराग्यवत: + मुमुक्षून् - विसर्गउकार:  

आशागृह: + मज्जयते - विसर्गउकार:

मज्जयते + अन्तराले - पूर्वरूपसन्धि:

Shloka No: 82

मूलश्लोक:

विषयाख्यग्रहो येन सुविरक्त्यसिना हत: ।
स गच्छति भवाम्भोधे: पारं प्रत्यूहवर्जित: ॥८२॥

पदविभाग:

विषयाख्यग्रह: येन सुविरक्त्यसिना हत: स: गच्छति भवाम्भोधे: पारं प्रत्यूहवर्जित: 

पदार्थ:

विषयाख्यग्रह: - विषयनामकनक्र:
 येन - येनबपुरुषेण
सुविरक्त्यसिना - दृढवैराग्यम् इति खड्गेन 
हत: - नाशित:
स: - स: पुमान्
गच्छति - प्राप्नोति
भवाम्भोधे: - सम्सारसमुद्रस्य
पारं -अन्तम्
प्रत्यूहवर्जित: - विघ्नशून्य:

अन्वय:

विषयाख्यग्रह: येन सुविरक्त्यसिना हत: स: प्रत्यूहवर्जित: भवाम्भोधे: पारं
गच्छति ।

तात्पर्यम्

विषयनामकनक्र: येन पुरुषेण दृढवैराग्यम् इति खड्गेन  नाशित: स:
विघ्नशून्य: सम्सारसागरस्य पारं प्राप्नोति  ।
  
व्याकरणम्
सन्धि:
 
विषयाख्यग्रह: + येन - विसर्सुगउकार:

स: + गच्छति - विसर्गलोप:
Shloka No: 83

मूलश्लोक:

विषमविषयमार्गे गच्छतोsनच्छबुद्धे: प्रतिपदमभिघातो मृत्युरप्येष सिद्ध: ।
हितसुजनगुरूक्त्या गच्छत: स्वस्य युक्त्या
प्रभवति फलसिद्धि: सत्यमित्येव विद्धि ॥८३॥

पदविभाग:

विषमविषयमार्गे गच्छत:  अनच्छबुद्धे:
प्रतिपदम् अभिघात: मृत्यु: अपि  एष: सिद्ध: हितसुजनगुरूक्त्या गच्छत: स्वस्य युक्त्या प्रभवति फलसिद्धि: सत्यम् इति एव  विद्धि 

पदार्थ:

विषमविषयमार्गे - बहुविधविक्षेप-विषयमार्गे
गच्छत: - गच्छत:
अनच्छबुद्धे: - अशुद्धमनस्कस्य
प्रतिपदम् -प्रतिपदम्
अभिघात: - अभिघात: 
मृत्यु: - काल:
सिद्ध: -अभिमतम्
हितसुजनगुरूक्त्या - हित-सुजन-गुरु-उक्त्या
गच्छत: - गच्छत: 
स्वस्य - आत्मन:
युक्त्या -युक्त्या
प्रभवति - भवति
फलसिद्धि: - फलसिद्धि:
सत्यम् - सत्यम् 
विद्धि - जानीहि

अन्वय:

विषमविषयमार्गे गच्छत:  अनच्छबुद्धे: प्रतिपदम् अभिघात: मृत्यु: अपि  एष: सिद्ध: । हित-सुजन-गुरूक्त्या  स्वस्य युक्त्या गच्छत: फलसिद्धि: प्रभवति । सत्यम् इति एव  विद्धि ।

तात्पर्यम्
बहुविधविक्षेप-विषयमार्गे गच्छत:  अनच्छबुद्धे: प्रतिपदम् अभिघात: मृत्यु: अपि  एष: सिद्ध: । हित-सुजन-गुरूक्त्या  स्वस्य युक्त्या गच्छत: फलसिद्धि: प्रकर्षेण भवति  । सत्यम् इति एव  विद्धि ।

व्याकरणम्
सन्धि:
 
 गच्छत:  + अनच्छबुद्धे: - विसर्गउकार: पूर्वरूपसन्धि:

 अभिघात: + मृत्यु: - विसर्गउकार:

मृत्यु: + अपि विसर्गरेफ:

अपि +  एष: - यणसन्धि: 

  इति + एव   - यणसन्धि: 

Shloka No: 84
मूलश्लोक:

मोक्षस्य कांक्षा यदि वै तवास्ति त्यजातिदूराद्विषयान् विषं यथ‍ा ।
पीयूषवत्तोषदयाक्षमार्जव-प्रशान्तिदान्तीर्भजनित्यमादरात् ॥८૪॥॥

पदविभाग:

मोक्षस्य कांक्षा यदि वै तव अस्ति त्यज अतिदूरात्  विषयान् विषं यथ‍ा 
पीयूषवत् तोषदयाक्षमार्जव-प्रशान्तिदान्ती: भज नित्यम् आदरात् 

