Tuesday 19 September 2017

Subhashitham 20.09.2017

।।मातृ देवो भव।।

पितुरप्यधिका माता   
गर्भधारणपोषणात्  ।
अतो हि त्रिषु लोकेषु 
नास्ति मातृसमो गुरुः॥

पदविभाग:
पितु: अपि अधिका माता गर्भ धारण पोषणात् अत: हि त्रिषु लोकेषु नास्ति मातृसम: गुरु:

प्रतिपदार्थ:

पितु: - तातत्
अधिका - अधिका
गर्भ - गर्भिणी
धारणपोषणात् - गर्भरक्षणात्
लोकेषु - जगत्सु
मातृसम: - अम्बायै समान
गुरु: - गुरु:

अन्वय:
गर्भधारणपोषनात् माता पितु: अपि अधिका मातृसम: गुरु: त्रिषु लोकेषु नास्ति |

तात्पर्यम्
 
गर्भ धारणं पोषणं च कृते मातु: स्थानं पितु: स्थानात् अधिकं भवति। अत: त्रिषु लोकेषु माता समान गुरु: नास्ति। माता एव प्रथम गुरु:| अत: वयं सर्वे अस्माकं मातरं नमस्कारं करिष्याम: |

Monday 18 September 2017

Subhashitham 19.09.2017

सन्तोषस्त्रिषु कर्तव्यः कलत्रे भोजने धने l
त्रिषु चैव न कर्तव्यो अध्ययने जपदानयोः ||


पदविभागः  /  प्रतिपदार्थः
सन्तोषः - आनन्दः
त्रिषु  - त्रिषु
कर्तव्यः  - करणीयः
कलत्रे - भार्यायाम्
भोजने -  आहारे
धने - वित्ते
त्रिषु - एतस्मिन् त्रिषु विषये
च - अव्ययम्
एव - अव्ययम्
न - अव्ययम्
कर्तव्यः - तेन अवश्यं कृतं कार्यम्
अध्ययने - शिक्षणे
जप: - जप विषये 
दान:  - दान विषये

अन्वयः

कलत्रे भोजने धने त्रिषु (विषये) सन्तोषः कर्तव्यः।
अध्ययने जपे दाने च त्रिषु   (विषये) एव (सन्तोषः) न कर्तव्यः।

तात्पर्यम्

मनुष्य: सदा अनेक वस्तुनी इच्छति | अत: स: अनेक वस्तुनी प्राप्तवान् अपि स:  सनतोषं न अनुभुतवान् |पश्चात् स: अठति | एतत् सुभाषिते सुभाषितकार: के के विषये सन्तोषं कर्तव्यं   के के विषये सन्तोषं न  कर्तव्यं  इति उक्तवान्

मनुष्य: तस्य कलत्रं  भोजनं धनं विषये सन्तोषं कर्तव्यम् | अध्ययनं जपम् दानम् विषये सन्तोषं न करणीयम् |


सन्धिः
सन्तोषः+त्रिषु - विसर्गस्य सकारः
च + एव - वृद्धिसन्धिः
कर्तव्यः+अध्ययने - विसर्गःउकारः गुणसन्धिः

Sunday 17 September 2017

Subhashitham 18.09.2017

सत्यं माता पिता ज्ञानं धर्मो भ्राता दया सखी ।

शान्तिः पत्नी क्षमा पुत्रः षडमी मम बान्धवाः ॥ 

पदविभागः प्रतिपदार्थः

सत्यम् = सत्यम्
माता = अम्बा
पिता = तात:
ज्ञानम् = विद्या
धर्मः = धर्म:
भ्राता = अग्रजा
दया = करुणा
सखी = सखी
शान्तिः = शान्ति:
पत्नी = कलत्रम्
क्षमा = क्षमा
पुत्रः = सुत: 
अमी = अमी
षट् = षट्
मम = मम
बान्धवाः = बन्धु:

अन्वयः
सत्यम् माता ज्ञानं पिता धर्मो भ्राता दया सखी  शान्तिः पत्नीः  क्षमा पुत्रः (सन्ति) अमी षट् मम बान्धवाः |


तात्पर्यम्

एक महापुरुष: उक्तवान् - 

सत्यमेव मम माता |  ज्ञानमेव मम पिता |  धर्म: एव मम सहोदर: | दया गुण:  एव मम सखी  | शान्तिः गुण: एव मम कलत्रं  | क्षमा गुण: एव मम पुत्रः भवति | एते षट् मम बान्धवाः भवति |

