Monday 4 May 2020

॥आत्मार्पणस्तुति: ॥ Shloka No 1

श्रीमदप्पय्यदीक्षित विरचिता
॥आत्मार्पणस्तुति: ॥

मूलश्लोक:

कस्ते बोद्धुं प्रभवति परं देवदेव प्रभावम् यस्मादित्थं विविधरचना सृष्टिरेषा बभूव   ।
भक्तिग्राह्यस्त्वमसि तदपि त्वामहं भक्तिमात्रात् स्तोतुं वाञ्छाम्यतिमहदिदं साहसं मे सहस्व ॥१॥

पदच्छेद:

क: ते बोद्धुं प्रभवति परं देवदेव प्रभावम् यस्मात् इत्थं विविधरचना सृष्टि: एषा बभूव  भक्तिग्राह्य: त्वम् असि तदपि त्वाम् अहं भक्तिमात्रात् स्तोतुं वाञ्छामि अतिमहत् इदं साहसं मे सहस्व 

अन्वय:

हे देवदेव ! यस्मात् इत्थं विविधरचना एषा सृष्टि: बभूव, ते परं  प्रभावम्
बोद्धुं क: प्रभवति (शक्नोति)  ।
तदपि इह त्वम् भक्तिग्राह्य:  असि । (अत:) अहं  त्वाम् भक्तिमात्रात् स्तोतुं वाञ्छामि । मे इदं अतिमहत्  साहसं  सहस्व ।

व्याकरणम्
▶ सन्धि:
क: + ते - विसर्गसकार:

 यस्यात् + इत्थं - जश्त्वसन्धि:

 सृष्टि: + एषा - विसर्गरेफ:

भक्तिग्राह्य: + त्वम् - विसर्गसकार:

 वाञ्छामि + अतिमहत् - यण्सन्धि:

अतिमहत् + इदं - जश्त्वसन्धि:

~ शरवण:

No comments:

Post a Comment

Vivekachudamani (Shlokas 91 to 110)

॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥   मूलश्लोक:   बाह्येन्द्रियै: स्थूलपदार्थसेवां स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् । करो...