पदार्थ:

मोक्षस्य -  मोक्षस्य
कांक्षा - इच्छा
तव - तुभ्यम्
 त्यज - त्यज
अतिदूरात्  -अतिदूरात्
विषयान् - शब्दादीन् 
विषं - हालाहलम्
पीयूषवत् - अमृतवत् तोषदयाक्षमार्जव-प्रशान्तिदान्ती: - सन्तोष:-करुणा-तितिक्षा- अकुटिलचित्तता-प्रशान्ति:-बहिरिन्द्रियनिग्रहा: 
भज - सेवस्व
नित्यम् - सर्वदा
आदरात् - अत्यन्तविश्वासेन 

अन्वय:

यदि तव (तुभ्यम्) मोक्षस्य कांक्षा  वै अस्ति (तर्हि) विषयान् यथा विषं अतिदूरात्   त्यज । पीयूषवत् तोषदयाक्षमार्जव-प्रशान्तिदान्ती:  नित्यम् आदरात् भज ।

तात्पर्यम्

यदि तुभ्यम् मोक्षस्य इच्छा  वै अस्ति तर्हि शब्दादीन् सर्वान् विषयान् यथा 
हालाहलं विषं अतिदूरात्   त्यज । पीयूषवत् सन्तोष: करुणा तितिक्षा अकुटिलचित्तता प्रशान्ति: बहिरिन्द्रियनिग्रह: एतादृशान्  गुणान् नित्यम् अत्यन्तविश्वासेन सेवस्व ।

व्याकरणम्
सन्धि:
 
  तव + अस्ति - सवर्णदीर्घसन्धि:

त्यज +  अतिदूरात् - सवर्णदीर्घसन्धि:

अतिदूरात् + विषयान् - जश्त्वसन्धि:

 तोषदयाक्षमार्जव-प्रशान्तिदान्ती:+ भज - विसत्गरेफ:

Shloka No: 85

मूलश्लोक:

अनुक्षणं यत्परिहृत्य कृत्यं अनाद्यविद्याकृतबन्धमोक्षणम् ।
देह: परार्थाय-ममुष्य पोषणे यस्सज्जते स स्वमनेन हन्ति ॥८५॥

पदविभाग:

अनुक्षणं यत् परिहृत्य कृत्यं अनाद्यविद्याकृत बन्धमोक्षणम् 
देह: परार्थ: अयम् अमुष्य पोषणे य: सज्जते स: स्वमनेन हन्ति 

पदार्थ:

अनुक्षणं - सर्वदा 
परिहृत्य - परित्यज्य
कृत्यं - कर्तव्यम्
अनाद्यविद्याकृतबन्धमोक्षणम्
- अनादि-अविद्यया कृत: बन्धात् मोक्षणम्
देह: - शरीरम्
परार्थ: - परानां र्अथ:
अमुष्य -  अमुष्य
पोषणे -  पोषणे
सज्जते - सज्जते
स्वमनेन - संवात्मना
हन्ति - हिनस्ति 

अन्वय:
अनाद्यविद्याकृतबन्धमोक्षणम् 
यत्अनुक्षणं  कृत्यम्  परिहृत्य
परार्थ: अयं देह: अमुष्य पोषणे य: सज्जते स: स्वमनेन हन्ति ।

तात्पर्यम्

अनाद्यविद्याकृतबन्धात् मोक्षणम् 
यत् सर्वदा  कर्तव्यं तत्  परित्यज्य
परार्थाय अस्य देहस्य  पोषणे य: अभिमानं करोति स: स्वमनेन हन्ति ।

व्याकरणम्
सन्धि:
 
 य: + सज्जते - विर्सगसकार: 

Shloka No: 86

मूलश्लोक:

शरीरपोषणार्थी सन् य आत्मानं दिदृक्षते ।
ग्राहं दारुधिया धृत्वा नदीं तर्तुं स इच्छति ॥८६॥

पदविभाग:

शरीरपोषणार्थी सन् य: आत्मानं दिदृक्षते ग्राहं दारुधिया धृत्वा नदीं तर्तुं स: इच्छति 

पदार्थ:

शरीरपोषणार्थी - शरीरस्य पोषणं अर्थयितुं शीलं अस्य इति
आत्मानं - स्वस्वरूपम् 
दिदृक्षते - दृष्टुमिच्छति
ग्राहं - ग्राहम्
दारुधिया - दारुधिया
धृत्वा - धृत्वा
नदीं - नदीम्
तर्तुं - तरणम् कर्तुम्
स: - स:
इच्छति - इच्छति

अन्वय:

शरीरपोषणार्थी सन् य: आत्मानं दिदृक्षते स: ग्राहं दारुधिया (इति) धृत्वा
 नदीं तर्तुं इच्छति  ।