Saturday 16 September 2017

Subhashitham 17.09.2017

तिलकं विप्र हस्तेन, मातृ हस्तेन भोजनम्।
पिण्डं पुत्र हस्तेन ,न भविष्यति पुनः पुनः ।।

पदविभाग: / प्रतिपदार्थ:

तिलकं - श्रेष्ठंअङ्गीकरणं 
विप्र: - पण्डित:
हस्तेन - करेण
मातृ - अम्बा
भोजनम् - भोजनम्
पिण्डम् - पिण्डम्
पुत्र: - सुत:
न भविष्यति - न प्राप्नोति
पुन: - अव्ययम्

अन्वय:

 विप्र हस्तेन तिलकं, मातृ हस्तेन भोजनम्, पुत्र हस्तेन पिण्डं पुनः पुनः न भविष्यति |

तात्पर्यम्

मनुष्य जन्म: बहु दुर्लभम् | भगवत् आशीर्वादेन वयं नर जन्मं प्राप्तवन्त: | अस्माकं जीवने विप्र हस्तेब श्रेष्टं अङ्गीकरणं माता हसतेन भोजनम् पुत्र हस्तेन पिण्डम् च बहु दुर्लभम् | एतत् भाग्यम् पुन: पुन: न भविष्यति इति सुभाषितकार: मनुष्यजन्मस्य महत्वम् उक्तवान् |

Thursday 14 September 2017

Subhashitham 15.09.2017

सुभाषितम्

शरिरं चैव वाचं बुद्धिन्द्रिय मनांसि च ।
नियम्य प्राञ्जलिः तिष्ठेत् वीक्षमाणो गुरोर्मुखम् ॥

पदविभागः  / प्रतिपदार्थः
शरीरं = देहम्
च = अव्ययम्
एव = एव
वाचं = वाणीं
बुद्धि= मतिः 
इन्द्रियम्= इन्द्रियम्
मनांसि = चेतस्
च = अव्ययम्
नियम्य = अनुसृत्य
प्राञ्जलिः = सहृदय
तिष्ठेत् =
वीक्षमाणः = पश्यन्
गुरोः = गुरोः
मुखम् = वदनं

अन्वयः 
शरीरं वाचं बुद्धीन्द्रियं मनांसि च प्राञ्जलिः  नियम्य एव तिष्ठेत् गुरोः मुखं वीक्षयमाणः।

तात्पर्यम्

एतस्मिन्  श्लोके अस्माभिः गुरवे सत्कारं करणीयम् इति उच्यते। प्रथमं अस्माभिः शरीरस्य वाण्याः च वशीकरणीयौ । तदानन्तरं  बुद्ध्याः , इन्द्रियाणां, मनसां च नियन्त्रणं करणीयम् । एते सर्वे कृत्वा गुरुं वीक्षमाणः नमस्कारः करणीयः। यदि वयं न कुर्मः तर्ही  विद्यां प्राप्तुम् एव कठिनं भवेत् ।

Wednesday 13 September 2017

Bhaja Govindham Verses 1 - 5 With Anvaya

Bhaja Govindham Verses 1 - 5 With Anvaya

भज गोविन्दम्    Sloka ..1

भजगोविन्दम्  भजगोविन्दम्
भजगोविन्दम् मूढमते |
संप्राप्ते सन्निहिते काले
नहि नहि रक्षति डुकृञ्करणे || १

पदविभाग पदार्थ:

भज - पूजयतु 
गोविन्दम् - विष्णुम्
भज - पूजयतु
गोविन्दम् - विष्णुम्
भज - पूजयतु
गोविन्दम् - विष्णुम्
 मूढमते - मूढ
संप्राप्ते - अगत्य समये
सन्निहिते - समीपे
काल: - यमधर्मराजा
नहि नहि  - न
रक्षति - रक्षयति 
डुकृञ्करणे -  डुकृञ्करणे पदम्

अन्वय:
हे मूढमते !  गोविन्दम् भज ! 
गोविन्दम् भज ! गोविन्दम् भज !
काले सन्निहिते संप्राप्ते डुकृञ्करणे नहि नहि रक्षति |