तात्पर्यम्

शरीरपोषणार्थी सन् य: नर: स्वस्वरूपं साक्षात्कर्तुमिच्छति तस्य आत्मदर्शनं  दारुधिया धृतग्राहस्य नदी तरणमिव असम्भावितम् इति आह  ।

व्याकरणम्
सन्धि:
 
 य: + आत्मानम्  - विर्सगलोप: 

स: + इच्छति -  - विर्सगलोप: 


Shloka No: 87
मूलश्लोक:

मोह एव महामृत्यु: मुमुक्षोर्वपुरादिषु ।
मोहो विनिर्जितो येन स मुक्तिपदमर्हति ॥८७॥

पदविभाग:

मोह: एव महामृत्यु: मुमुक्षो:  वपुरादिषु 
मोह: विनिर्जित: येन स मुक्तिपदम् अर्हति 

पदार्थ:

मोह: - अहं - ममभाव:
महामृत्यु: - महामृत्यु:
मुमुक्षो:  मोक्तुमिच्छो: 
वपुरादिषु - शरीर-कलत्र-पुत्रादिषु
मोह: - अहं - ममभाव:॥
विनिर्जित: - परित्यक्त:
 मुक्तिपदम् - मुक्तिमार्र्गम् 
अर्हति - अर्हति

अन्वय:

 वपुरादिषु मोह: एव  मुमुक्षो: महामृत्यु:(भवति)  । येन मोह: विनिर्जित: स: मुक्तिपदम् अर्हति ।


तात्पर्यम्

शरीर-कलत्र-पुत्रादिषु अहं - मम-भाव: एव  मोक्तुमिच्छो: महामृत्यु: भवति । येन मनुष्येन  अहंममाभिमानं विनिर्जित: स: एव मुच्यते ।

व्याकरणम्
सन्धि:
 
 मोह: + एव - विसर्गलोप: 

 मुमुक्षो:  + वपुरादिषु - विसर्गरेफ:

मोह: + विनिर्जित: - विसर्गउकार:

विनिर्जित: + येन - विसर्गउकार:

 स: +मुक्तिपदम् - विसर्गलोप: 
Shloka No: 88

मूलश्लोक:

मोहं जहि महामृत्युं देहदारसुतादिषु ।
यं जित्वा मुनयो यान्ति तद्विष्णो: परमं पदम् ॥८८॥

पदविभाग:

मोहं जहि महामृत्युं देहदारसुतादिषु 
यं जित्वा मुनय: यान्ति तत्  विष्णो: परमं पदम् 

पदार्थ:

मोहं - तदात्म्याभिमानम्
जहि - जहि 
महामृत्युं -  महामृत्युं
देहदारसुतादिषु - शरीर-कलत्र-पुत्रादिषु
 जित्वा - जित्वा
मुनय: - मननशील: 
यान्ति - प्राप्नुवन्ति 
 विष्णो: - विष्णो:
परमं - श्रेष्ठम् 
पदम् -  पदम्

अन्वय:

देहदारसुतादिषु महामृत्युं मोहं जहि ।
यं जित्वा मुनय:  विष्णो: परमं पदम् तत् यान्ति ।

तात्पर्यम्

शरीर-कलत्र-पुत्रादिषु महामृत्युं मोहं जहि । यं मोहं जित्वा मननशीला:  तत्
विष्णो: परमं पदम्  यान्ति ।

व्याकरणम्
सन्धि:
 
 मुनय: + यान्ति  - विसर्गउकार: 

 तत् + विष्णो: - जश्त्वसन्धि:

Shloka No: 89
मूलश्लोक:

त्वङ्मांसरुधिरस्नायुमेदो-मज्जा स्थिसंकुलम् ।
पूर्णं मूत्रपुरीषाभ्यां स्थूलं निन्द्यमिदं वपु: ॥८९॥

पदविभाग:

त्वङ्मांसरुधिरस्नायुमेदो-मज्जास्थिसंकुलम् पूर्णं मूत्रपुरीषाभ्यां स्थूलं निन्द्यम् इदं वपु: 

पदार्थ:

त्वङ्मांसरुधिरस्नायुमेदो-मज्जास्थिसंकुलम् - त्वक्-माम्स-रक्त:-नाड्य:-मेद:-मज्जा-अस्थि-एतेषां गण:
पूर्णं - सम्पूर्णम्
मूत्रपुरीषाभ्यां - मलमूत्रभाण्डम्
स्थूलं -  स्थूलम्
निन्द्यम् -  निन्द्यम्
वपु: - शरीरम्

अन्वय:

त्वङ्मांसरुधिरस्नायुमेदो-मज्जास्थिसंकुलम्  मूत्रपुरीषाभ्यां पूर्णं निन्द्यम् इदं वपु: स्थूलम् ( इत्युच्यते) ।

तात्पर्यम्
त्वक्-माम्स-रक्त:-नाड्य:-मेद:-मज्जा-अस्थि-एतेषां गण:  मूत्रपुरीषाभ्यां पूर्णं निन्द्यम् इदं वपु: स्थूलशरीरम्  इत्युच्यते ।

Shloka No: 90

मूलश्लोक:

पञ्चीकृतेभ्यो भूतेभ्य: स्थूलेभ्य: पूर्वकर्मणा ।
समुत्पन्नमिदं स्थूलं भोगायतनमात्मन: ॥
अवस्था जागरस्तस्य स्थूलार्थानुभवो यत: ॥९०॥

पदविभाग:

पञ्चीकृतेभ्य: भूतेभ्य: स्थूलेभ्य: पूर्वकर्मणा समुत्पन्नम् इदं स्थूलं भोगायतनम् आत्मन: अवस्था जागर: तस्य स्थूलार्थानुभव: यत: 

पदार्थ:

पञ्चीकृतेभ्य: - पञ्चीकरणं कृतेभ्य:
भूतेभ्य: - भूतेभ्य:
स्थूलेभ्य: - पृथिवीत्यादिव्यवहारयोग्येभ्य:
पूर्वकर्मणा - पुण्यपापमिश्रानुसारेण
समुत्पन्नम् - सम्यक् जातम्
स्थूलं -  स्थूलम्
भोगायतनम् -सुखदु:ख-भोग-आयतनम्
आत्मन:  - आत्मन: 
अवस्था - स्थिति:
जागर: -जागर:
स्थूलार्थानुभव:- स्थूल-अर्थ-अनुभव:

अन्वय:

पञ्चीकृतेभ्य:   स्थूलेभ्य: भूतेभ्य:
पूर्वकर्मणा समुत्पन्नम् इदं स्थूलं (शरीरम्) आत्मन: भोगायतनम् । यत: 
 स्थूलार्थानुभव: तस्य  जागर: अवस्था 

तात्पर्यम्

पञ्चीकरणं कृतेभ्य: स्थूलेभ्य: भूतेभ्य:
पुण्यपापमिश्रानुसारेण समुत्पन्नम् इदं स्थूलं शरीरम् आत्मन: सुखदु:ख-भोग-आयतनम् । यत: 
 स्थूलार्थानुभव: तस्य  जागर: अवस्था इत्यर्थ: । पञ्चीकरणविषये षट्सप्ततितम: श्लोके विवरणं दत्तम् अस्ति ।

व्याकरणम्
सन्धि:

पञ्चीकृतेभ्य: + भूतेभ्य: - 
विसर्गउकार:

 जागर: + तस्य - विसर्गसकार:

स्थूलार्थानुभव: + यत: - विसर्गउकार:

नमो नम: श्रीगुरुपादुकाभ्याम् ।

~ शरवण:

17.10.2020

Saturday, 3 October 2020

Vivekachudamani Shlokas 71 to 80

॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥

Shloka No 71
मूलश्लोक:

मोक्षस्य हेतु: प्रथमो निगद्यते वैराग्यमत्यंतमनित्यवस्तुषु ।
ततस्शमश्चापि दमस्तितिक्षा न्यास: प्रसक्ताखिलकर्मणां भृशम् ॥७१॥

पदविभाग:

मोक्षस्य हेतु: प्रथम: निगद्यते वैराग्यम् अत्यंतम् अनित्यवस्तुषु 
तत: शम: च अपि   दम: तितिक्षा न्यास: प्रसक्ताखिलकर्मणां भृशम् 

पदार्थ:

मोक्षस्य - मोक्षस्य
हेतु: - कारणम् 
प्रथम: - प्रथम: 
निगद्यते - कथ्यते
वैराग्यम् - वैराग्यम्
अत्यंतम् - अत्यन्तम्
अनित्यवस्तुषु - अनित्यवस्तुषु
तत: - अत:
 शम: - मनो निग्रह:    
दम: - बाह्येन्द्रियनिग्रह:
तितिक्षा -तितिक्षा
न्यास: - त्याग:
प्रसक्ताखिलकर्मणां  -प्रसक्त- अखिलकर्मणां
भृशम् -  भृशम्

अन्वय:

मोक्षस्य प्रथम: हेतु: अनित्यवस्तुषु अत्यंतम् वैराग्यम् निगद्यते ।
तत:  शम: च अपि   दम: तितिक्षा  प्रसक्त-अखिलकर्मणां भृशम् न्यास:  ।

तात्पर्यम्

मोक्षस्य प्रथम: हेतु: अनित्यवस्तुषु अत्यंतम् वैराग्यम् इति कथ्यते ।
तत: मनोनिग्रह: बाह्येन्द्रियनिग्रह: तितिक्षा  प्रसक्ताखिलकर्मणां भृशम् 
न्यास: एव ।