तात्पर्यम्

श्री श्री शङ्कर भगवत्र्पादा: भज गोविन्दम् विरचितवान् | स: यथा काशी नगरे स्वस्य शिश्यै: सह गतवान् तथा स: एक ब्राह्मण: _डुकृञ्करणे_ पदम् कण्ठपाठार्थं कृतवान् स्म | तत् द्रुष्ट्वा सङ्कर:  भज गोविन्दम् श्लोकम् रचयितवान् स्म | एतत् ३१ श्लोक: सन्ति | प्रति दिनं एक श्लोकम् अन्वयं कर्तुम् प्रयत्नम् करोमि |
प्रथम श्लोके सङ्कर इति   उक्तवान -

हे मूढ ! गोविन्दम् पूजयतु | गोविन्दम् पूजयतु | यमधर्मराजा अगत्य समये डुकृञ्करणे पद: त्वाम् न रक्षति | अत: संसकृत व्याहरणे कालविरयं त्यक्तवा गोविन्दं चरणौ शरणम् कुरु |

भज गोविन्दम्      Sloka ..2

मूढ जहीहि धनागमतृष्णां
कुरु सद्बुद्धिं मनसि वितृष्णाम् |
यल्लभसे निजकर्मोपात्तं 
वित्तं तेन विनोतय चित्तम् ||

पदविभाग: पदार्थ:

मूढ - मूढ 
जहीहि - त्यज
धनागमतृष्णां - धन विषये आशा
कुरु - कार्यं कुरु
 सद्बुद्धिं - बुद्धि:
सुमनसि - मनसि
वितृष्णाम् - आशारहित
यत् - यत्
लभसे - लभ्यते 
 निजकर्मोपात्तं - स्वस्य पुण्येन लभ्यते
वित्तं - धनं
तेन - तेन
विनोतय - सनतोषं कुरु
चित्तम् - मनस्

अन्वय:

हे मूढ ! धनागमतृष्णां जहीहि | मनसि वितृष्णाम् सद्बुद्धिं कुरु |
निजकर्मोपात्तम् यत् वित्तं लभसे तेन चित्तं विनोदय | 

तात्पर्यम्

श्री श्री शङ्कर भगवत्भादार् भज गोविन्दम् विरचितवान् | द्वितीय श्लोके सङ्कर: इति   उक्तवान -

हे मूढ ! त्वम् सदा धनविषये चिन्तयसि | अत: धन अगम आशां त्यज | तव मनसे वितृष्णां 
सद्बुद्धिं चिन्तयसि | तव कर्म कारणात् यत् धनं लभसे तेन चिन्ताम् सन्तोषम् भवतु |

भज गोविन्दम्           Sloka ..3

नारीस्तनभरनाभीदेशं 
दृष्ट्वा मा गा मोहावेशम् |
एतन्मांसवसादिविकारं
 मनसि विचिन्त्य वारं वारम् || ३

पदविभाग: प्रतिपदार्थ:

नारीस्तनभरनाभीदेशं - महिला रूपम्
दृष्ट्वा - वीक्ष्य
 मा  गा - न कुरु
मोहावेशम् - मोहम् 
एतत् - एतत् 
मांसवसादिविकारं मांसस्य रूपं
मनसि - अन्तकरणे
विचिन्त्य - चिन्तनं कुरु 
वारं वारम् - पुन: पुन:

अन्वय:

नारीस्तनभरनाभीदेशं 
दृष्ट्वा  मोहावेशम् मा गा
एतत् मांसवसादिविकारं
 (अत:) मनसि वारं वारम् विचिन्त्य |

तात्पर्यम्

श्री श्री शङ्कर भगवत्भादर् भज गोविन्दम् विरचितवान् | तृतीय श्लोके सङ्कर: इति   उक्तवान -

हे मूढ! त्वं स्त्रीणां स्तनभर नाभि देशं दृष्ट्वा मोहं न करणीयम् | एतत् सर्वं रक्तं माम्सं च विकारूपं अभवत् | त्वम् एतत् पुन: पुन: चिन्तयसि |

भज गोविन्दम्     Sloka ..4

नलिनीदलगत जलमतितरलं 
तद्वज्जीवितमतिशयचपलम् |
विद्धि व्याध्यभिमानग्रस्तं
लोकं शोकहतं च समस्तम् || ४


पदविभाग: प्रतिपदार्थ:

नलिनीदलगत जलम् - कमलपत्रेण जलम्
अतितरलं -  बहुतरलम्
तद्वत्  -तद्वत्
जीवितम् - जिवनं
अतिशयचपलम् - अनित्यम्
विद्धि - ज्ञासि
व्याध्यभिमानग्रस्तं - व्याधि गर्वन पीठत
लोकं - लोकम्
शोकहतं - शोकमयम्
च - अव्ययम्
समस्तम् - समस्तं 


अन्वय:

नलिनीदलगत जलम् अतितरलं तद्वत् जीवितम्   अतिशयचपलम्  | लोकं समस्तं व्याध्यभिमानग्रस्तं
 शोकहतं च विद्धि||


तात्पर्यम्

श्री श्री शङ्कर भगवत्भादर् भज गोविन्दम् विरचितवान् | चत्वार: श्लोके सङ्कर: इति   उक्तवान -

कमलपत्रेण जलम् अतितरलम् | तत् इतस्तत: अठति एव | तद्वत् अस्माकं जीवितम् अपि | लोके सर्वत्र व्याधि: अहङ्कार: च पीठितवन्त: पुर्व पुण्येन लभ्तमानम एतत् शरीरम् अनित्यम् एव | अत: जीवित कालम् अपि आशा, व्याधि: अहङ्कार: च दु:खं एव | स्वल्पेन सुखम् अपि नास्ति | अत: इदानिम् अपि गोविन्दं पूजय  गोविन्दं पूजय |

भज गोविन्दम्  Sloka ..5

यावद्वित्तोपार्जन सक्त: 
तावन्निज परिवारो रक्त:
पश्चाज्जीवति जर्जरदेहे
वार्तां कोSपिन पृच्छति गेहे || ५

पदविभाग: प्रतिपदार्थ:
यावत् -  यावत्
वित्त: - धनं
उपार्जन - संपादयति
 सक्त: - शक्ति
तावत् - तावत्
निज - स्वस्य
परिवार: - जना: 
रक्त: - प्रिय भावेन अस्ति
पश्चात् - अपरम्
जीवति - जीवन् अस्ति अपि
 जर्जरदेहे - वृद्ध व्याधि पीठित शरीरं
वार्तां - कुशलम्
 कोSपि -  कोSपि
न - न
 पृच्छति - पृच्छति
 गेहे - गृहे


अन्वय:

यावत् वित्तोपार्जन सक्त: तावत् निज परिवार: रक्त: |पश्चात् जर्जरदेहे जीवति (अपि) गेहे कोSपि वार्तां न पृच्छति |

तात्पर्यम्

श्री श्री शङ्कर भगवत्भादर् भज गोविन्दम् विरचितवान् | पञ्चमे श्लोके शङ्कर: इति   उक्तवान -

एक: तम् कुटुम्ब प्रिय कारणात् अनेक धनम् संपादयति | तत् समये सर्व जना: प्रिय स्वाभावेन अस्ति | यथा स: वृद्ध:  जर्जरदेह: च आसित् तथा कोSपि कुशलम् अपि न पृच्छति| सर्व जना: मनुष्यस्य धनम् एव इच्छन्ति |  अत:  त्वम् गोविन्दम् पूजय |

[To be Continued...]

Subhashitham 14.09.2017

Subhashitham 14.09.2017


पापान्निवारयति योजयते हिताय
गुह्यं निगूहति गुणान् प्रकटीकरोति |
आपद्गतं च न जहति ददाति काले
सन्मित्रलक्षणमिदं प्रवदन्ति सन्त: ||

पदविभाग:

पापात् निवारयति  योजयते  हिताय गुह्यं निगूहति गुणान् प्रकटीकरोति आपद्गतं च न जहति ददाति काले सन्मित्रलक्षणमिदं प्रवदन्ति सन्त: 

प्रतिपदार्थ:
पापात् - दुरुफलात्
निवारयति  - निवारणं करोति
हिताय - उपकाराय
योजयते - योजनं करोति
गुह्यम्  - रहस्यम्
निगूहति - रहस्यमेव रक्षति
गुणान्  - स्वभावान्
प्रकटीकरोति  - प्रकटीकरोति
आपद्गतम् - आपत्काले
च  - अव्ययम्
न - अव्ययम्
जहति -  त्यजति
ददाति - ददाति
काले - समये
सन्मित्रलक्षणम्  - सन्मित्रस्य स्वभावम्
इदम् - एतत्
प्रवदन्ति - सम्यक् भाषते
सन्तः - सज्जनाः