व्याकरणम्
सन्धि:
प्रथम: + निगद्यते - विसर्गउकार:

शम: + च - विसर्गसकार:

च + अपि - सवर्णदीर्घसन्धि:

दम: + तितिक्षा - विसर्गसकार:
 

Shloka No 72
मूलश्लोक:

ततश्श्रुतिस्तन्मननं सतत्वध्यानं चिरं नित्यनिरंतरं मुने: ।
ततोsविकल्पं परमेत्य विद्वान् इहैव निर्वाणसुखं समृच्छति ॥ ७२॥

पदविभाग:

तत: श्रुति: तत् मननं सतत्वध्यानं चिरं नित्यनिरंतरं मुने: तत: अविकल्पं परम् एत्य विद्वान् इह एव निर्वाणसुखं समृच्छति 

पदार्थ:

 श्रुति: - अर्थत: गुरुमुखात्
मननं - मननम्
सतत्वध्यानं - परमार्थतत्वस्य धयानम्
चिरं - बहुकालम्
नित्यनिरंतरं - नित्यं निरन्तरम्
मुने: - मननशीलस्य
अविकल्पं - निर्विकल्पक समाधिं
परम् - श्रेष्ठम्
एत्य - प्राप्य
विद्वान्  - आत्मसाक्षात्कारवान्
निर्वाणसुखं - मुक्तिसौख्यम्
समृच्छति - निरर्गलम् अनुभवति

अन्वय:

तत: श्रुति: तत् मननं मुने: चिरं नित्यनिरंतरं सतत्वध्यानं  तत: अविकल्पं परम् (स्थानम्) एत्य विद्वान् इह एव निर्वाणसुखं समृच्छति

तात्पर्यम्

अनित्यवस्तुषु वैराग्यं प्राप्य गुरुमुखेन तत्त्वं श्रुत्वा  तत् मननं कृत्वा तस्य  चिरं नित्यनिरंतरं सतत्वध्यानं  कृत्वा तत: अविकल्पं परम् स्थानम् एत्य  आत्मसाक्षात्कारवान् इह एव मुक्तिसौख्यम् निरर्गलम् अनुभवति ।

व्याकरणम्
सन्धि:
तत:+  श्रुति: - विसर्गसकार:  
तत् + मननं - अनुनासिकासन्धि:

 तत: + अविकल्पं - विसर्गउकार: पूर्वरूपसन्धि:

इह + एव - वृद्धिसन्धि: 

Shloka No 73
मूलश्लोक:

यद्बोद्धव्यं तवेदानीमात्मानात्मविवेचनम् । 
तदुच्यते मया सम्यक्छ्रुत्वात्मन्यवधारय ॥ ७३॥

पदविभाग:

यत् बोद्धव्यं तव इदानीम् आत्मानात्मविवेचनम् 
तत् उच्यते मया सम्यक् श्रुत्वा आत्मनि अवधारय 

पदार्थ:

 बोद्धव्यं - ज्ञातव्यम्
इदानीम् - मोक्षहेतु-ज्ञानबोधात्प्राक्
आत्मानात्मविवेचनम् - आत्म-अनात्म-भेदज्ञान-अनुकूलव्यापार: 
उच्यते - कथ्यते
सम्यक् - सम्यक् 
श्रुत्वा - आकर्ण्य 
आत्मनि - मनसि
अवधारय - निश्चिनुहि

अन्वय:

तव इदानीं यत् बोद्धव्यं तत् आत्मानात्मविवेचनम् मया सम्यक् उच्यते । 
(तत् सम्यक्) श्रुत्वा आत्मनि अवधारय ।

तात्पर्यम्

तव मोक्षहेतु-ज्ञानबोधात्प्राक् यत् ज्ञातव्यं तत् आत्म-अनात्म-भेदज्ञान-अनुकूलव्यापार: मया सम्यक् उच्यते । तत् सम्यक् श्रुत्वा मनसि अवधारय ।

व्याकरणम्
सन्धि:
यत् + बोद्धव्यं - जश्त्वसन्धि:

तव + इदानीम् - गुणसन्धि:
 
तत् + उच्यते -जश्त्वसन्धि:

सम्यक् + श्रुत्वा - छत्वसन्धि:

आत्मनि + अवधारय  - यण्सन्धि:

इह + एव - वृद्धिसन्धि: 

Shloka No 74
मूलश्लोक:

मज्जास्थिमेद:पल-रक्तचर्म-त्वगाह्वयैर्धातुभिरेभिरन्वितम् ।
पादोरुवक्षो-भुजपृष्ठ-मस्तकैरंगैरुपांगैरुपयुक्तमेतत् ॥ ७૪॥
अहं ममेति प्रथितं शरीरं मोहास्पदं स्थूलमितीर्यते बुधै: ।

पदविभाग:

मज्जा अस्थि मेद: पल-रक्तचर्म-त्वगाह्वयै:
धातुभि: एभि: अन्वितम् 
पादोरुवक्षो-भुजपृष्ठ-मस्तकै:
अङ्गै: उपांगै: उपयुक्तम् एतत् 
अहं मम इति प्रथितं शरीरं मोहास्पदं स्थूलम् इति ईर्यते बुधै: 

पदार्थ:

 मज्जा - मज्जा
अस्थि - अस्थि
मेद: - मेद:
पल-रक्तचर्म-त्वगाह्वयै:- माम्स-रक्त-स्थूलावरणं -सूक्ष्मावरणं-कथितै:
धातुभि: -सप्तभि: धातुभि:
अन्वितम् - युक्तम्
पादोरुवक्षो-भुजपृष्ठ-मस्तकै:- पाद-ऊरु-वक्ष-हस्त-पृष्ठ-शिरोभि:
अङ्गै: -अङ्गै:
उपांगै: - उप-अङ्गै:
उपयुक्तम् - सहितम्
अहं - अहं
मम - मम
 प्रथितं - कथितम् 
शरीरं - देह:
मोहास्पदं - आत्मत्व-भ्रमस्य विषय: स्थूलम् -स्थूलम्
ईर्यते - कथ्यते
बुधै: - बुद्धिमद्भि:

अन्वय:

मज्जा -अस्थि-मेद: पल-रक्तचर्म-त्वक् -आह्वयै: एभि: धातुभि:  अन्वितं
पादोरुवक्षो-भुजपृष्ठ-मस्तकै: अङ्गै: उपांगै: उपयुक्तम् अहं मम इति प्रथितं 
मोहास्पदं एतत् शरीरं स्थूलम् इति बुधै: ईर्यते ।

तात्पर्यम्
आस्मिन् श्लोके भगवान् श्रीआदिशङ्कराचार्य: स्थूलशरीरस्य निर्वचनं वदति । मज्जा -अस्थि-मेद: माम्स-रक्तचर्म-त्वक् -आह्वयै: एभि: सप्तधातुभि:  अन्वितं
पादोरुवक्षो-भुजपृष्ठ-मस्तकै: अङ्गै: उप-अङ्गै: उपयुक्तम् अहं मम इति प्रथितं मोह-आस्पदं एतत् शरीरं स्थूलम्  इति बुधै: कथ्यते ।

व्याकरणम्
सन्धि:
 पल-रक्तचर्म-त्वगाह्वयै: +धातुभि: - विसर्गरेफ:

धातुभि: + एभि: - विसर्गरेफ:

एभि: अन्वितम् - विसर्गरेफ:

पादोरुवक्षो-भुजपृष्ठ-मस्तकै: +अङ्गै: - विसर्गरेफ:

अङ्गै: + उपांगै:- विसर्गरेफ:

उपाङंगै: + उपयुक्तम् - विसर्गरेफ:

 मम + इति - गुणसन्धि:

 इति + ईर्यते - सवर्णदीर्घसन्धि:

Shloka No 75
मूलश्लोक:
नभोनभस्वद्दहनांबुभूमय: सूक्ष्माणि भूतानि भवन्ति तानि ॥७५॥
परस्परांशैर्मिलितानि भूत्वा स्थूलानि च स्थूलशरीरहेतव: ।।

पदविभाग:

नभ:-नभस्वत्-दहन-अंबु-भूमय: सूक्ष्माणि भूतानि भवन्ति तानि 
परस्परांशै:  मिलितानि भूत्वा स्थूलानि च स्थूलशरीरहेतव: 

पदार्थ:

 नभ:-नभस्वत्-दहन-अंबु-भूमय: - आकाश:-मरुत्-अग्नि:-जलम्-पृथिवी सूक्ष्माणि -  सूक्ष्माणि
भूतानि-पञ्चभूतानि
भवन्ति - सन्ति 
परस्परांशै: -परस्पर-अंशै:  
मिलितानि - योजयन्ति
भूत्वा -  भूत्वा
स्थूलानि -
गगनादि-शब्द-व्यवहारार्हाणि स्थूलशरीरहेतव: - स्थूलशरीरहेतव: 

अन्वय:

नभ:-नभस्वत्-दहन-अंबु-भूमय: सूक्ष्माणि भूतानि भवन्ति । तानि 
परस्परांशै:  मिलितानि भूत्वा स्थूलानि च स्थूलशरीरहेतव: (भवन्ति)

तात्पर्यम्
आकाश:-मरुत्-अग्नि:-जलम्-पृथिवी सूक्ष्माणि भूतानि भवन्ति । तानि 
परस्पर-अंशै:  मिलितानि पञ्चीकरणं भूत्वा स्थूलानि च स्थूलशरीरहेतव: च भवन्ति । अस्मिन् विषये अधिकविवरणं नवाशीति: (८९) श्लोके भविष्यति । 