अन्वय:

 पापात् निवारयति हिताय योजयते गुह्यं निगूहति गुणान् प्रकटीकरोति आपद्गतं न जहाति काले ददाति (एते) सन्त: इदं सन्मित्रलक्षणं प्रवदन्ति |

तात्पर्यम्

सन्मित्रम् सन्मार्गे तस्य मित्रं गन्तुं सहायं करोति | स: तस्य मित्रस्य गुह्यं रक्षति | स: तस्य मित्रस्य सत्गुणान् प्रकटीकरोति | स: तस्य मित्रस्य आपद्काले न त्यजति | स: तस्य मित्राय कष्टकाले  धनं ददाति | एतस्मिन् श्लोके  सज्जना: सन्मित्रस्य लक्षणानि अवदन् |

सन्धिः
पापात् + निवारयति - अनुनासिकसन्धिः
आपत् + गतं - जश्त्वसन्धिः
सत् + मित्रलक्षणम् - अनुनासिकसन्धिः

Tuesday 12 September 2017

Subhashitham 13.09.2017

आयुर्नश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनं
प्रत्यायान्ति गताः पुनर्न दिवसाः कालो जगद्भक्षकः ।
लक्ष्मीस्तोयतरङ्गभङ्गचपला विद्युच्चलं जीवितं
तस्मात्त्वां शरणागतं शरणद त्वं रक्ष रक्षाधुना ||

पदविभाग: प्रतिपदार्थ:

आयु: - वय:
नश्यति - नश्यति 
पश्यतां - पश्यताम्
प्रतिदिनं - दिने दिने 
याति - गच्छति
 क्षयं - क्षीणं
यौवनं - तरुण पर्वं
प्रत्यायान्ति- प्रत्यागच्छति
गताः - गता:
पुन: - पुन: / अव्ययम्
न  - अव्ययम्
दिवसाः - दिना:
काल:  - समय:
जगद्भक्षक: - विश्वभक्षक:
लक्ष्मी: - वित्तम्
तोयतरङ्गभङ्गचपला  -  धनं जलप्रवाह: चपला इव
विद्युत् - चपला 
चलं जीवितं - अस्थिरं जीवनम्
तस्मात् - तस्मात्
त्वां - त्वाम्
शरणागतं - शरणागतं
शरणद - य: शरणं ददाति
त्वं - त्वं
रक्ष   - रक्ष
अधुना - इदानीम्

अन्वय:
अायु: नश्यति पश्यताम्। यौवनं प्रतिदिनं क्षयं याति।गता: दिवसा: पुन: न प्रत्यायान्ति । काल: जगद्भक्षक:। तोयतरङ्गचपला लक्षमी: विद्युच्चलं जीवितं।
शरणद तस्मात्  त्वां शरणागतं। त्वं रक्ष रक्ष अधुना।

तात्पर्यम्

एष: श्लोक: श्रीशिवापाराधक्षमापनस्तोत्रे अस्ति | एष: श्लोक: श्री श्री शङ्कर भगवत्भादर् विरचितवान् | मनुष्यस्य जीवने अायु: क्षयिष्णु भवति। यौवनं अपि दिने दिने क्षयः भवति। गता: दिवा: पुनर्न अागच्छति। यत: काल: जगद्भक्षक: । यथा तोयतरङ्ग: इतस्तत: गच्छति  तथा धनं अपि एकस्थाने न तिष्ठति। सा प्रतिदिनं जनै: प्राप्तिः अस्ति। अनन्तरं चपला इव सा अन्यत्र गच्छति। अत: ईश्वर , तस्मात् त्वां शरणागतम्। 
हे ईश्वर , त्वं त्वरया अस्मान् रक्ष रक्ष*

सन्धि:
आयुः + नश्यति =  विसर्ग .रेफः
प्रति + अयान्ति = यण् सन्धिः
पुनः + न = विसर्ग रेफः
कालः + जगद्भक्षकः = विसर्ग उकारः , गुणसन्धिः
जगत् + भक्षकः = जश्त्वसन्धिः
लक्षमीः + तोय = विर्सग सकारः
विद्युत् +चलं = श्चुत्वसन्धिः

Vivekachudamani (Shlokas 91 to 110)

॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥   मूलश्लोक:   बाह्येन्द्रियै: स्थूलपदार्थसेवां स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् । करो...