व्याकरणम्
सन्धि:
 
परस्परांशै: +  मिलितानि - विसर्गरेफ:

Shloka No 76
मूलश्लोक:

मात्रास्तदीया विषया भवन्ति शब्दादय: पंच सुखाय भोक्तु: ॥७६॥

पदविभाग:

मात्रा: तदीया: विषया: भवन्ति शब्दादय: पंच सुखाय भोक्तु: 

पदार्थ:

 मात्रा: - मात्रा:
तदीया: - आकाशादिभूतसम्बन्धिन्य: विषया: - विषया:
भवन्ति - सन्ति
शब्दादय:-शब्दादय:
 पंच -पञ्च
सुखाय - अनित्यसुखाय
भोक्तु: - संसारिण: जीवस्य

अन्वय:

 तदीया: मात्रा:  शब्दादय: पञ्च विषया: भोक्तु: सुखाय भवन्ति ।

तात्पर्यम्
आकाशादिभूतसम्बन्धिन्य: मात्रा:  शब्दादय: पञ्च विषया: भोक्तु: अनित्यसुखाय भवन्ति ।

व्याकरणम्
सन्धि:
 
मात्रा: + तदीया: - विसर्गसकार:

तदीया: + विषया: - विसर्गलोप:

विषया: + भवन्ति -  विसर्गलोप:



Shloka No 77
मूलश्लोक:

य एषु मूढा विषयेषु बद्धा रागोरुपाशेन सुदुर्दमेन ।
आयान्ति निर्यान्त्यध ऊर्ध्वमुच्चै: स्वकर्मदूतेन जवेन नीता: ॥७७॥

पदविभाग:

ये एषु मूढा: विषयेषु बद्धा: रागोरुपाशेन सुदुर्दमेन 
आयान्ति निर्यान्ति अध: ऊर्ध्वम् उच्चै: स्वकर्मदूतेन जवेन नीता: 

पदार्थ:

 मूढा: - विवेकशून्या: 
विषयेषु - शब्दादिषु 
बद्धा: - युक्ता:
रागोरुपाशेन - राग-उरु-पाशेन
सुदुर्दमेन - अतिदु:खेन दमयितुं शक्येन
आयान्ति - आगच्छन्ति
निर्यान्ति - गच्छन्ति
अध: - क्षीणस्थानम्
ऊर्ध्वम् - श्रेष्ठम् 
उच्चै: - उच्चै: 
स्वकर्मदूतेन - स्वकर्मदूतेन
जवेन - वेगेन
नीता: - नीता: 

अन्वय:

 ये एषु  विषयेषु मूढा: सुदुर्दमेन रागोरुपाशेन बद्धा:  (ते) स्वकर्नदूतेन
अध: ऊर्ध्वम् उच्चै:  जवेन नीता: आयान्ति निर्यान्ति (च) ।

तात्पर्यम्

ये विवेकशून्या: एषु  शब्दादिषु  अतिदु:खेन दमयितुं शक्येन 
राग-दृढ-पाशेन बद्धा:  ते स्वकर्मदूतेन अध: ऊर्ध्वम् उच्चै:  वेगेन नीता: आयान्ति निर्यान्ति च ।

व्याकरणम्
सन्धि:
 
ये + एषु - यान्तवान्तादेशसन्धि: 

मूढा: + विषयेषु  - विसर्गलोप: 

बद्धा: +रागोरुपाशेन  - विसर्गलोप: 

 निर्यान्ति + अध: - यण्सन्धि:


Shloka No 78
मूलश्लोक:

शब्दादिभि: पंचभिरेव पंच पंचत्वमापु: स्वगुणेन बद्धा: ।
कुरंगमातंगपतंगमीनभृंगा नर: पंचभिरंचित: किम् ॥७८॥

पदविभाग:

शब्दादिभि: पंचभि: एव पंच पंचत्वम् आपु: स्वगुणेन बद्धा: 
कुरंगमातंगपतंगमीनभृंगा: नर: पंचभि: अंचित: किम् 

पदार्थ:

 शब्दादिभि: - शब्द-आदिभि:
पंचभि: -पंचभि: 
पंच - पञ्च
पंचत्वम् - मृत्युहेतुत्वम्
आपु: - प्राप्नुवन्त: 
स्वगुणेन -  स्वगुणेन
बद्धा: - बद्धा:
कुरंगमातंगपतंगमीनभृंगा: -
हरिण:-गज:-शलभ:-मत्स्य:-भ्रमरा:
नर: - मनुष्य:
पंचभि: - पञ्चभि:
अंचित: -  युक्त:


अन्वय:
पंचभि: शब्दादिभि: स्वगुणेन एव बद्धा: पंच (प्राणिन:) कुरंग-मातंग-पतंग-मीन-भृंगा: पंचत्वम् आपु:  । पंचभि: अंचित: नर: किम् (भविष्यति) ?


तात्पर्यम्

पंचभि: शब्दादिभि: स्वगुणेन एव बद्धा: पंच प्राणिन: हरिण:-गज:-शलभ:-मत्स्य:-भ्रमरा: मरणत्वम्  प्राप्नुवन्ति । पंचभि: युक्त: नर: अपि मरणत्वम् एव प्राप्नोति । अत्र सन्देह: नास्ति इति आचार्य: वदति ।

व्याकरणम्
सन्धि:
 
पंचभि: + एव - विसर्गरेफ:

कुरंगमातंगपतंगमीनभृंगा: + नर:- विसर्गलोप: 

पंचभि: + अंचित:- विसर्गरेफ:   


Shloka No 79
मूलश्लोक:

दोषेण तीव्रो विषय: कृष्णसर्पविषादपि ।
विषं निहन्ति भोक्तारं द्रष्टारं चक्षुषाप्ययम् ॥७९॥

पदविभाग:

दोषेण तीव्र: विषय: कृष्णसर्पविषात् अपि विषं निहन्ति भोक्तारं द्रष्टारं चक्षुषा अपि अयम् 

पदार्थ:

दोषेण -  दोषेण
तीव्र: - तीक्ष्ण:
विषय: -रूपादि: विषया:
कृष्णसर्पविषात् - कृष्णसर्प-विषात्
विषं - विषम्
निहन्ति - हन्ति
भोक्तारं - विषयभोक्तारम्
द्रष्टारं - द्रष्टारम्
चक्षुषा - नेत्रेण

अन्वय:

विषय: कृष्णसर्पविषात् अपि दोषेण तीव्र: विषं  भोक्तारं निहन्ति ।
अयं (विषय:) चक्षुषा द्रष्टारं  अपि (निहन्ति) ।

तात्पर्यम्

विषय: कृष्णसर्पविषात् अपि दोषेण तीक्ष्ण: । विषं  भोक्तारं निहन्ति ।
 परन्तु अयं विषय: चक्षुषा द्रष्टारं  अपि निहन्ति।

व्याकरणम्
सन्धि:
 
तीव्र: + विषय: - विसर्गउकार:

कृष्णसर्पविषात् + अपि - जश्त्वसन्धि:

चक्षुषा + अपि - सवर्णदीर्घसन्धि:

 अपि + अयम् - यण्सन्धि;


Shloka No 80
मूलश्लोक:

विषयाशामहापाशाद्यो विमुक्त: सुदुस्त्यजात् ।
स एव कल्पते मुक्त्यै नान्य: षट्छास्त्रवेद्यपि ॥८०॥

पदविभाग:

विषयाशामहापाशात् य: विमुक्त: सुदुस्त्यजात् स: एव कल्पते मुक्त्यै न अन्य: षट्छास्त्रवेदि अपि 

पदार्थ:

विषयाशामहापाशात्  - विषय-आशा- महापाशात्
य: - य: पुरुष: 
विमुक्त: - विशेषेण मुक्त:
सुदुस्त्यजात् - चिरकालादभ्यस्तत्वेन स: - स: पुरुष:
कल्पते - समर्थ: भवति  
मुक्त्यै -  मुक्त्यै
अन्य: - इतर:
षट्छास्त्रवेदी -षट्-शास्त्रवेदी

अन्वय:

य: सुदुस्त्यजात् विषयाशामहापाशात् विमुक्त: स: एव  मुक्त्यै कल्पते ।
 षट्छास्त्रवेदी अपि न अन्य: ( मुक्त्यै कल्पते )।

तात्पर्यम्

य: पुरुष: सुदुस्त्यजात् विषय-आशा-महापाशात् विमुक्त: स: एव  मुक्त्यै समर्थ: भवति । षट्छास्त्रवेदी अपि न अन्य:  मुक्त्यै कल्पते ।

व्याकरणम्
सन्धि:
 
विषयाशामहापाशात् + य: - जश्त्वसन्धि:

य: + विमुक्त: - विसर्गउकार:

 स: + एव - विसर्गलोप:

 न + अन्य: - सवर्णदीर्घसन्धि:

 षट्छास्त्रवेदी + अपि - यण्सन्धि:

नमो नम: श्रीगुरुपादुकाभ्याम् ।

~ शरवण:

03.10.2020

Viveka Chudamani Shlokas 81 to 90

  ॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥ Shloka No: 81 मूलश्लोक: आपात वैराग्यवतो मुमुक्षून् भवाब्धिपारं प्रतिपातुमुद्यतान् । आशागृहो ...